Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 2
Mahabharata · Adi Parva
ऋषय ऊचुःसमन्तपञ्चकमिति यदुक्तं सूतनन्दनएतत्सर्वं यथान्यायं श्रोतुमिच्छामहे वयम् ॥१॥
सूत उवाच
शुश्रूषा यदि वो विप्रा ब्रुवतश्च कथाः शुभाःसमन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः ॥२॥
त्रेताद्वापरयोः संधौ रामः शस्त्रभृतां वरःअसकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः ॥३॥
स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिःसमन्तपञ्चके पञ्च चकार रुधिरह्रदान् ॥४॥
स तेषु रुधिराम्भस्सु ह्रदेषु क्रोधमूर्च्छितःपितॄन्संतर्पयामास रुधिरेणेति नः श्रुतम् ॥५॥
अथर्चीकादयोऽभ्येत्य पितरो ब्राह्मणर्षभम्तं क्षमस्वेति सिषिधुस्ततः स विरराम ह ॥६॥
तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम्समन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम् ॥७॥
येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यतेतेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः ॥८॥
अन्तरे चैव संप्राप्ते कलिद्वापरयोरभूत्समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः ॥९॥
तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जितेअष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया ॥१०॥
एवं नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाःपुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः ॥११॥
तदेतत्कथितं सर्वं मया वो मुनिसत्तमाःयथा देशः स विख्यातस्त्रिषु लोकेषु विश्रुतः ॥१२॥
ऋषय ऊचुःअक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दनएतदिच्छामहे श्रोतुं सर्वमेव यथातथम् ॥१३॥
अक्षौहिण्याः परीमाणं रथाश्वनरदन्तिनाम्यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव ॥१४॥
सूत उवाच
एको रथो गजश्चैको नराः पञ्च पदातयःत्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते ॥१५॥
पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाःत्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते ॥१६॥
त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयःस्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः ॥१७॥
चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकिनीअनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः ॥१८॥
अक्षौहिण्याः प्रसंख्यानं रथानां द्विजसत्तमाःसंख्यागणिततत्त्वज्ञैः सहस्राण्येकविंशतिः ॥१९॥
शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिःगजानां तु परीमाणमेतदेवात्र निर्दिशेत् ॥२०॥
ज्ञेयं शतसहस्रं तु सहस्राणि तथा नवनराणामपि पञ्चाशच्छतानि त्रीणि चानघाः ॥२१॥
पञ्चषष्टिसहस्राणि तथाश्वानां शतानि चदशोत्तराणि षट्प्राहुर्यथावदिह संख्यया ॥२२॥
एतामक्षौहिणीं प्राहुः संख्यातत्त्वविदो जनाःयां वः कथितवानस्मि विस्तरेण द्विजोत्तमाः ॥२३॥
एतया संख्यया ह्यासन्कुरुपाण्डवसेनयोःअक्षौहिण्यो द्विजश्रेष्ठाः पिण्डेनाष्टादशैव ताः ॥२४॥
समेतास्तत्र वै देशे तत्रैव निधनं गताःकौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा ॥२५॥
अहानि युयुधे भीष्मो दशैव परमास्त्रवित्अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम् ॥२६॥
अहनी युयुधे द्वे तु कर्णः परबलार्दनःशल्योऽर्धदिवसं त्वासीद्गदायुद्धमतः परम् ॥२७॥
तस्यैव तु दिनस्यान्ते हार्दिक्यद्रौणिगौतमाःप्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम् ॥२८॥
यत्तु शौनकसत्रे ते भारताख्यानविस्तरम्आख्यास्ये तत्र पौलोममाख्यानं चादितः परम् ॥२९॥
विचित्रार्थपदाख्यानमनेकसमयान्वितम्अभिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः ॥३०॥
आत्मेव वेदितव्येषु प्रियेष्विव च जीवितम्इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम् ॥३१॥
