Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 98
Mahabharata · Adi Parva
भीष्म उवाच
जामदग्न्येन रामेण पितुर्वधममृष्यताक्रुद्धेन च महाभागे हैहयाधिपतिर्हतःशतानि दश बाहूनां निकृत्तान्यर्जुनस्य वै ॥१॥
पुनश्च धनुरादाय महास्त्राणि प्रमुञ्चतानिर्दग्धं क्षत्रमसकृद्रथेन जयता महीम् ॥२॥
एवमुच्चावचैरस्त्रैर्भार्गवेण महात्मनात्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा ॥३॥
ततः संभूय सर्वाभिः क्षत्रियाभिः समन्ततःउत्पादितान्यपत्यानि ब्राह्मणैर्नियतात्मभिः ॥४॥
पाणिग्राहस्य तनय इति वेदेषु निश्चितम्धर्मं मनसि संस्थाप्य ब्राह्मणांस्ताः समभ्ययुःलोकेऽप्याचरितो दृष्टः क्षत्रियाणां पुनर्भवः ॥५॥
अथोतथ्य इति ख्यात आसीद्धीमानृषिः पुराममता नाम तस्यासीद्भार्या परमसंमता ॥६॥
उतथ्यस्य यवीयांस्तु पुरोधास्त्रिदिवौकसाम्बृहस्पतिर्बृहत्तेजा ममतां सोऽन्वपद्यत ॥७॥
उवाच ममता तं तु देवरं वदतां वरम्अन्तर्वत्नी अहं भ्रात्रा ज्येष्ठेनारम्यतामिति ॥८॥
अयं च मे महाभाग कुक्षावेव बृहस्पतेऔतथ्यो वेदमत्रैव षडङ्गं प्रत्यधीयत ॥९॥
अमोघरेतास्त्वं चापि नूनं भवितुमर्हसितस्मादेवंगतेऽद्य त्वमुपारमितुमर्हसि ॥१०॥
एवमुक्तस्तया सम्यग्बृहत्तेजा बृहस्पतिःकामात्मानं तदात्मानं न शशाक नियच्छितुम् ॥११॥
संबभूव ततः कामी तया सार्धमकामयाउत्सृजन्तं तु तं रेतः स गर्भस्थोऽभ्यभाषत ॥१२॥
भोस्तात कन्यस वदे द्वयोर्नास्त्यत्र संभवःअमोघशुक्रश्च भवान्पूर्वं चाहमिहागतः ॥१३॥
शशाप तं ततः क्रुद्ध एवमुक्तो बृहस्पतिःउतथ्यपुत्रं गर्भस्थं निर्भर्त्स्य भगवानृषिः ॥१४॥
यस्मात्त्वमीदृशे काले सर्वभूतेप्सिते सतिएवमात्थ वचस्तस्मात्तमो दीर्घं प्रवेक्ष्यसि ॥१५॥
स वै दीर्घतमा नाम शापादृषिरजायतबृहस्पतेर्बृहत्कीर्तेर्बृहस्पतिरिवौजसा ॥१६॥
स पुत्राञ्जनयामास गौतमादीन्महायशाःऋषेरुतथ्यस्य तदा संतानकुलवृद्धये ॥१७॥
लोभमोहाभिभूतास्ते पुत्रास्तं गौतमादयःकाष्ठे समुद्गे प्रक्षिप्य गङ्गायां समवासृजन् ॥१८॥
न स्यादन्धश्च वृद्धश्च भर्तव्योऽयमिति स्म तेचिन्तयित्वा ततः क्रूराः प्रतिजग्मुरथो गृहान् ॥१९॥
सोऽनुस्रोतस्तदा राजन्प्लवमान ऋषिस्ततःजगाम सुबहून्देशानन्धस्तेनोडुपेन ह ॥२०॥
तं तु राजा बलिर्नाम सर्वधर्मविशारदःअपश्यन्मज्जनगतः स्रोतसाभ्याशमागतम् ॥२१॥
जग्राह चैनं धर्मात्मा बलिः सत्यपराक्रमःज्ञात्वा चैनं स वव्रेऽथ पुत्रार्थं मनुजर्षभ ॥२२॥
संतानार्थं महाभाग भार्यासु मम मानदपुत्रान्धर्मार्थकुशलानुत्पादयितुमर्हसि ॥२३॥
एवमुक्तः स तेजस्वी तं तथेत्युक्तवानृषिःतस्मै स राजा स्वां भार्यां सुदेष्णां प्राहिणोत्तदा ॥२४॥
अन्धं वृद्धं च तं मत्वा न सा देवी जगाम हस्वां तु धात्रेयिकां तस्मै वृद्धाय प्राहिणोत्तदा ॥२५॥
तस्यां काक्षीवदादीन्स शूद्रयोनावृषिर्वशीजनयामास धर्मात्मा पुत्रानेकादशैव तु ॥२६॥
काक्षीवदादीन्पुत्रांस्तान्दृष्ट्वा सर्वानधीयतःउवाच तमृषिं राजा ममैत इति वीर्यवान् ॥२७॥
नेत्युवाच महर्षिस्तं ममैवैत इति ब्रुवन्शूद्रयोनौ मया हीमे जाताः काक्षीवदादयः ॥२८॥
अन्धं वृद्धं च मां मत्वा सुदेष्णा महिषी तवअवमन्य ददौ मूढा शूद्रां धात्रेयिकां हि मे ॥२९॥
ततः प्रसादयामास पुनस्तमृषिसत्तमम्बलिः सुदेष्णां भार्यां च तस्मै तां प्राहिणोत्पुनः ॥३०॥
तां स दीर्घतमाङ्गेषु स्पृष्ट्वा देवीमथाब्रवीत्भविष्यति कुमारस्ते तेजस्वी सत्यवागिति ॥३१॥
तत्राङ्गो नाम राजर्षिः सुदेष्णायामजायतएवमन्ये महेष्वासा ब्राह्मणैः क्षत्रिया भुवि ॥३२॥
जाताः परमधर्मज्ञा वीर्यवन्तो महाबलाःएतच्छ्रुत्वा त्वमप्यत्र मातः कुरु यथेप्सितम् ॥३३॥
End of chapter ॥
1

0
Adhyaya 98Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0