Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 60
Mahabharata · Adi Parva
वैशंपायन उवाच
ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयःएकादश सुताः स्थाणोः ख्याताः परममानसाः ॥१॥
मृगव्याधश्च शर्वश्च निरृतिश्च महायशाःअजैकपादहिर्बुध्न्यः पिनाकी च परंतपः ॥२॥
दहनोऽथेश्वरश्चैव कपाली च महाद्युतिःस्थाणुर्भवश्च भगवान्रुद्रा एकादश स्मृताः ॥३॥
मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुःषडेते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः ॥४॥
त्रयस्त्वङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताःबृहस्पतिरुतथ्यश्च संवर्तश्च धृतव्रताः ॥५॥
अत्रेस्तु बहवः पुत्राः श्रूयन्ते मनुजाधिपसर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः ॥६॥
राक्षसास्तु पुलस्त्यस्य वानराः किंनरास्तथापुलहस्य मृगाः सिंहा व्याघ्राः किंपुरुषास्तथा ॥७॥
क्रतोः क्रतुसमाः पुत्राः पतंगसहचारिणःविश्रुतास्त्रिषु लोकेषु सत्यव्रतपरायणाः ॥८॥
दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिःब्रह्मणः पृथिवीपाल पुत्रः पुत्रवतां वरः ॥९॥
वामादजायताङ्गुष्ठाद्भार्या तस्य महात्मनःतस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः ॥१०॥
ताः सर्वास्त्वनवद्याङ्ग्यः कन्याः कमललोचनाःपुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः ॥११॥
ददौ स दश धर्माय सप्तविंशतिमिन्दवेदिव्येन विधिना राजन्कश्यपाय त्रयोदश ॥१२॥
नामतो धर्मपत्न्यस्ताः कीर्त्यमाना निबोध मेकीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा ॥१३॥
बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दशद्वाराण्येतानि धर्मस्य विहितानि स्वयंभुवा ॥१४॥
सप्तविंशति सोमस्य पत्न्यो लोके परिश्रुताःकालस्य नयने युक्ताः सोमपत्न्यः शुभव्रताःसर्वा नक्षत्रयोगिन्यो लोकयात्राविधौ स्थिताः ॥१५॥
पितामहो मुनिर्देवस्तस्य पुत्रः प्रजापतिःतस्याष्टौ वसवः पुत्रास्तेषां वक्ष्यामि विस्तरम् ॥१६॥
धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलःप्रत्यूषश्च प्रभासश्च वसवोऽष्टाविति स्मृताः ॥१७॥
धूम्रायाश्च धरः पुत्रो ब्रह्मविद्यो ध्रुवस्तथाचन्द्रमास्तु मनस्विन्याः श्वसायाः श्वसनस्तथा ॥१८॥
रतायाश्चाप्यहः पुत्रः शाण्डिल्याश्च हुताशनःप्रत्यूषश्च प्रभासश्च प्रभातायाः सुतौ स्मृतौ ॥१९॥
धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथाध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ॥२०॥
सोमस्य तु सुतो वर्चा वर्चस्वी येन जायतेमनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा ॥२१॥
अह्नः सुतः स्मृतो ज्योतिः श्रमः शान्तस्तथा मुनिःअग्नेः पुत्रः कुमारस्तु श्रीमाञ्शरवणालयः ॥२२॥