इतिहासोत्तमे ह्यस्मिन्नर्पिता बुद्धिरुत्तमास्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक् ॥३२॥
अस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणःभारतस्येतिहासस्य श्रूयतां पर्वसंग्रहः ॥३३॥
पर्वानुक्रमणी पूर्वं द्वितीयं पर्वसंग्रहःपौष्यं पौलोममास्तीकमादिवंशावतारणम् ॥३४॥
ततः संभवपर्वोक्तमद्भुतं देवनिर्मितम्दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते ॥३५॥
ततो बकवधः पर्व पर्व चैत्ररथं ततःततः स्वयंवरं देव्याः पाञ्चाल्याः पर्व चोच्यते ॥३६॥
क्षत्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम्विदुरागमनं पर्व राज्यलम्भस्तथैव च ॥३७॥
अर्जुनस्य वने वासः सुभद्राहरणं ततःसुभद्राहरणादूर्ध्वं ज्ञेयं हरणहारिकम् ॥३८॥
ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम्सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम् ॥३९॥
जरासंधवधः पर्व पर्व दिग्विजयस्तथापर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते ॥४०॥
ततश्चार्घाभिहरणं शिशुपालवधस्ततःद्यूतपर्व ततः प्रोक्तमनुद्यूतमतः परम् ॥४१॥
तत आरण्यकं पर्व किर्मीरवध एव चईश्वरार्जुनयोर्युद्धं पर्व कैरातसंज्ञितम् ॥४२॥
इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम्तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः ॥४३॥
जटासुरवधः पर्व यक्षयुद्धमतः परम्तथैवाजगरं पर्व विज्ञेयं तदनन्तरम् ॥४४॥
मार्कण्डेयसमस्या च पर्वोक्तं तदनन्तरम्संवादश्च ततः पर्व द्रौपदीसत्यभामयोः ॥४५॥
घोषयात्रा ततः पर्व मृगस्वप्नभयं ततःव्रीहिद्रौणिकमाख्यानं ततोऽनन्तरमुच्यते ॥४६॥
द्रौपदीहरणं पर्व सैन्धवेन वनात्ततःकुण्डलाहरणं पर्व ततः परमिहोच्यते ॥४७॥
आरणेयं ततः पर्व वैराटं तदनन्तरम्कीचकानां वधः पर्व पर्व गोग्रहणं ततः ॥४८॥
अभिमन्युना च वैराट्याः पर्व वैवाहिकं स्मृतम्उद्योगपर्व विज्ञेयमत ऊर्ध्वं महाद्भुतम् ॥४९॥
ततः संजययानाख्यं पर्व ज्ञेयमतः परम्प्रजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया ॥५०॥
पर्व सानत्सुजातं च गुह्यमध्यात्मदर्शनम्यानसंधिस्ततः पर्व भगवद्यानमेव च ॥५१॥
ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनःनिर्याणं पर्व च ततः कुरुपाण्डवसेनयोः ॥५२॥
रथातिरथसंख्या च पर्वोक्तं तदनन्तरम्उलूकदूतागमनं पर्वामर्षविवर्धनम् ॥५३॥
अम्बोपाख्यानमपि च पर्व ज्ञेयमतः परम्भीष्माभिषेचनं पर्व ज्ञेयमद्भुतकारणम् ॥५४॥
जम्बूखण्डविनिर्माणं पर्वोक्तं तदनन्तरम्भूमिपर्व ततो ज्ञेयं द्वीपविस्तरकीर्तनम् ॥५५॥
पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततःद्रोणाभिषेकः पर्वोक्तं संशप्तकवधस्ततः ॥५६॥
अभिमन्युवधः पर्व प्रतिज्ञापर्व चोच्यतेजयद्रथवधः पर्व घटोत्कचवधस्ततः ॥५७॥
ततो द्रोणवधः पर्व विज्ञेयं लोमहर्षणम्मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते ॥५८॥
कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम्ह्रदप्रवेशनं पर्व गदायुद्धमतः परम् ॥५९॥
सारस्वतं ततः पर्व तीर्थवंशगुणान्वितम्अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकमुच्यते ॥६०॥
ऐषीकं पर्व निर्दिष्टमत ऊर्ध्वं सुदारुणम्जलप्रदानिकं पर्व स्त्रीपर्व च ततः परम् ॥६१॥
श्राद्धपर्व ततो ज्ञेयं कुरूणामौर्ध्वदेहिकम्आभिषेचनिकं पर्व धर्मराजस्य धीमतः ॥६२॥
चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणःप्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम् ॥६३॥
शान्तिपर्व ततो यत्र राजधर्मानुकीर्तनम्आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम् ॥६४॥
ततः पर्व परिज्ञेयमानुशासनिकं परम्स्वर्गारोहणिकं पर्व ततो भीष्मस्य धीमतः ॥६५॥
ततोऽश्वमेधिकं पर्व सर्वपापप्रणाशनम्अनुगीता ततः पर्व ज्ञेयमध्यात्मवाचकम् ॥६६॥
पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव चनारदागमनं पर्व ततः परमिहोच्यते ॥६७॥
मौसलं पर्व च ततो घोरं समनुवर्ण्यतेमहाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः ॥६८॥
हरिवंशस्ततः पर्व पुराणं खिलसंज्ञितम्भविष्यत्पर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत् ॥६९॥
एतत्पर्वशतं पूर्णं व्यासेनोक्तं महात्मनायथावत्सूतपुत्रेण लोमहर्षणिना पुनः ॥७०॥
कथितं नैमिषारण्ये पर्वाण्यष्टादशैव तुसमासो भारतस्यायं तत्रोक्तः पर्वसंग्रहः ॥७१॥
पौष्ये पर्वणि माहात्म्यमुत्तङ्कस्योपवर्णितम्पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः ॥७२॥
आस्तीके सर्वनागानां गरुडस्य च संभवःक्षीरोदमथनं चैव जन्मोच्छैःश्रवसस्तथा ॥७३॥
यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य चकथेयमभिनिर्वृत्ता भारतानां महात्मनाम् ॥७४॥
विविधाः संभवा राज्ञामुक्ताः संभवपर्वणिअन्येषां चैव विप्राणामृषेर्द्वैपायनस्य च ॥७५॥
अंशावतरणं चात्र देवानां परिकीर्तितम्दैत्यानां दानवानां च यक्षाणां च महौजसाम् ॥७६॥
नागानामथ सर्पाणां गन्धर्वाणां पतत्रिणाम्अन्येषां चैव भूतानां विविधानां समुद्भवः ॥७७॥
वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम्शंतनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि ॥७८॥
तेजोंशानां च संघाताद्भीष्मस्याप्यत्र संभवःराज्यान्निवर्तनं चैव ब्रह्मचर्यव्रते स्थितिः ॥७९॥
प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य चहते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः ॥८०॥
विचित्रवीर्यस्य तथा राज्ये संप्रतिपादनम्धर्मस्य नृषु संभूतिरणीमाण्डव्यशापजा ॥८१॥
कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजाधृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च संभवः ॥८२॥
वारणावतयात्रा च मन्त्रो दुर्योधनस्य चविदुरस्य च वाक्येन सुरुङ्गोपक्रमक्रिया ॥८३॥
पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम्घटोत्कचस्य चोत्पत्तिरत्रैव परिकीर्तिता ॥८४॥
अज्ञातचर्या पाण्डूनां वासो ब्राह्मणवेश्मनिबकस्य निधनं चैव नागराणां च विस्मयः ॥८५॥
अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदाभ्रातृभिः सहितः सर्वैः पाञ्चालानभितो ययौ ॥८६॥
तापत्यमथ वासिष्ठमौर्वं चाख्यानमुत्तमम्पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते ॥८७॥
पञ्चानामेकपत्नीत्वे विमर्शो द्रुपदस्य चद्रौपद्या देवविहितो विवाहश्चाप्यमानुषः ॥८८॥
विदुरस्य च संप्राप्तिर्दर्शनं केशवस्य चखाण्डवप्रस्थवासश्च तथा राज्यार्धशासनम् ॥८९॥
नारदस्याज्ञया चैव द्रौपद्याः समयक्रियासुन्दोपसुन्दयोस्तत्र उपाख्यानं प्रकीर्तितम् ॥९०॥
पार्थस्य वनवासश्च उलूप्या पथि संगमःपुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च ॥९१॥
द्वारकायां सुभद्रा च कामयानेन कामिनीवासुदेवस्यानुमते प्राप्ता चैव किरीटिना ॥९२॥
हरणं गृह्य संप्राप्ते कृष्णे देवकिनन्दनेसंप्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम् ॥९३॥
अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसःमयस्य मोक्षो ज्वलनाद्भुजंगस्य च मोक्षणम्महर्षेर्मन्दपालस्य शार्ङ्ग्यं तनयसंभवः ॥९४॥
इत्येतदादिपर्वोक्तं प्रथमं बहुविस्तरम्अध्यायानां शते द्वे तु संख्याते परमर्षिणाअष्टादशैव चाध्याया व्यासेनोत्तमतेजसा ॥९५॥
सप्त श्लोकसहस्राणि तथा नव शतानि चश्लोकाश्च चतुराशीतिर्दृष्टो ग्रन्थो महात्मना ॥९६॥
द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यतेसभाक्रिया पाण्डवानां किंकराणां च दर्शनम् ॥९७॥
लोकपालसभाख्यानं नारदाद्देवदर्शनात्राजसूयस्य चारम्भो जरासंधवधस्तथा ॥९८॥
गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम्राजसूयेऽर्घसंवादे शिशुपालवधस्तथा ॥९९॥
यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य चदुर्योधनस्यावहासो भीमेन च सभातले ॥१००॥
यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत्यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत् ॥१०१॥
यत्र द्यूतार्णवे मग्नान्द्रौपदी नौरिवार्णवात्तारयामास तांस्तीर्णाञ्ज्ञात्वा दुर्योधनो नृपःपुनरेव ततो द्यूते समाह्वयत पाण्डवान् ॥१०२॥
एतत्सर्वं सभापर्व समाख्यातं महात्मनाअध्यायाः सप्ततिर्ज्ञेयास्तथा द्वौ चात्र संख्यया ॥१०३॥
श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि चश्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्प्रकीर्तिताः ॥१०४॥
अतः परं तृतीयं तु ज्ञेयमारण्यकं महत्पौरानुगमनं चैव धर्मपुत्रस्य धीमतः ॥१०५॥
वृष्णीनामागमो यत्र पाञ्चालानां च सर्वशःयत्र सौभवधाख्यानं किर्मीरवध एव चअस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः ॥१०६॥
महादेवेन युद्धं च किरातवपुषा सहदर्शनं लोकपालानां स्वर्गारोहणमेव च ॥१०७॥
दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनःयुधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम् ॥१०८॥
नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम्दमयन्त्याः स्थितिर्यत्र नलस्य व्यसनागमे ॥१०९॥
वनवासगतानां च पाण्डवानां महात्मनाम्स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै ॥११०॥
तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम्जटासुरस्य तत्रैव वधः समुपवर्ण्यते ॥१११॥
नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादनेयत्र मन्दारपुष्पार्थं नलिनीं तामधर्षयत् ॥११२॥
यत्रास्य सुमहद्युद्धमभवत्सह राक्षसैःयक्षैश्चापि महावीर्यैर्मणिमत्प्रमुखैस्तथा ॥११३॥
आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम्लोपामुद्राभिगमनमपत्यार्थमृषेरपि ॥११४॥
ततः श्येनकपोतीयमुपाख्यानमनन्तरम्इन्द्रोऽग्निर्यत्र धर्मश्च अजिज्ञासञ्शिबिं नृपम् ॥११५॥
ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणःजामदग्न्यस्य रामस्य चरितं भूरितेजसः ॥११६॥
कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यतेसौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः ॥११७॥
शर्यातियज्ञे नासत्यौ कृतवान्सोमपीथिनौताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः ॥११८॥
जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकःपुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः ॥११९॥
अष्टावक्रीयमत्रैव विवादे यत्र बन्दिनम्विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः ॥१२०॥
अवाप्य दिव्यान्यस्त्राणि गुर्वर्थे सव्यसाचिनानिवातकवचैर्युद्धं हिरण्यपुरवासिभिः ॥१२१॥
समागमश्च पार्थस्य भ्रातृभिर्गन्धमादनेघोषयात्रा च गन्धर्वैर्यत्र युद्धं किरीटिनः ॥१२२॥
पुनरागमनं चैव तेषां द्वैतवनं सरःजयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात् ॥१२३॥
यत्रैनमन्वयाद्भीमो वायुवेगसमो जवेमार्कण्डेयसमस्यायामुपाख्यानानि भागशः ॥१२४॥
संदर्शनं च कृष्णस्य संवादश्चैव सत्ययाव्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च ॥१२५॥
सावित्र्यौद्दालकीयं च वैन्योपाख्यानमेव चरामायणमुपाख्यानमत्रैव बहुविस्तरम् ॥१२६॥
कर्णस्य परिमोषोऽत्र कुण्डलाभ्यां पुरंदरात्आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम्जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम् ॥१२७॥
एतदारण्यकं पर्व तृतीयं परिकीर्तितम्अत्राध्यायशते द्वे तु संख्याते परमर्षिणाएकोनसप्ततिश्चैव तथाध्यायाः प्रकीर्तिताः ॥१२८॥
एकादश सहस्राणि श्लोकानां षट्शतानि चचतुःषष्टिस्तथा श्लोकाः पर्वैतत्परिकीर्तितम् ॥१२९॥
