महाभारत, पुस्तक रूप में
॥ ॐ ॥यदि आपको इस मंच का अनुभव अच्छा लगा हो…॥ दान ॥तो कृपया दान करेंइससे ये ग्रंथ सबके लिए खुले और निःशुल्क रहते हैं।दान करेंमहाभारत · आदि पर्व
॥ श्रीः ॥
अध्याय 19
महाभारत · आदि पर्व
सूत उवाच
ततो रजन्यां व्युष्टायां प्रभात उदिते रवौकद्रूश्च विनता चैव भगिन्यौ ते तपोधन ॥१॥
अमर्षिते सुसंरब्धे दास्ये कृतपणे तदाजग्मतुस्तुरगं द्रष्टुमुच्चैःश्रवसमन्तिकात् ॥२॥
ददृशाते तदा तत्र समुद्रं निधिमम्भसाम्तिमिंगिलझषाकीर्णं मकरैरावृतं तथा ॥३॥
सत्त्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम्उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम् ॥४॥
आकरं सर्वरत्नानामालयं वरुणस्य चनागानामालयं रम्यमुत्तमं सरितां पतिम् ॥५॥
पातालज्वलनावासमसुराणां च बन्धनम्भयंकरं च सत्त्वानां पयसां निधिमर्णवम् ॥६॥
शुभं दिव्यममर्त्यानाममृतस्याकरं परम्अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम् ॥७॥
घोरं जलचरारावरौद्रं भैरवनिस्वनम्गम्भीरावर्तकलिलं सर्वभूतभयंकरम् ॥८॥
वेलादोलानिलचलं क्षोभोद्वेगसमुत्थितम्वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वशः ॥९॥
चन्द्रवृद्धिक्षयवशादुद्वृत्तोर्मिदुरासदम्पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम् ॥१०॥
गां विन्दता भगवता गोविन्देनामितौजसावराहरूपिणा चान्तर्विक्षोभितजलाविलम् ॥११॥
ब्रह्मर्षिणा च तपता वर्षाणां शतमत्रिणाअनासादितगाधं च पातालतलमव्ययम् ॥१२॥
अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतःयुगादिकालशयनं विष्णोरमिततेजसः ॥१३॥
वडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शुभम्अगाधपारं विस्तीर्णमप्रमेयं सरित्पतिम् ॥१४॥
महानदीभिर्बह्वीभिः स्पर्धयेव सहस्रशःअभिसार्यमाणमनिशं ददृशाते महार्णवम् ॥१५॥
गम्भीरं तिमिमकरोग्रसंकुलं तं; गर्जन्तं जलचररावरौद्रनादैःविस्तीर्णं ददृशतुरम्बरप्रकाशं; तेऽगाधं निधिमुरुमम्भसामनन्तम् ॥१६॥
इत्येवं झषमकरोर्मिसंकुलं तं; गम्भीरं विकसितमम्बरप्रकाशम्पातालज्वलनशिखाविदीपितं तं; पश्यन्त्यौ द्रुतमभिपेततुस्तदानीम् ॥१७॥
अध्याय समाप्त ॥
१

0
पृष्ठ पलटने के लिए कोना खींचें, स्वाइप करें या तीर कुंजियाँ दबाएँ
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0