महाभारत, पुस्तक रूप में
॥ ॐ ॥यदि आपको इस मंच का अनुभव अच्छा लगा हो…॥ दान ॥तो कृपया दान करेंइससे ये ग्रंथ सबके लिए खुले और निःशुल्क रहते हैं।दान करेंमहाभारत · शान्ति पर्व
॥ श्रीः ॥
अध्याय 40
महाभारत · शान्ति पर्व
वैशंपायन उवाच
ततः कुन्तीसुतो राजा गतमन्युर्गतज्वरःकाञ्चने प्राङ्मुखो हृष्टो न्यषीदत्परमासने ॥१॥
तमेवाभिमुखौ पीठे सेव्यास्तरणसंवृतेसात्यकिर्वासुदेवश्च निषीदतुररिंदमौ ॥२॥
मध्ये कृत्वा तु राजानं भीमसेनार्जुनावुभौनिषीदतुर्महात्मानौ श्लक्ष्णयोर्मणिपीठयोः ॥३॥
दान्ते शय्यासने शुभ्रे जाम्बूनदविभूषितेपृथापि सहदेवेन सहास्ते नकुलेन च ॥४॥
सुधर्मा विदुरो धौम्यो धृतराष्ट्रश्च कौरवःनिषेदुर्ज्वलनाकारेष्वासनेषु पृथक्पृथक् ॥५॥
युयुत्सुः संजयश्चैव गान्धारी च यशस्विनीधृतराष्ट्रो यतो राजा ततः सर्व उपाविशन् ॥६॥
तत्रोपविष्टो धर्मात्मा श्वेताः सुमनसोऽस्पृशत्स्वस्तिकानक्षतान्भूमिं सुवर्णं रजतं मणीन् ॥७॥
ततः प्रकृतयः सर्वाः पुरस्कृत्य पुरोहितम्ददृशुर्धर्मराजानमादाय बहु मङ्गलम् ॥८॥
पृथिवीं च सुवर्णं च रत्नानि विविधानि चआभिषेचनिकं भाण्डं सर्वसंभारसंभृतम् ॥९॥
काञ्चनौदुम्बरास्तत्र राजताः पृथिवीमयाःपूर्णकुम्भाः सुमनसो लाजा बर्हींषि गोरसाः ॥१०॥
शमीपलाशपुंनागाः समिधो मधुसर्पिषीस्रुव औदुम्बरः शङ्खास्तथा हेमविभूषिताः ॥११॥
दाशार्हेणाभ्यनुज्ञातस्तत्र धौम्यः पुरोहितःप्रागुदक्प्रवणां वेदीं लक्षणेनोपलिप्य ह ॥१२॥
व्याघ्रचर्मोत्तरे श्लक्ष्णे सर्वतोभद्र आसनेदृढपादप्रतिष्ठाने हुताशनसमत्विषि ॥१३॥
उपवेश्य महात्मानं कृष्णां च द्रुपदात्मजाम्जुहाव पावकं धीमान्विधिमन्त्रपुरस्कृतम् ॥१४॥
अभ्यषिञ्चत्पतिं पृथ्व्याः कुन्तीपुत्रं युधिष्ठिरम्धृतराष्ट्रश्च राजर्षिः सर्वाः प्रकृतयस्तथा ॥१५॥
ततोऽनुवादयामासुः पणवानकदुन्दुभीःधर्मराजोऽपि तत्सर्वं प्रतिजग्राह धर्मतः ॥१६॥
पूजयामास तांश्चापि विधिवद्भूरिदक्षिणःततो निष्कसहस्रेण ब्राह्मणान्स्वस्ति वाचयत्वेदाध्ययनसंपन्नाञ्शीलवृत्तसमन्वितान् ॥१७॥
ते प्रीता ब्राह्मणा राजन्स्वस्त्यूचुर्जयमेव चहंसा इव च नर्दन्तः प्रशशंसुर्युधिष्ठिरम् ॥१८॥
युधिष्ठिर महाबाहो दिष्ट्या जयसि पाण्डवदिष्ट्या स्वधर्मं प्राप्तोऽसि विक्रमेण महाद्युते ॥१९॥
दिष्ट्या गाण्डीवधन्वा च भीमसेनश्च पाण्डवःत्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ ॥२०॥
मुक्ता वीरक्षयादस्मात्संग्रामान्निहतद्विषःक्षिप्रमुत्तरकालानि कुरु कार्याणि पाण्डव ॥२१॥
ततः प्रत्यर्चितः सद्भिर्धर्मराजो युधिष्ठिरःप्रतिपेदे महद्राज्यं सुहृद्भिः सह भारत ॥२२॥
अध्याय समाप्त ॥
१

0
पृष्ठ पलटने के लिए कोना खींचें, स्वाइप करें या तीर कुंजियाँ दबाएँ
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0