Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Sauptika Parva
कृप उवाच
श्रुतं ते वचनं सर्वं हेतुयुक्तं मया विभोममापि तु वचः किंचिच्छृणुष्वाद्य महाभुज ॥१॥
आबद्धा मानुषाः सर्वे निर्बन्धाः कर्मणोर्द्वयोःदैवे पुरुषकारे च परं ताभ्यां न विद्यते ॥२॥
न हि दैवेन सिध्यन्ति कर्माण्येकेन सत्तमन चापि कर्मणैकेन द्वाभ्यां सिद्धिस्तु योगतः ॥३॥
ताभ्यामुभाभ्यां सर्वार्था निबद्धा ह्यधमोत्तमाःप्रवृत्ताश्चैव दृश्यन्ते निवृत्ताश्चैव सर्वशः ॥४॥
पर्जन्यः पर्वते वर्षन्किं नु साधयते फलम्कृष्टे क्षेत्रे तथावर्षन्किं नु साधयते फलम् ॥५॥
उत्थानं चाप्यदैवस्य ह्यनुत्थानस्य दैवतम्व्यर्थं भवति सर्वत्र पूर्वं कस्तत्र निश्चयः ॥६॥
प्रवृष्टे च यथा देवे सम्यक्क्षेत्रे च कर्षितेबीजं महागुणं भूयात्तथा सिद्धिर्हि मानुषी ॥७॥
तयोर्दैवं विनिश्चित्य स्ववशेनैव वर्ततेप्राज्ञाः पुरुषकारं तु घटन्ते दाक्ष्यमास्थिताः ॥८॥
ताभ्यां सर्वे हि कार्यार्था मनुष्याणां नरर्षभविचेष्टन्तश्च दृश्यन्ते निवृत्ताश्च तथैव हि ॥९॥
कृतः पुरुषकारः सन्सोऽपि दैवेन सिध्यतितथास्य कर्मणः कर्तुरभिनिर्वर्तते फलम् ॥१०॥
उत्थानं तु मनुष्याणां दक्षाणां दैववर्जितम्अफलं दृश्यते लोके सम्यगप्युपपादितम् ॥११॥
तत्रालसा मनुष्याणां ये भवन्त्यमनस्विनःउत्थानं ते विगर्हन्ति प्राज्ञानां तन्न रोचते ॥१२॥
प्रायशो हि कृतं कर्म अफलं दृश्यते भुविअकृत्वा च पुनर्दुःखं कर्म दृश्येन्महाफलम् ॥१३॥
चेष्टामकुर्वँल्लभते यदि किंचिद्यदृच्छयायो वा न लभते कृत्वा दुर्दशौ तावुभावपि ॥१४॥
शक्नोति जीवितुं दक्षो नालसः सुखमेधतेदृश्यन्ते जीवलोकेऽस्मिन्दक्षाः प्रायो हितैषिणः ॥१५॥
यदि दक्षः समारम्भात्कर्मणां नाश्नुते फलम्नास्य वाच्यं भवेत्किंचित्तत्त्वं चाप्यधिगच्छति ॥१६॥
अकृत्वा कर्म यो लोके फलं विन्दति विष्टितःस तु वक्तव्यतां याति द्वेष्यो भवति प्रायशः ॥१७॥
एवमेतदनादृत्य वर्तते यस्त्वतोऽन्यथास करोत्यात्मनोऽनर्थान्नैष बुद्धिमतां नयः ॥१८॥
हीनं पुरुषकारेण यदा दैवेन वा पुनःकारणाभ्यामथैताभ्यामुत्थानमफलं भवेत्हीनं पुरुषकारेण कर्म त्विह न सिध्यति ॥१९॥
दैवतेभ्यो नमस्कृत्य यस्त्वर्थान्सम्यगीहतेदक्षो दाक्षिण्यसंपन्नो न स मोघं विहन्यते ॥२०॥
सम्यगीहा पुनरियं यो वृद्धानुपसेवतेआपृच्छति च यच्छ्रेयः करोति च हितं वचः ॥२१॥
उत्थायोत्थाय हि सदा प्रष्टव्या वृद्धसंमताःतेऽस्य योगे परं मूलं तन्मूला सिद्धिरुच्यते ॥२२॥
वृद्धानां वचनं श्रुत्वा यो ह्युत्थानं प्रयोजयेत्उत्थानस्य फलं सम्यक्तदा स लभतेऽचिरात् ॥२३॥
रागात्क्रोधाद्भयाल्लोभाद्योऽर्थानीहेत मानवःअनीशश्चावमानी च स शीघ्रं भ्रश्यते श्रियः ॥२४॥
सोऽयं दुर्योधनेनार्थो लुब्धेनादीर्घदर्शिनाअसमर्थ्य समारब्धो मूढत्वादविचिन्तितः ॥२५॥
हितबुद्धीननादृत्य संमन्त्र्यासाधुभिः सहवार्यमाणोऽकरोद्वैरं पाण्डवैर्गुणवत्तरैः ॥२६॥
पूर्वमप्यतिदुःशीलो न दैन्यं कर्तुमर्हतितपत्यर्थे विपन्ने हि मित्राणामकृतं वचः ॥२७॥
अन्वावर्तामहि वयं यत्तु तं पापपूरुषम्अस्मानप्यनयस्तस्मात्प्राप्तोऽयं दारुणो महान् ॥२८॥
अनेन तु ममाद्यापि व्यसनेनोपतापिताबुद्धिश्चिन्तयतः किंचित्स्वं श्रेयो नावबुध्यते ॥२९॥
मुह्यता तु मनुष्येण प्रष्टव्याः सुहृदो बुधाःते च पृष्टा यथा ब्रूयुस्तत्कर्तव्यं तथा भवेत् ॥३०॥
ते वयं धृतराष्ट्रं च गान्धारीं च समेत्य हउपपृच्छामहे गत्वा विदुरं च महामतिम् ॥३१॥
ते पृष्टाश्च वदेयुर्यच्छ्रेयो नः समनन्तरम्तदस्माभिः पुनः कार्यमिति मे नैष्ठिकी मतिः ॥३२॥
अनारम्भात्तु कार्याणां नार्थः संपद्यते क्वचित्कृते पुरुषकारे च येषां कार्यं न सिध्यतिदैवेनोपहतास्ते तु नात्र कार्या विचारणा ॥३३॥
End of chapter ॥
1
Mahabharata · Sauptika Parva

Adhyaya 2

0
Adhyaya 2Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0