Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 211
Mahabharata · Adi Parva
वैशंपायन उवाच
ततः कतिपयाहस्य तस्मिन्रैवतके गिरौवृष्ण्यन्धकानामभवत्सुमहानुत्सवो नृप ॥१॥
तत्र दानं ददुर्वीरा ब्राह्मणानां सहस्रशःभोजवृष्ण्यन्धकाश्चैव महे तस्य गिरेस्तदा ॥२॥
प्रासादै रत्नचित्रैश्च गिरेस्तस्य समन्ततःस देशः शोभितो राजन्दीपवृक्षैश्च सर्वशः ॥३॥
वादित्राणि च तत्र स्म वादकाः समवादयन्ननृतुर्नर्तकाश्चैव जगुर्गानानि गायनाः ॥४॥
अलंकृताः कुमाराश्च वृष्णीनां सुमहौजसःयानैर्हाटकचित्राङ्गैश्चञ्चूर्यन्ते स्म सर्वशः ॥५॥
पौराश्च पादचारेण यानैरुच्चावचैस्तथासदाराः सानुयात्राश्च शतशोऽथ सहस्रशः ॥६॥
ततो हलधरः क्षीबो रेवतीसहितः प्रभुःअनुगम्यमानो गन्धर्वैरचरत्तत्र भारत ॥७॥
तथैव राजा वृष्णीनामुग्रसेनः प्रतापवान्उपगीयमानो गन्धर्वैः स्त्रीसहस्रसहायवान् ॥८॥
रौक्मिणेयश्च साम्बश्च क्षीबौ समरदुर्मदौदिव्यमाल्याम्बरधरौ विजह्रातेऽमराविव ॥९॥
अक्रूरः सारणश्चैव गदो भानुर्विडूरथःनिशठश्चारुदेष्णश्च पृथुर्विपृथुरेव च ॥१०॥
सत्यकः सात्यकिश्चैव भङ्गकारसहाचरौहार्दिक्यः कृतवर्मा च ये चान्ये नानुकीर्तिताः ॥११॥
एते परिवृताः स्त्रीभिर्गन्धर्वैश्च पृथक्पृथक्तमुत्सवं रैवतके शोभयां चक्रिरे तदा ॥१२॥
तदा कोलाहले तस्मिन्वर्तमाने महाशुभेवासुदेवश्च पार्थश्च सहितौ परिजग्मतुः ॥१३॥
तत्र चङ्क्रम्यमाणौ तौ वसुदेवसुतां शुभाम्अलंकृतां सखीमध्ये भद्रां ददृशतुस्तदा ॥१४॥
दृष्ट्वैव तामर्जुनस्य कन्दर्पः समजायततं तथैकाग्रमनसं कृष्णः पार्थमलक्षयत् ॥१५॥
अथाब्रवीत्पुष्कराक्षः प्रहसन्निव भारतवनेचरस्य किमिदं कामेनालोड्यते मनः ॥१६॥
ममैषा भगिनी पार्थ सारणस्य सहोदरायदि ते वर्तते बुद्धिर्वक्ष्यामि पितरं स्वयम् ॥१७॥
अर्जुन उवाच
दुहिता वसुदेवस्य वासुदेवस्य च स्वसारूपेण चैव संपन्ना कमिवैषा न मोहयेत् ॥१८॥
कृतमेव तु कल्याणं सर्वं मम भवेद्ध्रुवम्यदि स्यान्मम वार्ष्णेयी महिषीयं स्वसा तव ॥१९॥
प्राप्तौ तु क उपायः स्यात्तद्ब्रवीहि जनार्दनआस्थास्यामि तथा सर्वं यदि शक्यं नरेण तत् ॥२०॥
वासुदेव उवाच
स्वयंवरः क्षत्रियाणां विवाहः पुरुषर्षभस च संशयितः पार्थ स्वभावस्यानिमित्ततः ॥२१॥
प्रसह्य हरणं चापि क्षत्रियाणां प्रशस्यतेविवाहहेतोः शूराणामिति धर्मविदो विदुः ॥२२॥
स त्वमर्जुन कल्याणीं प्रसह्य भगिनीं ममहर स्वयंवरे ह्यस्याः को वै वेद चिकीर्षितम् ॥२३॥
वैशंपायन उवाच
ततोऽर्जुनश्च कृष्णश्च विनिश्चित्येतिकृत्यताम्शीघ्रगान्पुरुषान्राजन्प्रेषयामासतुस्तदा ॥२४॥
धर्मराजाय तत्सर्वमिन्द्रप्रस्थगताय वैश्रुत्वैव च महाबाहुरनुजज्ञे स पाण्डवः ॥२५॥
End of chapter ॥
1

0
Adhyaya 211Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0