Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Sauptika Parva
संजय उवाच
ते हत्वा सर्वपाञ्चालान्द्रौपदेयांश्च सर्वशःअगच्छन्सहितास्तत्र यत्र दुर्योधनो हतः ॥१॥
गत्वा चैनमपश्यंस्ते किंचित्प्राणं नराधिपम्ततो रथेभ्यः प्रस्कन्द्य परिवव्रुस्तवात्मजम् ॥२॥
तं भग्नसक्थं राजेन्द्र कृच्छ्रप्राणमचेतसम्वमन्तं रुधिरं वक्त्रादपश्यन्वसुधातले ॥३॥
वृतं समन्ताद्बहुभिः श्वापदैर्घोरदर्शनैःशालावृकगणैश्चैव भक्षयिष्यद्भिरन्तिकात् ॥४॥
निवारयन्तं कृच्छ्रात्ताञ्श्वापदान्संचिखादिषून्विवेष्टमानं मह्यां च सुभृशं गाढवेदनम् ॥५॥
तं शयानं महात्मानं भूमौ स्वरुधिरोक्षितम्हतशिष्टास्त्रयो वीराः शोकार्ताः पर्यवारयन्अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ॥६॥
तैस्त्रिभिः शोणितादिग्धैर्निःश्वसद्भिर्महारथैःशुशुभे संवृतो राजा वेदी त्रिभिरिवाग्निभिः ॥७॥
ते तं शयानं संप्रेक्ष्य राजानमतथोचितम्अविषह्येन दुःखेन ततस्ते रुरुदुस्त्रयः ॥८॥
ततस्ते रुधिरं हस्तैर्मुखान्निर्मृज्य तस्य हरणे राज्ञः शयानस्य कृपणं पर्यदेवयन् ॥९॥
कृप उवाच
न दैवस्यातिभारोऽस्ति यदयं रुधिरोक्षितःएकादशचमूभर्ता शेते दुर्योधनो हतः ॥१०॥
पश्य चामीकराभस्य चामीकरविभूषिताम्गदां गदाप्रियस्येमां समीपे पतितां भुवि ॥११॥
इयमेनं गदा शूरं न जहाति रणे रणेस्वर्गायापि व्रजन्तं हि न जहाति यशस्विनम् ॥१२॥
पश्येमां सह वीरेण जाम्बूनदविभूषिताम्शयानां शयने धर्मे भार्यां प्रीतिमतीमिव ॥१३॥
यो वै मूर्धावसिक्तानामग्रे यातः परंतपःस हतो ग्रसते पांसून्पश्य कालस्य पर्ययम् ॥१४॥
येनाजौ निहता भूमावशेरत पुरा द्विषःस भूमौ निहतः शेते कुरुराजः परैरयम् ॥१५॥
भयान्नमन्ति राजानो यस्य स्म शतसंघशःस वीरशयने शेते क्रव्याद्भिः परिवारितः ॥१६॥
उपासत नृपाः पूर्वमर्थहेतोर्यमीश्वरम्धिक्सद्यो निहतः शेते पश्य कालस्य पर्ययम् ॥१७॥
संजय उवाच
तं शयानं नृपश्रेष्ठं ततो भरतसत्तमअश्वत्थामा समालोक्य करुणं पर्यदेवयत् ॥१८॥
आहुस्त्वां राजशार्दूल मुख्यं सर्वधनुष्मताम्धनाध्यक्षोपमं युद्धे शिष्यं संकर्षणस्य ह ॥१९॥
कथं विवरमद्राक्षीद्भीमसेनस्तवानघबलिनः कृतिनो नित्यं स च पापात्मवान्नृप ॥२०॥
कालो नूनं महाराज लोकेऽस्मिन्बलवत्तरःपश्यामो निहतं त्वां चेद्भीमसेनेन संयुगे ॥२१॥
कथं त्वां सर्वधर्मज्ञं क्षुद्रः पापो वृकोदरःनिकृत्या हतवान्मन्दो नूनं कालो दुरत्ययः ॥२२॥
धर्मयुद्धे ह्यधर्मेण समाहूयौजसा मृधेगदया भीमसेनेन निर्भिन्ने सक्थिनी तव ॥२३॥
अधर्मेण हतस्याजौ मृद्यमानं पदा शिरःयदुपेक्षितवान्क्षुद्रो धिक्तमस्तु युधिष्ठिरम् ॥२४॥
युद्धेष्वपवदिष्यन्ति योधा नूनं वृकोदरम्यावत्स्थास्यन्ति भूतानि निकृत्या ह्यसि पातितः ॥२५॥
ननु रामोऽब्रवीद्राजंस्त्वां सदा यदुनन्दनःदुर्योधनसमो नास्ति गदया इति वीर्यवान् ॥२६॥
श्लाघते त्वां हि वार्ष्णेयो राजन्संसत्सु भारतसुशिष्यो मम कौरव्यो गदायुद्ध इति प्रभो ॥२७॥
यां गतिं क्षत्रियस्याहुः प्रशस्तां परमर्षयःहतस्याभिमुखस्याजौ प्राप्तस्त्वमसि तां गतिम् ॥२८॥
दुर्योधन न शोचामि त्वामहं पुरुषर्षभहतपुत्रां तु शोचामि गान्धारीं पितरं च तेभिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम् ॥२९॥
धिगस्तु कृष्णं वार्ष्णेयमर्जुनं चापि दुर्मतिम्धर्मज्ञमानिनौ यौ त्वां वध्यमानमुपेक्षताम् ॥३०॥
