महाभारत, पुस्तक रूप में
॥ ॐ ॥यदि आपको इस मंच का अनुभव अच्छा लगा हो…॥ दान ॥तो कृपया दान करेंइससे ये ग्रंथ सबके लिए खुले और निःशुल्क रहते हैं।दान करेंमहाभारत · आदि पर्व
॥ श्रीः ॥
अध्याय 183
महाभारत · आदि पर्व
वैशंपायन उवाच
भ्रातुर्वचस्तत्प्रसमीक्ष्य सर्वे; ज्येष्ठस्य पाण्डोस्तनयास्तदानीम्तमेवार्थं ध्यायमाना मनोभि;रासां चक्रुरथ तत्रामितौजाः ॥१॥
वृष्णिप्रवीरस्तु कुरुप्रवीरा;नाशङ्कमानः सहरौहिणेयःजगाम तां भार्गवकर्मशालां; यत्रासते ते पुरुषप्रवीराः ॥२॥
तत्रोपविष्टं पृथुदीर्घबाहुं; ददर्श कृष्णः सहरौहिणेयःअजातशत्रुं परिवार्य तांश्च; उपोपविष्टाञ्ज्वलनप्रकाशान् ॥३॥
ततोऽब्रवीद्वासुदेवोऽभिगम्य; कुन्तीसुतं धर्मभृतां वरिष्ठम्कृष्णोऽहमस्मीति निपीड्य पादौ; युधिष्ठिरस्याजमीढस्य राज्ञः ॥४॥
तथैव तस्याप्यनु रौहिणेय;स्तौ चापि हृष्टाः कुरवोऽभ्यनन्दन्पितृष्वसुश्चापि यदुप्रवीरा;वगृह्णतां भारतमुख्य पादौ ॥५॥
अजातशत्रुश्च कुरुप्रवीरः; पप्रच्छ कृष्णं कुशलं निवेद्यकथं वयं वासुदेव त्वयेह; गूढा वसन्तो विदिताः स्म सर्वे ॥६॥
तमब्रवीद्वासुदेवः प्रहस्य; गूढोऽप्यग्निर्ज्ञायत एव राजन्तं विक्रमं पाण्डवेयानतीत्य; कोऽन्यः कर्ता विद्यते मानुषेषु ॥७॥
दिष्ट्या तस्मात्पावकात्संप्रमुक्ता; यूयं सर्वे पाण्डवाः शत्रुसाहाःदिष्ट्या पापो धृतराष्ट्रस्य पुत्रः; सहामात्यो न सकामोऽभविष्यत् ॥८॥
भद्रं वोऽस्तु निहितं यद्गुहायां; विवर्धध्वं ज्वलन इवेध्यमानःमा वो विद्युः पार्थिवाः केचनेह; यास्यावहे शिबिरायैव तावत्सोऽनुज्ञातः पाण्डवेनाव्ययश्रीः; प्रायाच्छीघ्रं बलदेवेन सार्धम् ॥९॥
अध्याय समाप्त ॥
१

0
अध्याय 183पृष्ठ 1–1 / 1
पृष्ठ पलटने के लिए कोना खींचें, स्वाइप करें या तीर कुंजियाँ दबाएँ
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0