Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
वसिष्ठ उवाच
एवमप्रतिबुद्धत्वादबुद्धजनसेवनात्सर्गकोटिसहस्राणि पतनान्तानि गच्छति ॥१॥
धाम्ना धामसहस्राणि मरणान्तानि गच्छतितिर्यग्योनौ मनुष्यत्वे देवलोके तथैव च ॥२॥
चन्द्रमा इव कोशानां पुनस्तत्र सहस्रशःलीयतेऽप्रतिबुद्धत्वादेवमेष ह्यबुद्धिमान् ॥३॥
कलाः पञ्चदशा योनिस्तद्धाम इति पठ्यतेनित्यमेतद्विजानीहि सोमः षोडशमी कला ॥४॥
कलायां जायतेऽजस्रं पुनः पुनरबुद्धिमान्धाम तस्योपयुञ्जन्ति भूय एव तु जायते ॥५॥
षोडशी तु कला सूक्ष्मा स सोम उपधार्यताम्न तूपयुज्यते देवैर्देवानुपयुनक्ति सा ॥६॥
एवं तां क्षपयित्वा हि जायते नृपसत्तमसा ह्यस्य प्रकृतिर्दृष्टा तत्क्षयान्मोक्ष उच्यते ॥७॥
तदेवं षोडशकलं देहमव्यक्तसंज्ञकम्ममायमिति मन्वानस्तत्रैव परिवर्तते ॥८॥
पञ्चविंशस्तथैवात्मा तस्यैवा प्रतिबोधनात्विमलस्य विशुद्धस्य शुद्धानिलनिषेवणात् ॥९॥
अशुद्ध एव शुद्धात्मा तादृग्भवति पार्थिवअबुद्धसेवनाच्चापि बुद्धोऽप्यबुधतां व्रजेत् ॥१०॥
तथैवाप्रतिबुद्धोऽपि ज्ञेयो नृपतिसत्तमप्रकृतेस्त्रिगुणायास्तु सेवनात्प्राकृतो भवेत् ॥११॥
करालजनक उवाच
अक्षरक्षरयोरेष द्वयोः संबन्ध इष्यतेस्त्रीपुंसोर्वापि भगवन्संबन्धस्तद्वदुच्यते ॥१२॥
ऋते न पुरुषेणेह स्त्री गर्भं धारयत्युतऋते स्त्रियं न पुरुषो रूपं निर्वर्तयेत्तथा ॥१३॥
अन्योन्यस्याभिसंबन्धादन्योन्यगुणसंश्रयात्रूपं निर्वर्तयत्येतदेवं सर्वासु योनिषु ॥१४॥
रत्यर्थमभिसंरोधादन्योन्यगुणसंश्रयात्ऋतौ निर्वर्तते रूपं तद्वक्ष्यामि निदर्शनम् ॥१५॥
ये गुणाः पुरुषस्येह ये च मातृगुणास्तथाअस्थि स्नायु च मज्जा च जानीमः पितृतो द्विज ॥१६॥
त्वङ्मांसं शोणितं चैव मातृजान्यपि शुश्रुमएवमेतद्द्विजश्रेष्ठ वेदशास्त्रेषु पठ्यते ॥१७॥
प्रमाणं यच्च वेदोक्तं शास्त्रोक्तं यच्च पठ्यतेवेदशास्त्रप्रमाणं च प्रमाणं तत्सनातनम् ॥१८॥
एवमेवाभिसंबद्धौ नित्यं प्रकृतिपूरुषौपश्यामि भगवंस्तस्मान्मोक्षधर्मो न विद्यते ॥१९॥
अथ वानन्तरकृतं किंचिदेव निदर्शनम्तन्ममाचक्ष्व तत्त्वेन प्रत्यक्षो ह्यसि सर्वथा ॥२०॥
मोक्षकामा वयं चापि काङ्क्षामो यदनामयम्अदेहमजरं दिव्यमतीन्द्रियमनीश्वरम् ॥२१॥
वसिष्ठ उवाच
यदेतदुक्तं भवता वेदशास्त्रनिदर्शनम्एवमेतद्यथा चैतन्न गृह्णाति तथा भवान् ॥२२॥
धार्यते हि त्वया ग्रन्थ उभयोर्वेदशास्त्रयोःन तु ग्रन्थस्य तत्त्वज्ञो यथावत्त्वं नरेश्वर ॥२३॥
यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परःन च ग्रन्थार्थतत्त्वज्ञस्तस्य तद्धारणं वृथा ॥२४॥
भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यःयस्तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थागमो वृथा ॥२५॥
