Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 18
Mahabharata · Adi Parva
सूत उवाच
एतत्ते सर्वमाख्यातममृतं मथितं यथायत्र सोऽश्वः समुत्पन्नः श्रीमानतुलविक्रमः ॥१॥
यं निशाम्य तदा कद्रूर्विनतामिदमब्रवीत्उच्चैःश्रवा नु किंवर्णो भद्रे जानीहि माचिरम् ॥२॥
विनतोवाचश्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभेब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे ॥३॥
कद्रूरुवाचकृष्णवालमहं मन्ये हयमेनं शुचिस्मितेएहि सार्धं मया दीव्य दासीभावाय भामिनि ॥४॥
सूत उवाच
एवं ते समयं कृत्वा दासीभावाय वै मिथःजग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह ॥५॥
ततः पुत्रसहस्रं तु कद्रूर्जिह्मं चिकीर्षतीआज्ञापयामास तदा वाला भूत्वाञ्जनप्रभाः ॥६॥
आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथातद्वाक्यं नान्वपद्यन्त ताञ्शशाप भुजंगमान् ॥७॥
सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यतिजनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः ॥८॥
शापमेनं तु शुश्राव स्वयमेव पितामहःअतिक्रूरं समुद्दिष्टं कद्र्वा दैवादतीव हि ॥९॥
सार्धं देवगणैः सर्वैर्वाचं तामन्वमोदतबहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया ॥१०॥
तिग्मवीर्यविषा ह्येते दन्दशूका महाबलाःतेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय वैप्रादाद्विषहणीं विद्यां काश्यपाय महात्मने ॥११॥
End of chapter ॥
1

0
Adhyaya 18Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0