महाभारत, पुस्तक रूप में
॥ ॐ ॥यदि आपको इस मंच का अनुभव अच्छा लगा हो…॥ दान ॥तो कृपया दान करेंइससे ये ग्रंथ सबके लिए खुले और निःशुल्क रहते हैं।दान करेंमहाभारत · आदि पर्व
॥ श्रीः ॥
अध्याय 153
महाभारत · आदि पर्व
जनमेजय उवाच
ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम्अत ऊर्ध्वं ततो ब्रह्मन्किमकुर्वत पाण्डवाः ॥१॥
वैशंपायन उवाच
तत्रैव न्यवसन्राजन्निहत्य बकराक्षसम्अधीयानाः परं ब्रह्म ब्राह्मणस्य निवेशने ॥२॥
ततः कतिपयाहस्य ब्राह्मणः संशितव्रतःप्रतिश्रयार्थं तद्वेश्म ब्राह्मणस्याजगाम ह ॥३॥
स सम्यक्पूजयित्वा तं विद्वान्विप्रर्षभस्तदाददौ प्रतिश्रयं तस्मै सदा सर्वातिथिव्रती ॥४॥
ततस्ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाःउपासां चक्रिरे विप्रं कथयानं कथास्तदा ॥५॥
कथयामास देशान्स तीर्थानि विविधानि चराज्ञां च विविधाश्चर्याः पुराणि विविधानि च ॥६॥
स तत्राकथयद्विप्रः कथान्ते जनमेजयपाञ्चालेष्वद्भुताकारं याज्ञसेन्याः स्वयंवरम् ॥७॥
धृष्टद्युम्नस्य चोत्पत्तिमुत्पत्तिं च शिखण्डिनःअयोनिजत्वं कृष्णाया द्रुपदस्य महामखे ॥८॥
तदद्भुततमं श्रुत्वा लोके तस्य महात्मनःविस्तरेणैव पप्रच्छुः कथां तां पुरुषर्षभाः ॥९॥
कथं द्रुपदपुत्रस्य धृष्टद्युम्नस्य पावकात्वेदिमध्याच्च कृष्णायाः संभवः कथमद्भुतः ॥१०॥
कथं द्रोणान्महेष्वासात्सर्वाण्यस्त्राण्यशिक्षतकथं प्रियसखायौ तौ भिन्नौ कस्य कृतेन च ॥११॥
एवं तैश्चोदितो राजन्स विप्रः पुरुषर्षभैःकथयामास तत्सर्वं द्रौपदीसंभवं तदा ॥१२॥
अध्याय समाप्त ॥
१

0
अध्याय 153पृष्ठ 1–1 / 1
पृष्ठ पलटने के लिए कोना खींचें, स्वाइप करें या तीर कुंजियाँ दबाएँ
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0