Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
वसिष्ठ उवाच
अप्रबुद्धमथाव्यक्तमिमं गुणविधिं शृणुगुणान्धारयते ह्येषा सृजत्याक्षिपते तथा ॥१॥
अजस्रं त्विह क्रीडार्थं विकुर्वन्ती नराधिपआत्मानं बहुधा कृत्वा तान्येव च विचक्षते ॥२॥
एतदेवं विकुर्वाणां बुध्यमानो न बुध्यतेअव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्यपि ॥३॥
न त्वेव बुध्यतेऽव्यक्तं सगुणं वाथ निर्गुणम्कदाचित्त्वेव खल्वेतदाहुरप्रतिबुद्धकम् ॥४॥
बुध्यते यदि वाव्यक्तमेतद्वै पञ्चविंशकम्बुध्यमानो भवत्येष सङ्गात्मक इति श्रुतिः ॥५॥
अनेनाप्रतिबुद्धेति वदन्त्यव्यक्तमच्युतम्अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्युत ॥६॥
पञ्चविंशं महात्मानं न चासावपि बुध्यतेषड्विंशं विमलं बुद्धमप्रमेयं सनातनम् ॥७॥
सततं पञ्चविंशं च चतुर्विंशं च बुध्यतेदृश्यादृश्ये ह्यनुगतमुभावेव महाद्युती ॥८॥
अव्यक्तं न तु तद्ब्रह्म बुध्यते तात केवलम्केवलं पञ्चविंशं च चतुर्विंशं न पश्यति ॥९॥
बुध्यमानो यदात्मानमन्योऽहमिति मन्यतेतदा प्रकृतिमानेष भवत्यव्यक्तलोचनः ॥१०॥
बुध्यते च परां बुद्धिं विशुद्धाममलां यदाषड्विंशो राजशार्दूल तदा बुद्धत्वमाव्रजेत् ॥११॥
ततस्त्यजति सोऽव्यक्तं सर्गप्रलयधर्मिणम्निर्गुणः प्रकृतिं वेद गुणयुक्तामचेतनाम् ॥१२॥
ततः केवलधर्मासौ भवत्यव्यक्तदर्शनात्केवलेन समागम्य विमुक्तोऽऽत्मानमाप्नुयात् ॥१३॥
एतत्तत्तत्त्वमित्याहुर्निस्तत्त्वमजरामरम्तत्त्वसंश्रयणादेतत्तत्त्ववन्न च मानदपञ्चविंशतितत्त्वानि प्रवदन्ति मनीषिणः ॥१४॥
न चैष तत्त्ववांस्तात निस्तत्त्वस्त्वेष बुद्धिमान्एष मुञ्चति तत्त्वं हि क्षिप्रं बुद्धस्य लक्षणम् ॥१५॥
षड्विंशोऽहमिति प्राज्ञो गृह्यमाणोऽजरामरःकेवलेन बलेनैव समतां यात्यसंशयम् ॥१६॥
षड्विंशेन प्रबुद्धेन बुध्यमानोऽप्यबुद्धिमान्एतन्नानात्वमित्युक्तं सांख्यश्रुतिनिदर्शनात् ॥१७॥
चेतनेन समेतस्य पञ्चविंशतिकस्य चएकत्वं वै भवत्यस्य यदा बुद्ध्या न बुध्यते ॥१८॥
बुध्यमानोऽप्रबुद्धेन समतां याति मैथिलसङ्गधर्मा भवत्येष निःसङ्गात्मा नराधिप ॥१९॥
निःसङ्गात्मानमासाद्य षड्विंशकमजं विदुःविभुस्त्यजति चाव्यक्तं यदा त्वेतद्विबुध्यतेचतुर्विंशमगाधं च षड्विंशस्य प्रबोधनात् ॥२०॥
एष ह्यप्रतिबुद्धश्च बुध्यमानश्च तेऽनघप्रोक्तो बुद्धश्च तत्त्वेन यथाश्रुतिनिदर्शनात्नानात्वैकत्वमेतावद्द्रष्टव्यं शास्त्रदृष्टिभिः ॥२१॥
मशकोदुम्बरे यद्वदन्यत्वं तद्वदेतयोःमत्स्योऽम्भसि यथा तद्वदन्यत्वमुपलभ्यते ॥२२॥
एवमेवावगन्तव्यं नानात्वैकत्वमेतयोःएतद्विमोक्ष इत्युक्तमव्यक्तज्ञानसंहितम् ॥२३॥
पञ्चविंशतिकस्यास्य योऽयं देहेषु वर्ततेएष मोक्षयितव्येति प्राहुरव्यक्तगोचरात् ॥२४॥
सोऽयमेवं विमुच्येत नान्यथेति विनिश्चयःपरेण परधर्मा च भवत्येष समेत्य वै ॥२५॥
विशुद्धधर्मा शुद्धेन बुद्धेन च स बुद्धिमान्विमुक्तधर्मा मुक्तेन समेत्य पुरुषर्षभ ॥२६॥
