Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 78
Mahabharata · Adi Parva
वैशंपायन उवाच
श्रुत्वा कुमारं जातं तु देवयानी शुचिस्मिताचिन्तयामास दुःखार्ता शर्मिष्ठां प्रति भारत ॥१॥
अभिगम्य च शर्मिष्ठां देवयान्यब्रवीदिदम्किमिदं वृजिनं सुभ्रु कृतं ते कामलुब्धया ॥२॥
शर्मिष्ठोवाचऋषिरभ्यागतः कश्चिद्धर्मात्मा वेदपारगःस मया वरदः कामं याचितो धर्मसंहितम् ॥३॥
नाहमन्यायतः काममाचरामि शुचिस्मितेतस्मादृषेर्ममापत्यमिति सत्यं ब्रवीमि ते ॥४॥
देवयान्युवाचशोभनं भीरु सत्यं चेदथ स ज्ञायते द्विजःगोत्रनामाभिजनतो वेत्तुमिच्छामि तं द्विजम् ॥५॥
शर्मिष्ठोवाचओजसा तेजसा चैव दीप्यमानं रविं यथातं दृष्ट्वा मम संप्रष्टुं शक्तिर्नासीच्छुचिस्मिते ॥६॥
देवयान्युवाचयद्येतदेवं शर्मिष्ठे न मन्युर्विद्यते ममअपत्यं यदि ते लब्धं ज्येष्ठाच्छ्रेष्ठाच्च वै द्विजात् ॥७॥
वैशंपायन उवाच
अन्योन्यमेवमुक्त्वा च संप्रहस्य च ते मिथःजगाम भार्गवी वेश्म तथ्यमित्येव जज्ञुषी ॥८॥
ययातिर्देवयान्यां तु पुत्रावजनयन्नृपःयदुं च तुर्वसुं चैव शक्रविष्णू इवापरौ ॥९॥
तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणीद्रुह्युं चानुं च पूरुं च त्रीन्कुमारानजीजनत् ॥१०॥
ततः काले तु कस्मिंश्चिद्देवयानी शुचिस्मिताययातिसहिता राजन्निर्जगाम महावनम् ॥११॥
ददर्श च तदा तत्र कुमारान्देवरूपिणःक्रीडमानान्सुविश्रब्धान्विस्मिता चेदमब्रवीत् ॥१२॥
कस्यैते दारका राजन्देवपुत्रोपमाः शुभाःवर्चसा रूपतश्चैव सदृशा मे मतास्तव ॥१३॥
एवं पृष्ट्वा तु राजानं कुमारान्पर्यपृच्छतकिंनामधेयगोत्रो वः पुत्रका ब्राह्मणः पिताविब्रूत मे यथातथ्यं श्रोतुमिच्छामि तं ह्यहम् ॥१४॥
तेऽदर्शयन्प्रदेशिन्या तमेव नृपसत्तमम्शर्मिष्ठां मातरं चैव तस्याचख्युश्च दारकाः ॥१५॥
इत्युक्त्वा सहितास्ते तु राजानमुपचक्रमुःनाभ्यनन्दत तान्राजा देवयान्यास्तदान्तिकेरुदन्तस्तेऽथ शर्मिष्ठामभ्ययुर्बालकास्ततः ॥१६॥
दृष्ट्वा तु तेषां बालानां प्रणयं पार्थिवं प्रतिबुद्ध्वा च तत्त्वतो देवी शर्मिष्ठामिदमब्रवीत् ॥१७॥
मदधीना सती कस्मादकार्षीर्विप्रियं ममतमेवासुरधर्मं त्वमास्थिता न बिभेषि किम् ॥१८॥
शर्मिष्ठोवाचयदुक्तमृषिरित्येव तत्सत्यं चारुहासिनिन्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते ॥१९॥
यदा त्वया वृतो राजा वृत एव तदा मयासखीभर्ता हि धर्मेण भर्ता भवति शोभने ॥२०॥
पूज्यासि मम मान्या च ज्येष्ठा श्रेष्ठा च ब्राह्मणीत्वत्तोऽपि मे पूज्यतमो राजर्षिः किं न वेत्थ तत् ॥२१॥