तस्य शाखो विशाखश्च नैगमेशश्च पृष्ठजःकृत्तिकाभ्युपपत्तेश्च कार्त्तिकेय इति स्मृतः ॥२३॥
अनिलस्य शिवा भार्या तस्याः पुत्रः पुरोजवःअविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ॥२४॥
प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाथ देवलम्द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ॥२५॥
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणीयोगसिद्धा जगत्सर्वमसक्तं विचरत्युतप्रभासस्य तु भार्या सा वसूनामष्टमस्य ह ॥२६॥
विश्वकर्मा महाभागो जज्ञे शिल्पप्रजापतिःकर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः ॥२७॥
भूषणानां च सर्वेषां कर्ता शिल्पवतां वरःयो दिव्यानि विमानानि देवतानां चकार ह ॥२८॥
मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनःपूजयन्ति च यं नित्यं विश्वकर्माणमव्ययम् ॥२९॥
स्तनं तु दक्षिणं भित्त्वा ब्रह्मणो नरविग्रहःनिःसृतो भगवान्धर्मः सर्वलोकसुखावहः ॥३०॥
त्रयस्तस्य वराः पुत्राः सर्वभूतमनोहराःशमः कामश्च हर्षश्च तेजसा लोकधारिणः ॥३१॥
कामस्य तु रतिर्भार्या शमस्य प्राप्तिरङ्गनानन्दी तु भार्या हर्षस्य यत्र लोकाः प्रतिष्ठिताः ॥३२॥
मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराःजज्ञिरे नृपशार्दूल लोकानां प्रभवस्तु सः ॥३३॥
त्वाष्ट्री तु सवितुर्भार्या वडवारूपधारिणीअसूयत महाभागा सान्तरिक्षेऽश्विनावुभौ ॥३४॥
द्वादशैवादितेः पुत्राः शक्रमुख्या नराधिपतेषामवरजो विष्णुर्यत्र लोकाः प्रतिष्ठिताः ॥३५॥
त्रयस्त्रिंशत इत्येते देवास्तेषामहं तवअन्वयं संप्रवक्ष्यामि पक्षैश्च कुलतो गणान् ॥३६॥
रुद्राणामपरः पक्षः साध्यानां मरुतां तथावसूनां भार्गवं विद्याद्विश्वेदेवांस्तथैव च ॥३७॥
वैनतेयस्तु गरुडो बलवानरुणस्तथाबृहस्पतिश्च भगवानादित्येष्वेव गण्यते ॥३८॥
अश्विभ्यां गुह्यकान्विद्धि सर्वौषध्यस्तथा पशून्एष देवगणो राजन्कीर्तितस्तेऽनुपूर्वशःयं कीर्तयित्वा मनुजः सर्वपापैः प्रमुच्यते ॥३९॥
ब्रह्मणो हृदयं भित्त्वा निःसृतो भगवान्भृगुःभृगोः पुत्रः कविर्विद्वाञ्शुक्रः कविसुतो ग्रहः ॥४०॥
त्रैलोक्यप्राणयात्रार्थे वर्षावर्षे भयाभयेस्वयंभुवा नियुक्तः सन्भुवनं परिधावति ॥४१॥
योगाचार्यो महाबुद्धिर्दैत्यानामभवद्गुरुःसुराणां चापि मेधावी ब्रह्मचारी यतव्रतः ॥४२॥
तस्मिन्नियुक्ते विभुना योगक्षेमाय भार्गवेअन्यमुत्पादयामास पुत्रं भृगुरनिन्दितम् ॥४३॥
च्यवनं दीप्ततपसं धर्मात्मानं मनीषिणम्यः स रोषाच्च्युतो गर्भान्मातुर्मोक्षाय भारत ॥४४॥
आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणःऔर्वस्तस्यां समभवदूरुं भित्त्वा महायशाःमहातपा महातेजा बाल एव गुणैर्युतः ॥४५॥
ऋचीकस्तस्य पुत्रस्तु जमदग्निस्ततोऽभवत्जमदग्नेस्तु चत्वार आसन्पुत्रा महात्मनः ॥४६॥
