Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
जनमेजय उवाच
ब्रह्मन्सुमहदाख्यानं भवता परिकीर्तितम्यच्छ्रुत्वा मुनयः सर्वे विस्मयं परमं गताः ॥१॥
इदं शतसहस्राद्धि भारताख्यानविस्तरात्आमथ्य मतिमन्थेन ज्ञानोदधिमनुत्तमम् ॥२॥
नवनीतं यथा दध्नो मलयाच्चन्दनं यथाआरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा ॥३॥
समुद्धृतमिदं ब्रह्मन्कथामृतमनुत्तमम्तपोनिधे त्वयोक्तं हि नारायणकथाश्रयम् ॥४॥
स हीशो भगवान्देवः सर्वभूतात्मभावनःअहो नारायणं तेजो दुर्दर्शं द्विजसत्तम ॥५॥
यत्राविशन्ति कल्पान्ते सर्वे ब्रह्मादयः सुराःऋषयश्च सगन्धर्वा यच्च किंचिच्चराचरम्न ततोऽस्ति परं मन्ये पावनं दिवि चेह च ॥६॥
सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम्न तथा फलदं चापि नारायणकथा यथा ॥७॥
सर्वथा पाविताः स्मेह श्रुत्वेमामादितः कथाम्हरेर्विश्वेश्वरस्येह सर्वपापप्रणाशनीम् ॥८॥
न चित्रं कृतवांस्तत्र यदार्यो मे धनंजयःवासुदेवसहायो यः प्राप्तवाञ्जयमुत्तमम् ॥९॥
न चास्य किंचिदप्राप्यं मन्ये लोकेष्वपि त्रिषुत्रैलोक्यनाथो विष्णुः स यस्यासीत्साह्यकृत्सखा ॥१०॥
धन्याश्च सर्व एवासन्ब्रह्मंस्ते मम पूर्वकाःहिताय श्रेयसे चैव येषामासीज्जनार्दनः ॥११॥
तपसापि न दृश्यो हि भगवाँल्लोकपूजितःयं दृष्टवन्तस्ते साक्षाच्छ्रीवत्साङ्कविभूषणम् ॥१२॥
तेभ्यो धन्यतरश्चैव नारदः परमेष्ठिजःन चाल्पतेजसमृषिं वेद्मि नारदमव्ययम्श्वेतद्वीपं समासाद्य येन दृष्टः स्वयं हरिः ॥१३॥
देवप्रसादानुगतं व्यक्तं तत्तस्य दर्शनम्यद्दृष्टवांस्तदा देवमनिरुद्धतनौ स्थितम् ॥१४॥
बदरीमाश्रमं यत्तु नारदः प्राद्रवत्पुनःनरनारायणौ द्रष्टुं किं नु तत्कारणं मुने ॥१५॥
श्वेतद्वीपान्निवृत्तश्च नारदः परमेष्ठिजःबदरीमाश्रमं प्राप्य समागम्य च तावृषी ॥१६॥
कियन्तं कालमवसत्काः कथाः पृष्टवांश्च सःश्वेतद्वीपादुपावृत्ते तस्मिन्वा सुमहात्मनि ॥१७॥
किमब्रूतां महात्मानौ नरनारायणावृषीतदेतन्मे यथातत्त्वं सर्वमाख्यातुमर्हसि ॥१८॥
वैशंपायन उवाच
नमो भगवते तस्मै व्यासायामिततेजसेयस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम् ॥१९॥
प्राप्य श्वेतं महाद्वीपं दृष्ट्वा च हरिमव्ययम्निवृत्तो नारदो राजंस्तरसा मेरुमागमत्हृदयेनोद्वहन्भारं यदुक्तं परमात्मना ॥२०॥
पश्चादस्याभवद्राजन्नात्मनः साध्वसं महत्यद्गत्वा दूरमध्वानं क्षेमी पुनरिहागतः ॥२१॥
ततो मेरोः प्रचक्राम पर्वतं गन्धमादनम्निपपात च खात्तूर्णं विशालां बदरीमनु ॥२२॥
ततः स ददृशे देवौ पुराणावृषिसत्तमौतपश्चरन्तौ सुमहदात्मनिष्ठौ महाव्रतौ ॥२३॥
तेजसाभ्यधिकौ सूर्यात्सर्वलोकविरोचनात्श्रीवत्सलक्षणौ पूज्यौ जटामण्डलधारिणौ ॥२४॥
जालपादभुजौ तौ तु पादयोश्चक्रलक्षणौव्यूढोरस्कौ दीर्घभुजौ तथा मुष्कचतुष्किणौ ॥२५॥
षष्टिदन्तावष्टदंष्ट्रौ मेघौघसदृशस्वनौस्वास्यौ पृथुललाटौ च सुहनू सुभ्रुनासिकौ ॥२६॥
आतपत्रेण सदृशे शिरसी देवयोस्तयोःएवं लक्षणसंपन्नौ महापुरुषसंज्ञितौ ॥२७॥
तौ दृष्ट्वा नारदो हृष्टस्ताभ्यां च प्रतिपूजितःस्वागतेनाभिभाष्याथ पृष्टश्चानामयं तदा ॥२८॥
