महाभारत, पुस्तक रूप में
॥ ॐ ॥यदि आपको इस मंच का अनुभव अच्छा लगा हो…॥ दान ॥तो कृपया दान करेंइससे ये ग्रंथ सबके लिए खुले और निःशुल्क रहते हैं।दान करेंमहाभारत · शान्ति पर्व
॥ श्रीः ॥
अध्याय 129
महाभारत · शान्ति पर्व
युधिष्ठिर उवाच
क्षीणस्य दीर्घसूत्रस्य सानुक्रोशस्य बन्धुषुविरक्तपौरराष्ट्रस्य निर्द्रव्यनिचयस्य च ॥१॥
परिशङ्कितमुख्यस्य स्रुतमन्त्रस्य भारतअसंभावितमित्रस्य भिन्नामात्यस्य सर्वशः ॥२॥
परचक्राभियातस्य दुर्बलस्य बलीयसाआपन्नचेतसो ब्रूहि किं कार्यमवशिष्यते ॥३॥
भीष्म उवाच
बाह्यश्चेद्विजिगीषुः स्याद्धर्मार्थकुशलः शुचिःजवेन संधिं कुर्वीत पूर्वान्पूर्वान्विमोक्षयन् ॥४॥
अधर्मविजिगीषुश्चेद्बलवान्पापनिश्चयःआत्मनः संनिरोधेन संधिं तेनाभियोजयेत् ॥५॥
अपास्य राजधानीं वा तरेदन्येन वापदम्तद्भावभावे द्रव्याणि जीवन्पुनरुपार्जयेत् ॥६॥
यास्तु स्युः केवलत्यागाच्छक्यास्तरितुमापदःकस्तत्राधिकमात्मानं संत्यजेदर्थधर्मवित् ॥७॥
अवरोधाज्जुगुप्सेत का सपत्नधने दयान त्वेवात्मा प्रदातव्यः शक्ये सति कथंचन ॥८॥
युधिष्ठिर उवाच
आभ्यन्तरे प्रकुपिते बाह्ये चोपनिपीडितेक्षीणे कोशे स्रुते मन्त्रे किं कार्यमवशिष्यते ॥९॥
भीष्म उवाच
क्षिप्रं वा संधिकामः स्यात्क्षिप्रं वा तीक्ष्णविक्रमःपदापनयनं क्षिप्रमेतावत्सांपरायिकम् ॥१०॥
अनुरक्तेन पुष्टेन हृष्टेन जगतीपतेअल्पेनापि हि सैन्येन महीं जयति पार्थिवः ॥११॥
हतो वा दिवमारोहेद्विजयी क्षितिमावसेत्युद्धे तु संत्यजन्प्राणाञ्शक्रस्यैति सलोकताम् ॥१२॥
सर्वलोकागमं कृत्वा मृदुत्वं गन्तुमेव चविश्वासाद्विनयं कुर्याद्व्यवस्येद्वाप्युपानहौ ॥१३॥
अपक्रमितुमिच्छेद्वा यथाकामं तु सान्त्वयेत्विलिङ्गमित्वा मित्रेण ततः स्वयमुपक्रमेत् ॥१४॥
अध्याय समाप्त ॥
१

0
अध्याय 129पृष्ठ 1–1 / 1
पृष्ठ पलटने के लिए कोना खींचें, स्वाइप करें या तीर कुंजियाँ दबाएँ
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0