रामस्तेषां जघन्योऽभूदजघन्यैर्गुणैर्युतःसर्वशस्त्रास्त्रकुशलः क्षत्रियान्तकरो वशी ॥४७॥
और्वस्यासीत्पुत्रशतं जमदग्निपुरोगमम्तेषां पुत्रसहस्राणि बभूवुर्भृगुविस्तरः ॥४८॥
द्वौ पुत्रौ ब्रह्मणस्त्वन्यौ ययोस्तिष्ठति लक्षणम्लोके धाता विधाता च यौ स्थितौ मनुना सह ॥४९॥
तयोरेव स्वसा देवी लक्ष्मीः पद्मगृहा शुभातस्यास्तु मानसाः पुत्रास्तुरगा व्योमचारिणः ॥५०॥
वरुणस्य भार्या ज्येष्ठा तु शुक्राद्देवी व्यजायततस्याः पुत्रं बलं विद्धि सुरां च सुरनन्दिनीम् ॥५१॥
प्रजानामन्नकामानामन्योन्यपरिभक्षणात्अधर्मस्तत्र संजातः सर्वभूतविनाशनः ॥५२॥
तस्यापि निरृतिर्भार्या नैरृता येन राक्षसाःघोरास्तस्यास्त्रयः पुत्राः पापकर्मरताः सदाभयो महाभयश्चैव मृत्युर्भूतान्तकस्तथा ॥५३॥
काकीं श्येनीं च भासीं च धृतराष्ट्रीं तथा शुकीम्ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः ॥५४॥
उलूकान्सुषुवे काकी श्येनी श्येनान्व्यजायतभासी भासानजनयद्गृध्रांश्चैव जनाधिप ॥५५॥
धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशःचक्रवाकांश्च भद्रं ते प्रजज्ञे सा तु भामिनी ॥५६॥
शुकी विजज्ञे धर्मज्ञ शुकानेव मनस्विनीकल्याणगुणसंपन्ना सर्वलक्षणपूजिता ॥५७॥
नव क्रोधवशा नारीः प्रजज्ञेऽप्यात्मसंभवाःमृगीं च मृगमन्दां च हरिं भद्रमनामपि ॥५८॥
मातङ्गीमथ शार्दूलीं श्वेतां सुरभिमेव चसर्वलक्षणसंपन्नां सुरसां च यशस्विनीम् ॥५९॥
अपत्यं तु मृगाः सर्वे मृग्या नरवरात्मजऋक्षाश्च मृगमन्दायाः सृमराश्चमरा अपि ॥६०॥
ततस्त्वैरावतं नागं जज्ञे भद्रमना सुतम्ऐरावतः सुतस्तस्या देवनागो महागजः ॥६१॥
हर्याश्च हरयोऽपत्यं वानराश्च तरस्विनःगोलाङ्गूलांश्च भद्रं ते हर्याः पुत्रान्प्रचक्षते ॥६२॥
प्रजज्ञे त्वथ शार्दूली सिंहान्व्याघ्रांश्च भारतद्वीपिनश्च महाभाग सर्वानेव न संशयः ॥६३॥
मातङ्ग्यास्त्वथ मातङ्गा अपत्यानि नराधिपदिशागजं तु श्वेताख्यं श्वेताजनयदाशुगम् ॥६४॥
तथा दुहितरौ राजन्सुरभिर्वै व्यजायतरोहिणीं चैव भद्रं ते गन्धर्वीं च यशस्विनीम्रोहिण्यां जज्ञिरे गावो गन्धर्व्यां वाजिनः सुताः ॥६५॥
सुरसाजनयन्नागान्राजन्कद्रूश्च पन्नगान्सप्त पिण्डफलान्वृक्षाननलापि व्यजायतअनलायाः शुकी पुत्री कद्र्वास्तु सुरसा सुता ॥६६॥
अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौसंपातिं जनयामास तथैव च जटायुषम्द्वौ पुत्रौ विनतायास्तु विख्यातौ गरुडारुणौ ॥६७॥
इत्येष सर्वभूतानां महतां मनुजाधिपप्रभवः कीर्तितः सम्यङ्मया मतिमतां वर ॥६८॥
यं श्रुत्वा पुरुषः सम्यक्पूतो भवति पाप्मनःसर्वज्ञतां च लभते गतिमग्र्यां च विन्दति ॥६९॥
End of chapter ॥
1

0
Adhyaya 60Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0