अतः परं निबोधेदं वैराटं पर्वविस्तरम्विराटनगरं गत्वा श्मशाने विपुलां शमीम्दृष्ट्वा संनिदधुस्तत्र पाण्डवा आयुधान्युत ॥१३०॥
यत्र प्रविश्य नगरं छद्मभिर्न्यवसन्त तेदुरात्मनो वधो यत्र कीचकस्य वृकोदरात् ॥१३१॥
गोग्रहे यत्र पार्थेन निर्जिताः कुरवो युधिगोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः ॥१३२॥
विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनःअभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम् ॥१३३॥
चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम्अत्रापि परिसंख्यातमध्यायानां महात्मना ॥१३४॥
सप्तषष्टिरथो पूर्णा श्लोकाग्रमपि मे शृणुश्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तुपर्वण्यस्मिन्समाख्याताः संख्यया परमर्षिणा ॥१३५॥
उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम्उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषयादुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ ॥१३६॥
साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हतिइत्युक्ते वचने कृष्णो यत्रोवाच महामतिः ॥१३७॥
अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौअक्षौहिणीं वा सैन्यस्य कस्य वा किं ददाम्यहम् ॥१३८॥
वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिःअयुध्यमानं सचिवं वव्रे कृष्णं धनंजयः ॥१३९॥
संजयं प्रेषयामास शमार्थं पाण्डवान्प्रतियत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान् ॥१४०॥
श्रुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान्प्रजागरः संप्रजज्ञे धृतराष्ट्रस्य चिन्तया ॥१४१॥
विदुरो यत्र वाक्यानि विचित्राणि हितानि चश्रावयामास राजानं धृतराष्ट्रं मनीषिणम् ॥१४२॥
तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम्मनस्तापान्वितो राजा श्रावितः शोकलालसः ॥१४३॥
प्रभाते राजसमितौ संजयो यत्र चाभिभोःऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च ॥१४४॥
यत्र कृष्णो दयापन्नः संधिमिच्छन्महायशाःस्वयमागाच्छमं कर्तुं नगरं नागसाह्वयम् ॥१४५॥
प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वैशमार्थं याचमानस्य पक्षयोरुभयोर्हितम् ॥१४६॥
कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम्योगेश्वरत्वं कृष्णेन यत्र राजसु दर्शितम् ॥१४७॥
रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितःउपायपूर्वं शौण्डीर्यात्प्रत्याख्यातश्च तेन सः ॥१४८॥
ततश्चाप्यभिनिर्यात्रा रथाश्वनरदन्तिनाम्नगराद्धास्तिनपुराद्बलसंख्यानमेव च ॥१४९॥
यत्र राज्ञा उलूकस्य प्रेषणं पाण्डवान्प्रतिश्वोभाविनि महायुद्धे दूत्येन क्रूरवादिनारथातिरथसंख्यानमम्बोपाख्यानमेव च ॥१५०॥
एतत्सुबहुवृत्तान्तं पञ्चमं पर्व भारतेउद्योगपर्व निर्दिष्टं संधिविग्रहसंश्रितम् ॥१५१॥
अध्यायाः संख्यया त्वत्र षडशीतिशतं स्मृतम्श्लोकानां षट्सहस्राणि तावन्त्येव शतानि च ॥१५२॥
श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मनाव्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः ॥१५३॥
अत ऊर्ध्वं विचित्रार्थं भीष्मपर्व प्रचक्षतेजम्बूखण्डविनिर्माणं यत्रोक्तं संजयेन ह ॥१५४॥
यत्र युद्धमभूद्घोरं दशाहान्यतिदारुणम्यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम् ॥१५५॥
कश्मलं यत्र पार्थस्य वासुदेवो महामतिःमोहजं नाशयामास हेतुभिर्मोक्षदर्शनैः ॥१५६॥
शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुःविनिघ्नन्निशितैर्बाणै रथाद्भीष्ममपातयत् ॥१५७॥
षष्ठमेतन्महापर्व भारते परिकीर्तितम्अध्यायानां शतं प्रोक्तं सप्तदश तथापरे ॥१५८॥
पञ्च श्लोकसहस्राणि संख्ययाष्टौ शतानि चश्लोकाश्च चतुराशीतिः पर्वण्यस्मिन्प्रकीर्तिताःव्यासेन वेदविदुषा संख्याता भीष्मपर्वणि ॥१५९॥