पाण्डवाश्चापि ते सर्वे किं वक्ष्यन्ति नराधिपान्कथं दुर्योधनोऽस्माभिर्हत इत्यनपत्रपाः ॥३१॥
धन्यस्त्वमसि गान्धारे यस्त्वमायोधने हतःप्रयातोऽभिमुखः शत्रून्धर्मेण पुरुषर्षभ ॥३२॥
हतपुत्रा हि गान्धारी निहतज्ञातिबान्धवाप्रज्ञाचक्षुश्च दुर्धर्षः कां गतिं प्रतिपत्स्यते ॥३३॥
धिगस्तु कृतवर्माणं मां कृपं च महारथम्ये वयं न गताः स्वर्गं त्वां पुरस्कृत्य पार्थिवम् ॥३४॥
दातारं सर्वकामानां रक्षितारं प्रजाहितम्यद्वयं नानुगच्छामस्त्वां धिगस्मान्नराधमान् ॥३५॥
कृपस्य तव वीर्येण मम चैव पितुश्च मेसभृत्यानां नरव्याघ्र रत्नवन्ति गृहाणि च ॥३६॥
भवत्प्रसादादस्माभिः समित्रैः सहबान्धवैःअवाप्ताः क्रतवो मुख्या बहवो भूरिदक्षिणाः ॥३७॥
कुतश्चापीदृशं सार्थमुपलप्स्यामहे वयम्यादृशेन पुरस्कृत्य त्वं गतः सर्वपार्थिवान् ॥३८॥
वयमेव त्रयो राजन्गच्छन्तं परमां गतिम्यद्वै त्वां नानुगच्छामस्तेन तप्स्यामहे वयम् ॥३९॥
त्वत्स्वर्गहीना हीनार्थाः स्मरन्तः सुकृतस्य तेकिं नाम तद्भवेत्कर्म येन त्वानुव्रजेम वै ॥४०॥
दुःखं नूनं कुरुश्रेष्ठ चरिष्यामो महीमिमाम्हीनानां नस्त्वया राजन्कुतः शान्तिः कुतः सुखम् ॥४१॥
गत्वैतांस्तु महाराज समेत्य त्वं महारथान्यथाश्रेष्ठं यथाज्येष्ठं पूजयेर्वचनान्मम ॥४२॥
आचार्यं पूजयित्वा च केतुं सर्वधनुष्मताम्हतं मयाद्य शंसेथा धृष्टद्युम्नं नराधिप ॥४३॥
परिष्वजेथा राजानं बाह्लिकं सुमहारथम्सैन्धवं सोमदत्तं च भूरिश्रवसमेव च ॥४४॥
तथा पूर्वगतानन्यान्स्वर्गं पार्थिवसत्तमान्अस्मद्वाक्यात्परिष्वज्य पृच्छेथास्त्वमनामयम् ॥४५॥
इत्येवमुक्त्वा राजानं भग्नसक्थमचेतसम्अश्वत्थामा समुद्वीक्ष्य पुनर्वचनमब्रवीत् ॥४६॥
दुर्योधन जीवसि चेद्वाचं श्रोत्रसुखां शृणुसप्त पाण्डवतः शेषा धार्तराष्ट्रास्त्रयो वयम् ॥४७॥
ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिःअहं च कृतवर्मा च कृपः शारद्वतस्तथा ॥४८॥
द्रौपदेया हताः सर्वे धृष्टद्युम्नस्य चात्मजाःपाञ्चाला निहताः सर्वे मत्स्यशेषं च भारत ॥४९॥
कृते प्रतिकृतं पश्य हतपुत्रा हि पाण्डवाःसौप्तिके शिबिरं तेषां हतं सनरवाहनम् ॥५०॥
मया च पापकर्मासौ धृष्टद्युम्नो महीपतेप्रविश्य शिबिरं रात्रौ पशुमारेण मारितः ॥५१॥
दुर्योधनस्तु तां वाचं निशम्य मनसः प्रियाम्प्रतिलभ्य पुनश्चेत इदं वचनमब्रवीत् ॥५२॥
न मेऽकरोत्तद्गाङ्गेयो न कर्णो न च ते पितायत्त्वया कृपभोजाभ्यां सहितेनाद्य मे कृतम् ॥५३॥
स चेत्सेनापतिः क्षुद्रो हतः सार्धं शिखण्डिनातेन मन्ये मघवता सममात्मानमद्य वै ॥५४॥
स्वस्ति प्राप्नुत भद्रं वः स्वर्गे नः संगमः पुनःइत्येवमुक्त्वा तूष्णीं स कुरुराजो महामनाःप्राणानुदसृजद्वीरः सुहृदां शोकमादधत् ॥५५॥
तथेति ते परिष्वक्ताः परिष्वज्य च तं नृपम्पुनः पुनः प्रेक्षमाणाः स्वकानारुरुहू रथान् ॥५६॥
इत्येवं तव पुत्रस्य निशम्य करुणां गिरम्प्रत्यूषकाले शोकार्तः प्राधावं नगरं प्रति ॥५७॥
तव पुत्रे गते स्वर्गं शोकार्तस्य ममानघऋषिदत्तं प्रनष्टं तद्दिव्यदर्शित्वमद्य वै ॥५८॥
वैशंपायन उवाच
इति श्रुत्वा स नृपतिः पुत्रज्ञातिवधं तदानिःश्वस्य दीर्घमुष्णं च ततश्चिन्तापरोऽभवत् ॥५९॥
End of chapter ॥
1
Mahabharata · Sauptika Parva

Adhyaya 9

0
Adhyaya 9Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0