Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 124
Mahabharata · Adi Parva
वैशंपायन उवाच
कृतास्त्रान्धार्तराष्ट्रांश्च पाण्डुपुत्रांश्च भारतदृष्ट्वा द्रोणोऽब्रवीद्राजन्धृतराष्ट्रं जनेश्वरम् ॥१॥
कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतःगाङ्गेयस्य च सांनिध्ये व्यासस्य विदुरस्य च ॥२॥
राजन्संप्राप्तविद्यास्ते कुमराः कुरुसत्तमते दर्शयेयुः स्वां शिक्षां राजन्ननुमते तव ॥३॥
ततोऽब्रवीन्महाराजः प्रहृष्टेनान्तरात्मनाभारद्वाज महत्कर्म कृतं ते द्विजसत्तम ॥४॥
यदा तु मन्यसे कालं यस्मिन्देशे यथा यथातथा तथा विधानाय स्वयमाज्ञापयस्व माम् ॥५॥
स्पृहयाम्यद्य निर्वेदात्पुरुषाणां सचक्षुषाम्अस्त्रहेतोः पराक्रान्तान्ये मे द्रक्ष्यन्ति पुत्रकान् ॥६॥
क्षत्तर्यद्गुरुराचार्यो ब्रवीति कुरु तत्तथान हीदृशं प्रियं मन्ये भविता धर्मवत्सल ॥७॥
ततो राजानमामन्त्र्य विदुरानुगतो बहिःभारद्वाजो महाप्राज्ञो मापयामास मेदिनीम्समामवृक्षां निर्गुल्मामुदक्प्रवणसंस्थिताम् ॥८॥
तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजितेअवघुष्टं पुरे चापि तदर्थं वदतां वर ॥९॥
रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधिप्रेक्षागारं सुविहितं चक्रुस्तत्र च शिल्पिनःराज्ञः सर्वायुधोपेतं स्त्रीणां चैव नरर्षभ ॥१०॥
मञ्चांश्च कारयामासुस्तत्र जानपदा जनाःविपुलानुच्छ्रयोपेताञ्शिबिकाश्च महाधनाः ॥११॥
तस्मिंस्ततोऽहनि प्राप्ते राजा ससचिवस्तदाभीष्मं प्रमुखतः कृत्वा कृपं चाचार्यसत्तमम् ॥१२॥
मुक्ताजालपरिक्षिप्तं वैडूर्यमणिभूषितम्शातकुम्भमयं दिव्यं प्रेक्षागारमुपागमत् ॥१३॥
गान्धारी च महाभागा कुन्ती च जयतां वरस्त्रियश्च सर्वा या राज्ञः सप्रेष्याः सपरिच्छदाःहर्षादारुरुहुर्मञ्चान्मेरुं देवस्त्रियो यथा ॥१४॥
ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद्द्रुतम्दर्शनेप्सु समभ्यागात्कुमाराणां कृतास्त्रताम् ॥१५॥
प्रवादितैश्च वादित्रैर्जनकौतूहलेन चमहार्णव इव क्षुब्धः समाजः सोऽभवत्तदा ॥१६॥
ततः शुक्लाम्बरधरः शुक्लयज्ञोपवीतवान्शुक्लकेशः सितश्मश्रुः शुक्लमाल्यानुलेपनः ॥१७॥
रङ्गमध्यं तदाचार्यः सपुत्रः प्रविवेश हनभो जलधरैर्हीनं साङ्गारक इवांशुमान् ॥१८॥
स यथासमयं चक्रे बलिं बलवतां वरःब्राह्मणांश्चात्र मन्त्रज्ञान्वाचयामास मङ्गलम् ॥१९॥
अथ पुण्याहघोषस्य पुण्यस्य तदनन्तरम्विविशुर्विविधं गृह्य शस्त्रोपकरणं नराः ॥२०॥
ततो बद्धतनुत्राणा बद्धकक्ष्या महाबलाःबद्धतूणाः सधनुषो विविशुर्भरतर्षभाः ॥२१॥
अनुज्येष्ठं च ते तत्र युधिष्ठिरपुरोगमाःचक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम् ॥२२॥
केचिच्छराक्षेपभयाच्छिरांस्यवननामिरेमनुजा धृष्टमपरे वीक्षां चक्रुः सविस्मयाः ॥२३॥
ते स्म लक्ष्याणि विविधुर्बाणैर्नामाङ्कशोभितैःविविधैर्लाघवोत्सृष्टैरुह्यन्तो वाजिभिर्द्रुतम् ॥२४॥
तत्कुमारबलं तत्र गृहीतशरकार्मुकम्गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन् ॥२५॥
सहसा चुक्रुशुस्तत्र नराः शतसहस्रशःविस्मयोत्फुल्लनयनाः साधु साध्विति भारत ॥२६॥
कृत्वा धनुषि ते मार्गान्रथचर्यासु चासकृत्गजपृष्ठेऽश्वपृष्ठे च नियुद्धे च महाबलाः ॥२७॥
गृहीतखड्गचर्माणस्ततो भूयः प्रहारिणःत्सरुमार्गान्यथोद्दिष्टांश्चेरुः सर्वासु भूमिषु ॥२८॥
लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम्ददृशुस्तत्र सर्वेषां प्रयोगे खड्गचर्मणाम् ॥२९॥
अथ तौ नित्यसंहृष्टौ सुयोधनवृकोदरौअवतीर्णौ गदाहस्तावेकशृङ्गाविवाचलौ ॥३०॥
बद्धकक्ष्यौ महाबाहू पौरुषे पर्यवस्थितौबृंहन्तौ वाशिताहेतोः समदाविव कुञ्जरौ ॥३१॥
तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौचेरतुर्निर्मलगदौ समदाविव गोवृषौ ॥३२॥
विदुरो धृतराष्ट्राय गान्धार्यै पाण्डवारणिःन्यवेदयेतां तत्सर्वं कुमाराणां विचेष्टितम् ॥३३॥
End of chapter ॥
1

0
Adhyaya 124Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0