नियोगधर्मिणा चैव नियोगात्मा भवत्यपिविमोक्षिणा विमोक्षश्च समेत्येह तथा भवेत् ॥२७॥
शुचिकर्मा शुचिश्चैव भवत्यमितदीप्तिमान्विमलात्मा च भवति समेत्य विमलात्मना ॥२८॥
केवलात्मा तथा चैव केवलेन समेत्य वैस्वतन्त्रश्च स्वतन्त्रेण स्वतन्त्रत्वमवाप्नुते ॥२९॥
एतावदेतत्कथितं मया ते; तथ्यं महाराज यथार्थतत्त्वम्अमत्सरत्वं प्रतिगृह्य चार्थं; सनातनं ब्रह्म विशुद्धमाद्यम् ॥३०॥
न वेदनिष्ठस्य जनस्य राज;न्प्रदेयमेतत्परमं त्वया भवेत्विवित्समानाय विबोधकारकं; प्रबोधहेतोः प्रणतस्य शासनम् ॥३१॥
न देयमेतच्च तथानृतात्मने; शठाय क्लीबाय न जिह्मबुद्धयेन पण्डितज्ञानपरोपतापिने; देयं त्वयेदं विनिबोध यादृशे ॥३२॥
श्रद्धान्वितायाथ गुणान्विताय; परापवादाद्विरताय नित्यम्विशुद्धयोगाय बुधाय चैव; क्रियावतेऽथ क्षमिणे हिताय ॥३३॥
विविक्तशीलाय विधिप्रियाय; विवादहीनाय बहुश्रुतायविजानते चैव न चाहितक्षमे; दमे च शक्ताय शमे च देहिनाम् ॥३४॥
एतैर्गुणैर्हीनतमे न देय;मेतत्परं ब्रह्म विशुद्धमाहुःन श्रेयसा योक्ष्यति तादृशे कृतं; धर्मप्रवक्तारमपात्रदानात् ॥३५॥
पृथ्वीमिमां यद्यपि रत्नपूर्णां; दद्यान्नदेयं त्विदमव्रतायजितेन्द्रियायैतदसंशयं ते; भवेत्प्रदेयं परमं नरेन्द्र ॥३६॥
कराल मा ते भयमस्तु किंचि;देतच्छ्रुतं ब्रह्म परं त्वयाद्ययथावदुक्तं परमं पवित्रं; निःशोकमत्यन्तमनादिमध्यम् ॥३७॥
अगाधजन्मामरणं च राज;न्निरामयं वीतभयं शिवं चसमीक्ष्य मोहं त्यज चाद्य सर्वं; ज्ञानस्य तत्त्वार्थमिदं विदित्वा ॥३८॥
अवाप्तमेतद्धि पुरा सनातना;द्धिरण्यगर्भाद्गदतो नराधिपप्रसाद्य यत्नेन तमुग्रतेजसं; सनातनं ब्रह्म यथाद्य वै त्वया ॥३९॥
पृष्टस्त्वया चास्मि यथा नरेन्द्र; तथा मयेदं त्वयि चोक्तमद्यतथावाप्तं ब्रह्मणो मे नरेन्द्र; महज्ज्ञानं मोक्षविदां पुराणम् ॥४०॥
भीष्म उवाच
एतदुक्तं परं ब्रह्म यस्मान्नावर्तते पुनःपञ्चविंशो महाराज परमर्षिनिदर्शनात् ॥४१॥
पुनरावृत्तिमाप्नोति परं ज्ञानमवाप्य चनावबुध्यति तत्त्वेन बुध्यमानोऽजरामरः ॥४२॥
एतन्निःश्रेयसकरं ज्ञानानां ते परं मयाकथितं तत्त्वतस्तात श्रुत्वा देवर्षितो नृप ॥४३॥
हिरण्यगर्भादृषिणा वसिष्ठेन महात्मनावसिष्ठादृषिशार्दूलान्नारदोऽवाप्तवानिदम् ॥४४॥
नारदाद्विदितं मह्यमेतद्ब्रह्म सनातनम्मा शुचः कौरवेन्द्र त्वं श्रुत्वैतत्परमं पदम् ॥४५॥
येन क्षराक्षरे वित्ते न भयं तस्य विद्यतेविद्यते तु भयं तस्य यो नैतद्वेत्ति पार्थिव ॥४६॥
अविज्ञानाच्च मूढात्मा पुनः पुनरुपद्रवन्प्रेत्य जातिसहस्राणि मरणान्तान्युपाश्नुते ॥४७॥
देवलोकं तथा तिर्यङ्मानुष्यमपि चाश्नुतेयदि शुध्यति कालेन तस्मादज्ञानसागरात् ॥४८॥
अज्ञानसागरो घोरो ह्यव्यक्तोऽगाध उच्यतेअहन्यहनि मज्जन्ति यत्र भूतानि भारत ॥४९॥
यस्मादगाधादव्यक्तादुत्तीर्णस्त्वं सनातनात्तस्मात्त्वं विरजाश्चैव वितमस्कश्च पार्थिव ॥५०॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 296

0
Adhyaya 296Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0