द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यतेयत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात् ॥१६०॥
भगदत्तो महाराजो यत्र शक्रसमो युधिसुप्रतीकेन नागेन सह शस्तः किरीटिना ॥१६१॥
यत्राभिमन्युं बहवो जघ्नुर्लोकमहारथाःजयद्रथमुखा बालं शूरमप्राप्तयौवनम् ॥१६२॥
हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगेअक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथःसंशप्तकावशेषं च कृतं निःशेषमाहवे ॥१६३॥
अलम्बुसः श्रुतायुश्च जलसंधश्च वीर्यवान्सौमदत्तिर्विराटश्च द्रुपदश्च महारथःघटोत्कचादयश्चान्ये निहता द्रोणपर्वणि ॥१६४॥
अश्वत्थामापि चात्रैव द्रोणे युधि निपातितेअस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः ॥१६५॥
सप्तमं भारते पर्व महदेतदुदाहृतम्अत्र ते पृथिवीपालाः प्रायशो निधनं गताःद्रोणपर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः ॥१६६॥
अध्यायानां शतं प्रोक्तमध्यायाः सप्ततिस्तथाअष्टौ श्लोकसहस्राणि तथा नव शतानि च ॥१६७॥
श्लोका नव तथैवात्र संख्यातास्तत्त्वदर्शिनापाराशर्येण मुनिना संचिन्त्य द्रोणपर्वणि ॥१६८॥
अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम्सारथ्ये विनियोगश्च मद्रराजस्य धीमतःआख्यातं यत्र पौराणं त्रिपुरस्य निपातनम् ॥१६९॥
प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोःहंसकाकीयमाख्यानमत्रैवाक्षेपसंहितम् ॥१७०॥
अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोःद्वैरथे यत्र पार्थेन हतः कर्णो महारथः ॥१७१॥
अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैःएकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणिचत्वार्येव सहस्राणि नव श्लोकशतानि च ॥१७२॥
अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम्हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत् ॥१७३॥
वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशःविनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते ॥१७४॥
शल्यस्य निधनं चात्र धर्मराजान्महारथात्गदायुद्धं तु तुमुलमत्रैव परिकीर्तितम्सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता ॥१७५॥
नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत्एकोनषष्टिरध्यायास्तत्र संख्याविशारदैः ॥१७६॥
संख्याता बहुवृत्तान्ताः श्लोकाग्रं चात्र शस्यतेत्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथामुनिना संप्रणीतानि कौरवाणां यशोभृताम् ॥१७७॥
अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम्भग्नोरुं यत्र राजानं दुर्योधनममर्षणम् ॥१७८॥
व्यपयातेषु पार्थेषु त्रयस्तेऽभ्याययू रथाःकृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षिताः ॥१७९॥
प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथःअहत्वा सर्वपाञ्चालान्धृष्टद्युम्नपुरोगमान्पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनम् ॥१८०॥
प्रसुप्तान्निशि विश्वस्तान्यत्र ते पुरुषर्षभाःपाञ्चालान्सपरीवाराञ्जघ्नुर्द्रौणिपुरोगमाः ॥१८१॥
यत्रामुच्यन्त पार्थास्ते पञ्च कृष्णबलाश्रयात्सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः ॥१८२॥
द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिताकृतानशनसंकल्पा यत्र भर्तॄनुपाविशत् ॥१८३॥
द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमःअन्वधावत संक्रुद्धो भारद्वाजं गुरोः सुतम् ॥१८४॥
भीमसेनभयाद्यत्र दैवेनाभिप्रचोदितःअपाण्डवायेति रुषा द्रौणिरस्त्रमवासृजत् ॥१८५॥
मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचःयत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः ॥१८६॥
द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताःतोयकर्मणि सर्वेषां राज्ञामुदकदानिके ॥१८७॥
गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनःसुतस्यैतदिह प्रोक्तं दशमं पर्व सौप्तिकम् ॥१८८॥
अष्टादशास्मिन्नध्यायाः पर्वण्युक्ता महात्मनाश्लोकाग्रमत्र कथितं शतान्यष्टौ तथैव च ॥१८९॥
श्लोकाश्च सप्ततिः प्रोक्ता यथावदभिसंख्ययासौप्तिकैषीकसंबन्धे पर्वण्यमितबुद्धिना ॥१९०॥
अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम्विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतःक्रोधावेशः प्रसादश्च गान्धारीधृतराष्ट्रयोः ॥१९१॥
यत्र तान्क्षत्रियाञ्शूरान्दिष्टान्ताननिवर्तिनःपुत्रान्भ्रातॄन्पितॄंश्चैव ददृशुर्निहतान्रणे ॥१९२॥
यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरःराज्ञां तानि शरीराणि दाहयामास शास्त्रतः ॥१९३॥
एतदेकादशं प्रोक्तं पर्वातिकरुणं महत्सप्तविंशतिरध्यायाः पर्वण्यस्मिन्नुदाहृताः ॥१९४॥
श्लोकाः सप्तशतं चात्र पञ्चसप्ततिरुच्यतेसंख्यया भारताख्यानं कर्त्रा ह्यत्र महात्मनाप्रणीतं सज्जनमनोवैक्लव्याश्रुप्रवर्तकम् ॥१९५॥
अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम्यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरःघातयित्वा पितॄन्भ्रातॄन्पुत्रान्संबन्धिबान्धवान् ॥१९६॥
शान्तिपर्वणि धर्माश्च व्याख्याताः शरतल्पिकाःराजभिर्वेदितव्या ये सम्यङ्नयबुभुत्सुभिः ॥१९७॥
आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शकाःयान्बुद्ध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात्मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः ॥१९८॥
द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम्पर्वण्यत्र परिज्ञेयमध्यायानां शतत्रयम्त्रिंशच्चैव तथाध्याया नव चैव तपोधनाः ॥१९९॥
श्लोकानां तु सहस्राणि कीर्तितानि चतुर्दशपञ्च चैव शतान्याहुः पञ्चविंशतिसंख्यया ॥२००॥
अत ऊर्ध्वं तु विज्ञेयमानुशासनमुत्तमम्यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम्भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः ॥२०१॥
व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थीयो निदर्शितःविविधानां च दानानां फलयोगाः पृथग्विधाः ॥२०२॥
तथा पात्रविशेषाश्च दानानां च परो विधिःआचारविधियोगश्च सत्यस्य च परा गतिः ॥२०३॥
एतत्सुबहुवृत्तान्तमुत्तमं चानुशासनम्भीष्मस्यात्रैव संप्राप्तिः स्वर्गस्य परिकीर्तिता ॥२०४॥
एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम्अध्यायानां शतं चात्र षट्चत्वारिंशदेव चश्लोकानां तु सहस्राणि षट्सप्तैव शतानि च ॥२०५॥
ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम्तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम् ॥२०६॥
सुवर्णकोशसंप्राप्तिर्जन्म चोक्तं परिक्षितःदग्धस्यास्त्राग्निना पूर्वं कृष्णात्संजीवनं पुनः ॥२०७॥
चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतःतत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः ॥२०८॥
चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनंजयःसंग्रामे बभ्रुवाहेन संशयं चात्र दर्शितःअश्वमेधे महायज्ञे नकुलाख्यानमेव च ॥२०९॥
इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम्अत्राध्यायशतं त्रिंशत्त्रयोऽध्यायाश्च शब्दिताः ॥२१०॥
त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि चविंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना ॥२११॥
तत आश्रमवासाक्यं पर्व पञ्चदशं स्मृतम्यत्र राज्यं परित्यज्य गान्धारीसहितो नृपःधृतराष्ट्राश्रमपदं विदुरश्च जगाम ह ॥२१२॥
यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदापुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता ॥२१३॥
यत्र राजा हतान्पुत्रान्पौत्रानन्यांश्च पार्थिवान्लोकान्तरगतान्वीरानपश्यत्पुनरागतान् ॥२१४॥
ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम्त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः ॥२१५॥
यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतःसंजयश्च महामात्रो विद्वान्गावल्गणिर्वशी ॥२१६॥
ददर्श नारदं यत्र धर्मराजो युधिष्ठिरःनारदाच्चैव शुश्राव वृष्णीनां कदनं महत् ॥२१७॥
एतदाश्रमवासाख्यं पूर्वोक्तं सुमहाद्भुतम्द्विचत्वारिंशदध्यायाः पर्वैतदभिसंख्यया ॥२१८॥
सहस्रमेकं श्लोकानां पञ्च श्लोकशतानि चषडेव च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना ॥२१९॥
अतः परं निबोधेदं मौसलं पर्व दारुणम्यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शसहा युधिब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः ॥२२०॥
आपाने पानगलिता दैवेनाभिप्रचोदिताःएरकारूपिभिर्वज्रैर्निजघ्नुरितरेतरम् ॥२२१॥
यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौनातिचक्रमतुः कालं प्राप्तं सर्वहरं समम् ॥२२२॥
यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम्दृष्ट्वा विषादमगमत्परां चार्तिं नरर्षभः ॥२२३॥
स सत्कृत्य यदुश्रेष्ठं मातुलं शौरिमात्मनःददर्श यदुवीराणामापाने वैशसं महत् ॥२२४॥
शरीरं वासुदेवस्य रामस्य च महात्मनःसंस्कारं लम्भयामास वृष्णीनां च प्रधानतः ॥२२५॥
स वृद्धबालमादाय द्वारवत्यास्ततो जनम्ददर्शापदि कष्टायां गाण्डीवस्य पराभवम् ॥२२६॥
सर्वेषां चैव दिव्यानामस्त्राणामप्रसन्नताम्नाशं वृष्णिकलत्राणां प्रभावानामनित्यताम् ॥२२७॥
दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यप्रचोदितःधर्मराजं समासाद्य संन्यासं समरोचयेत् ॥२२८॥
इत्येतन्मौसलं पर्व षोडशं परिकीर्तितम्अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम् ॥२२९॥
महाप्रस्थानिकं तस्मादूर्ध्वं सप्तदशं स्मृतम्यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाःद्रौपद्या सहिता देव्या सिद्धिं परमिकां गताः ॥२३०॥
अत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतं तथाविंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना ॥२३१॥
स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम्अध्यायाः पञ्च संख्याताः पर्वैतदभिसंख्ययाश्लोकानां द्वे शते चैव प्रसंख्याते तपोधनाः ॥२३२॥
अष्टादशैवमेतानि पर्वाण्युक्तान्यशेषतःखिलेषु हरिवंशश्च भविष्यच्च प्रकीर्तितम् ॥२३३॥
एतदखिलमाख्यातं भारतं पर्वसंग्रहात्अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सयातन्महद्दारुणं युद्धमहान्यष्टादशाभवत् ॥२३४॥
यो विद्याच्चतुरो वेदान्साङ्गोपनिषदान्द्विजःन चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः ॥२३५॥
श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचतेपुंस्कोकिलरुतं श्रुत्वा रूक्षा ध्वाङ्क्षस्य वागिव ॥२३६॥
इतिहासोत्तमादस्माज्जायन्ते कविबुद्धयःपञ्चभ्य इव भूतेभ्यो लोकसंविधयस्त्रयः ॥२३७॥
अस्याख्यानस्य विषये पुराणं वर्तते द्विजाःअन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः ॥२३८॥
क्रियागुणानां सर्वेषामिदमाख्यानमाश्रयःइन्द्रियाणां समस्तानां चित्रा इव मनःक्रियाः ॥२३९॥
अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यतेआहारमनपाश्रित्य शरीरस्येव धारणम् ॥२४०॥
इदं सर्वैः कविवरैराख्यानमुपजीव्यतेउदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः ॥२४१॥
द्वैपायनौष्ठपुटनिःसृतमप्रमेयं; पुण्यं पवित्रमथ पापहरं शिवं चयो भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्करजलैरभिषेचनेन ॥२४२॥
आख्यानं तदिदमनुत्तमं महार्थं; विन्यस्तं महदिह पर्वसंग्रहेणश्रुत्वादौ भवति नृणां सुखावगाहं; विस्तीर्णं लवणजलं यथा प्लवेन ॥२४३॥
End of chapter ॥
1

0
Adhyaya 2Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0