ग्रन्थस्यार्थं च पृष्टः संस्तादृशो वक्तुमर्हतियथा तत्त्वाभिगमनादर्थं तस्य स विन्दति ॥२६॥
यस्तु संसत्सु कथयेद्ग्रन्थार्थं स्थूलबुद्धिमान्स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात् ॥२७॥
निर्णयं चापि छिद्रात्मा न तं वक्ष्यति तत्त्वतःसोपहासात्मतामेति यस्माच्चैवात्मवानपि ॥२८॥
तस्मात्त्वं शृणु राजेन्द्र यथैतदनुदृश्यतेयाथातथ्येन सांख्येषु योगेषु च महात्मसु ॥२९॥
यदेव योगाः पश्यन्ति सांख्यैस्तदनुगम्यतेएकं सांख्यं च योगं च यः पश्यति स बुद्धिमान् ॥३०॥
त्वङ्मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु चएतदैन्द्रियकं तात यद्भवानिदमाह वै ॥३१॥
द्रव्याद्द्रव्यस्य निष्पत्तिरिन्द्रियादिन्द्रियं तथादेहाद्देहमवाप्नोति बीजाद्बीजं तथैव च ॥३२॥
निरिन्द्रियस्याबीजस्य निर्द्रव्यस्यास्य देहिनःकथं गुणा भविष्यन्ति निर्गुणत्वान्महात्मनः ॥३३॥
गुणा गुणेषु जायन्ते तत्रैव निविशन्ति चएवं गुणाः प्रकृतितो जायन्ते च न सन्ति च ॥३४॥
त्वङ्मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु चअष्टौ तान्यथ शुक्रेण जानीहि प्राकृतानि वै ॥३५॥
पुमांश्चैवापुमांश्चैव त्रैलिङ्ग्यं प्राकृतं स्मृतम्नैव पुमान्पुमांश्चैव स लिङ्गीत्यभिधीयते ॥३६॥
अलिङ्गा प्रकृतिर्लिङ्गैरुपलभ्यति सात्मजैःयथा पुष्पफलैर्नित्यमृतवो मूर्तयस्तथा ॥३७॥
एवमप्यनुमानेन ह्यलिङ्गमुपलभ्यतेपञ्चविंशतिमस्तात लिङ्गेष्वनियतात्मकः ॥३८॥
अनादिनिधनोऽनन्तः सर्वदर्शी निरामयःकेवलं त्वभिमानित्वाद्गुणेष्वगुण उच्यते ॥३९॥
गुणा गुणवतः सन्ति निर्गुणस्य कुतो गुणाःतस्मादेवं विजानन्ति ये जना गुणदर्शिनः ॥४०॥
यदा त्वेष गुणान्सर्वान्प्राकृतानभिमन्यतेतदा स गुणवानेव परमेणानुपश्यति ॥४१॥
यत्तद्बुद्धेः परं प्राहुः सांख्या योगाश्च सर्वशःबुध्यमानं महाप्राज्ञमबुद्धपरिवर्जनात् ॥४२॥
अप्रबुद्धमथाव्यक्तं सगुणं प्राहुरीश्वरम्निर्गुणं चेश्वरं नित्यमधिष्ठातारमेव च ॥४३॥
प्रकृतेश्च गुणानां च पञ्चविंशतिकं बुधाःसांख्ययोगे च कुशला बुध्यन्ते परमैषिणः ॥४४॥
यदा प्रबुद्धास्त्वव्यक्तमवस्थाजन्मभीरवःबुध्यमानं प्रबुध्यन्ति गमयन्ति समं तदा ॥४५॥
एतन्निदर्शनं सम्यगसम्यगनुदर्शनम्बुध्यमानाप्रबुद्धाभ्यां पृथक्पृथगरिंदम ॥४६॥
परस्परेणैतदुक्तं क्षराक्षरनिदर्शनम्एकत्वमक्षरं प्राहुर्नानात्वं क्षरमुच्यते ॥४७॥
पञ्चविंशतिनिष्ठोऽयं यदासम्यक्प्रवर्ततेएकत्वं दर्शनं चास्य नानात्वं चाप्यदर्शनम् ॥४८॥
तत्त्वनिस्तत्त्वयोरेतत्पृथगेव निदर्शनम्पञ्चविंशतिसर्गं तु तत्त्वमाहुर्मनीषिणः ॥४९॥
निस्तत्त्वं पञ्चविंशस्य परमाहुर्निदर्शनम्वर्गस्य वर्गमाचारं तत्त्वं तत्त्वात्सनातनम् ॥५०॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 293

0
Adhyaya 293Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0