महाभारत, पुस्तक रूप में
॥ ॐ ॥यदि आपको इस मंच का अनुभव अच्छा लगा हो…॥ दान ॥तो कृपया दान करेंइससे ये ग्रंथ सबके लिए खुले और निःशुल्क रहते हैं।दान करेंमहाभारत · शान्ति पर्व
॥ श्रीः ॥
अध्याय 48
महाभारत · शान्ति पर्व
वैशंपायन उवाच
ततः स च हृषीकेशः स च राजा युधिष्ठिरःकृपादयश्च ते सर्वे चत्वारः पाण्डवाश्च ह ॥१॥
रथैस्ते नगराकारैः पताकाध्वजशोभितैःययुराशु कुरुक्षेत्रं वाजिभिः शीघ्रगामिभिः ॥२॥
तेऽवतीर्य कुरुक्षेत्रं केशमज्जास्थिसंकुलम्देहन्यासः कृतो यत्र क्षत्रियैस्तैर्महात्मभिः ॥३॥
गजाश्वदेहास्थिचयैः पर्वतैरिव संचितम्नरशीर्षकपालैश्च शङ्खैरिव समाचितम् ॥४॥
चितासहस्रैर्निचितं वर्मशस्त्रसमाकुलम्आपानभूमिं कालस्य तदा भुक्तोज्झितामिव ॥५॥
भूतसंघानुचरितं रक्षोगणनिषेवितम्पश्यन्तस्ते कुरुक्षेत्रं ययुराशु महारथाः ॥६॥
गच्छन्नेव महाबाहुः सर्वयादवनन्दनःयुधिष्ठिराय प्रोवाच जामदग्न्यस्य विक्रमम् ॥७॥
अमी रामह्रदाः पञ्च दृश्यन्ते पार्थ दूरतःयेषु संतर्पयामास पूर्वान्क्षत्रियशोणितैः ॥८॥
त्रिःसप्तकृत्वो वसुधां कृत्वा निःक्षत्रियां प्रभुःइहेदानीं ततो रामः कर्मणो विरराम ह ॥९॥
युधिष्ठिर उवाच
त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया तदारामेणेति यदात्थ त्वमत्र मे संशयो महान् ॥१०॥
क्षत्रबीजं यदा दग्धं रामेण यदुपुंगवकथं भूयः समुत्पत्तिः क्षत्रस्यामितविक्रम ॥११॥
महात्मना भगवता रामेण यदुपुंगवकथमुत्सादितं क्षत्रं कथं वृद्धिं पुनर्गतम् ॥१२॥
महाभारतयुद्धे हि कोटिशः क्षत्रिया हताःतथाभूच्च मही कीर्णा क्षत्रियैर्वदतां वर ॥१३॥
एवं मे छिन्धि वार्ष्णेय संशयं तार्क्ष्यकेतनआगमो हि परः कृष्ण त्वत्तो नो वासवानुज ॥१४॥
वैशंपायन उवाच
ततो व्रजन्नेव गदाग्रजः प्रभुः; शशंस तस्मै निखिलेन तत्त्वतःयुधिष्ठिरायाप्रतिमौजसे तदा; यथाभवत्क्षत्रियसंकुला मही ॥१५॥
अध्याय समाप्त ॥
१

0
पृष्ठ पलटने के लिए कोना खींचें, स्वाइप करें या तीर कुंजियाँ दबाएँ
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0