बभूवान्तर्गतमतिर्निरीक्ष्य पुरुषोत्तमौसदोगतास्तत्र ये वै सर्वभूतनमस्कृताः ॥२९॥
श्वेतद्वीपे मया दृष्टास्तादृशावृषिसत्तमौइति संचिन्त्य मनसा कृत्वा चाभिप्रदक्षिणम्उपोपविविशे तत्र पीठे कुशमये शुभे ॥३०॥
ततस्तौ तपसां वासौ यशसां तेजसामपिऋषी शमदमोपेतौ कृत्वा पूर्वाह्णिकं विधिम् ॥३१॥
पश्चान्नारदमव्यग्रौ पाद्यार्घ्याभ्यां प्रपूज्य चपीठयोश्चोपविष्टौ तौ कृतातिथ्याह्निकौ नृप ॥३२॥
तेषु तत्रोपविष्टेषु स देशोऽभिव्यराजतआज्याहुतिमहाज्वालैर्यज्ञवाटोऽग्निभिर्यथा ॥३३॥
अथ नारायणस्तत्र नारदं वाक्यमब्रवीत्सुखोपविष्टं विश्रान्तं कृतातिथ्यं सुखस्थितम् ॥३४॥
अपीदानीं स भगवान्परमात्मा सनातनःश्वेतद्वीपे त्वया दृष्ट आवयोः प्रकृतिः परा ॥३५॥
नारद उवाच
दृष्टो मे पुरुषः श्रीमान्विश्वरूपधरोऽव्ययःसर्वे हि लोकास्तत्रस्थास्तथा देवाः सहर्षिभिःअद्यापि चैनं पश्यामि युवां पश्यन्सनातनौ ॥३६॥
यैर्लक्षणैरुपेतः स हरिरव्यक्तरूपधृक्तैर्लक्षणैरुपेतौ हि व्यक्तरूपधरौ युवाम् ॥३७॥
दृष्टौ मया युवां तत्र तस्य देवस्य पार्श्वतःइह चैवागतोऽस्म्यद्य विसृष्टः परमात्मना ॥३८॥
को हि नाम भवेत्तस्य तेजसा यशसा श्रियासदृशस्त्रिषु लोकेषु ऋते धर्मात्मजौ युवाम् ॥३९॥
तेन मे कथितं पूर्वं नाम क्षेत्रज्ञसंज्ञितम्प्रादुर्भावाश्च कथिता भविष्यन्ति हि ये यथा ॥४०॥
तत्र ये पुरुषाः श्वेताः पञ्चेन्द्रियविवर्जिताःप्रतिबुद्धाश्च ते सर्वे भक्ताश्च पुरुषोत्तमम् ॥४१॥
तेऽर्चयन्ति सदा देवं तैः सार्धं रमते च सःप्रियभक्तो हि भगवान्परमात्मा द्विजप्रियः ॥४२॥
रमते सोऽर्च्यमानो हि सदा भागवतप्रियःविश्वभुक्सर्वगो देवो बान्धवो भक्तवत्सलःस कर्ता कारणं चैव कार्यं चातिबलद्युतिः ॥४३॥
तपसा योज्य सोऽऽत्मानं श्वेतद्वीपात्परं हि यत्तेज इत्यभिविख्यातं स्वयंभासावभासितम् ॥४४॥
शान्तिः सा त्रिषु लोकेषु सिद्धानां भावितात्मनाम्एतया शुभया बुद्ध्या नैष्ठिकं व्रतमास्थितः ॥४५॥
न तत्र सूर्यस्तपति न सोमोऽभिविराजतेन वायुर्वाति देवेशे तपश्चरति दुश्चरम् ॥४६॥
वेदीमष्टतलोत्सेधां भूमावास्थाय विश्वभुक्एकपादस्थितो देव ऊर्ध्वबाहुरुदङ्मुखःसाङ्गानावर्तयन्वेदांस्तपस्तेपे सुदुश्चरम् ॥४७॥
यद्ब्रह्मा ऋषयश्चैव स्वयं पशुपतिश्च यत्शेषाश्च विबुधश्रेष्ठा दैत्यदानवराक्षसाः ॥४८॥
नागाः सुपर्णा गन्धर्वाः सिद्धा राजर्षयश्च येहव्यं कव्यं च सततं विधिपूर्वं प्रयुञ्जतेकृत्स्नं तत्तस्य देवस्य चरणावुपतिष्ठति ॥४९॥
याः क्रियाः संप्रयुक्तास्तु एकान्तगतबुद्धिभिःताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम् ॥५०॥
न तस्यान्यः प्रियतरः प्रतिबुद्धैर्महात्मभिःविद्यते त्रिषु लोकेषु ततोऽस्म्यैकान्तिकं गतःइह चैवागतस्तेन विसृष्टः परमात्मना ॥५१॥
एवं मे भगवान्देवः स्वयमाख्यातवान्हरिःआसिष्ये तत्परो भूत्वा युवाभ्यां सह नित्यशः ॥५२॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 331

0
Adhyaya 331Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0