वैशंपायन उवाच
श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीदिदम्राजन्नाद्येह वत्स्यामि विप्रियं मे कृतं त्वया ॥२२॥
सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम्त्वरितं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा ॥२३॥
अनुवव्राज संभ्रान्तः पृष्ठतः सान्त्वयन्नृपःन्यवर्तत न चैव स्म क्रोधसंरक्तलोचना ॥२४॥
अविब्रुवन्ती किंचित्तु राजानं चारुलोचनाअचिरादिव संप्राप्ता काव्यस्योशनसोऽन्तिकम् ॥२५॥
सा तु दृष्ट्वैव पितरमभिवाद्याग्रतः स्थिताअनन्तरं ययातिस्तु पूजयामास भार्गवम् ॥२६॥
देवयान्युवाचअधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम्शर्मिष्ठयातिवृत्तास्मि दुहित्रा वृषपर्वणः ॥२७॥
त्रयोऽस्यां जनिताः पुत्रा राज्ञानेन ययातिनादुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते ॥२८॥
धर्मज्ञ इति विख्यात एष राजा भृगूद्वहअतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते ॥२९॥
शुक्र उवाच
धर्मज्ञः सन्महाराज योऽधर्ममकृथाः प्रियम्तस्माज्जरा त्वामचिराद्धर्षयिष्यति दुर्जया ॥३०॥
ययातिरुवाचऋतुं वै याचमानाया भगवन्नान्यचेतसादुहितुर्दानवेन्द्रस्य धर्म्यमेतत्कृतं मया ॥३१॥
ऋतुं वै याचमानाया न ददाति पुमान्वृतःभ्रूणहेत्युच्यते ब्रह्मन्स इह ब्रह्मवादिभिः ॥३२॥
अभिकामां स्त्रियं यस्तु गम्यां रहसि याचितःनोपैति स च धर्मेषु भ्रूणहेत्युच्यते बुधैः ॥३३॥
इत्येतानि समीक्ष्याहं कारणानि भृगूद्वहअधर्मभयसंविग्नः शर्मिष्ठामुपजग्मिवान् ॥३४॥
शुक्र उवाच
नन्वहं प्रत्यवेक्ष्यस्ते मदधीनोऽसि पार्थिवमिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष ॥३५॥
वैशंपायन उवाच
क्रुद्धेनोशनसा शप्तो ययातिर्नाहुषस्तदापूर्वं वयः परित्यज्य जरां सद्योऽन्वपद्यत ॥३६॥
ययातिरुवाचअतृप्तो यौवनस्याहं देवयान्यां भृगूद्वहप्रसादं कुरु मे ब्रह्मञ्जरेयं मा विशेत माम् ॥३७॥
शुक्र उवाच
नाहं मृषा ब्रवीम्येतज्जरां प्राप्तोऽसि भूमिपजरां त्वेतां त्वमन्यस्मै संक्रामय यदीच्छसि ॥३८॥
ययातिरुवाचराज्यभाक्स भवेद्ब्रह्मन्पुण्यभाक्कीर्तिभाक्तथायो मे दद्याद्वयः पुत्रस्तद्भवाननुमन्यताम् ॥३९॥
शुक्र उवाच
संक्रामयिष्यसि जरां यथेष्टं नहुषात्मजमामनुध्याय भावेन न च पापमवाप्स्यसि ॥४०॥
वयो दास्यति ते पुत्रो यः स राजा भविष्यतिआयुष्मान्कीर्तिमांश्चैव बह्वपत्यस्तथैव च ॥४१॥
End of chapter ॥
1

0
Adhyaya 78Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0