Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
वैशंपायन उवाच
ततः कृष्णस्य तद्वाक्यं धर्मार्थसहितं हितम्श्रुत्वा शांतनवो भीष्मः प्रत्युवाच कृताञ्जलिः ॥१॥
लोकनाथ महाबाहो शिव नारायणाच्युततव वाक्यमभिश्रुत्य हर्षेणास्मि परिप्लुतः ॥२॥
किं चाहमभिधास्यामि वाक्पते तव संनिधौयदा वाचोगतं सर्वं तव वाचि समाहितम् ॥३॥
यद्धि किंचित्कृतं लोके कर्तव्यं क्रियते च यत्त्वत्तस्तन्निःसृतं देव लोका बुद्धिमया हि ते ॥४॥
कथयेद्देवलोकं यो देवराजसमीपतःधर्मकामार्थशास्त्राणां सोऽर्थान्ब्रूयात्तवाग्रतः ॥५॥
शराभिघाताद्व्यथितं मनो मे मधुसूदनगात्राणि चावसीदन्ति न च बुद्धिः प्रसीदति ॥६॥
न च मे प्रतिभा काचिदस्ति किंचित्प्रभाषितुम्पीड्यमानस्य गोविन्द विषानलसमैः शरैः ॥७॥
बलं मेधाः प्रजरति प्राणाः संत्वरयन्ति चमर्माणि परितप्यन्ते भ्रान्तं चेतस्तथैव च ॥८॥
दौर्बल्यात्सज्जते वाङ्मे स कथं वक्तुमुत्सहेसाधु मे त्वं प्रसीदस्व दाशार्हकुलनन्दन ॥९॥
तत्क्षमस्व महाबाहो न ब्रूयां किंचिदच्युतत्वत्संनिधौ च सीदेत वाचस्पतिरपि ब्रुवन् ॥१०॥
न दिशः संप्रजानामि नाकाशं न च मेदिनीम्केवलं तव वीर्येण तिष्ठामि मधुसूदन ॥११॥
स्वयमेव प्रभो तस्माद्धर्मराजस्य यद्धितम्तद्ब्रवीह्याशु सर्वेषामागमानां त्वमागमः ॥१२॥
कथं त्वयि स्थिते लोके शाश्वते लोककर्तरिप्रब्रूयान्मद्विधः कश्चिद्गुरौ शिष्य इव स्थिते ॥१३॥
वासुदेव उवाच
उपपन्नमिदं वाक्यं कौरवाणां धुरंधरेमहावीर्ये महासत्त्वे स्थिते सर्वार्थदर्शिनि ॥१४॥
यच्च मामात्थ गाङ्गेय बाणघातरुजं प्रतिगृहाणात्र वरं भीष्म मत्प्रसादकृतं विभो ॥१५॥
न ते ग्लानिर्न ते मूर्छा न दाहो न च ते रुजाप्रभविष्यन्ति गाङ्गेय क्षुत्पिपासे न चाप्युत ॥१६॥
ज्ञानानि च समग्राणि प्रतिभास्यन्ति तेऽनघन च ते क्वचिदासक्तिर्बुद्धेः प्रादुर्भविष्यति ॥१७॥
सत्त्वस्थं च मनो नित्यं तव भीष्म भविष्यतिरजस्तमोभ्यां रहितं घनैर्मुक्त इवोडुराट् ॥१८॥
यद्यच्च धर्मसंयुक्तमर्थयुक्तमथापि वाचिन्तयिष्यसि तत्राग्र्या बुद्धिस्तव भविष्यति ॥१९॥
इमं च राजशार्दूल भूतग्रामं चतुर्विधम्चक्षुर्दिव्यं समाश्रित्य द्रक्ष्यस्यमितविक्रम ॥२०॥
चतुर्विधं प्रजाजालं संयुक्तो ज्ञानचक्षुषाभीष्म द्रक्ष्यसि तत्त्वेन जले मीन इवामले ॥२१॥
वैशंपायन उवाच
ततस्ते व्याससहिताः सर्व एव महर्षयःऋग्यजुःसामसंयुक्तैर्वचोभिः कृष्णमर्चयन् ॥२२॥
ततः सर्वार्तवं दिव्यं पुष्पवर्षं नभस्तलात्पपात यत्र वार्ष्णेयः सगाङ्गेयः सपाण्डवः ॥२३॥
वादित्राणि च दिव्यानि जगुश्चाप्सरसां गणाःन चाहितमनिष्टं वा किंचित्तत्र व्यदृश्यत ॥२४॥
ववौ शिवः सुखो वायुः सर्वगन्धवहः शुचिःशान्तायां दिशि शान्ताश्च प्रावदन्मृगपक्षिणः ॥२५॥
ततो मुहूर्ताद्भगवान्सहस्रांशुर्दिवाकरःदहन्वनमिवैकान्ते प्रतीच्यां प्रत्यदृश्यत ॥२६॥
ततो महर्षयः सर्वे समुत्थाय जनार्दनम्भीष्ममामन्त्रयां चक्रू राजानं च युधिष्ठिरम् ॥२७॥
ततः प्रणाममकरोत्केशवः पाण्डवस्तथासात्यकिः संजयश्चैव स च शारद्वतः कृपः ॥२८॥
ततस्ते धर्मनिरताः सम्यक्तैरभिपूजिताःश्वः समेष्याम इत्युक्त्वा यथेष्टं त्वरिता ययुः ॥२९॥
तथैवामन्त्र्य गाङ्गेयं केशवस्ते च पाण्डवाःप्रदक्षिणमुपावृत्य रथानारुरुहुः शुभान् ॥३०॥
ततो रथैः काञ्चनदन्तकूबरै;र्महीधराभैः समदैश्च दन्तिभिःहयैः सुपर्णैरिव चाशुगामिभिः; पदातिभिश्चात्तशरासनादिभिः ॥३१॥
ययौ रथानां पुरतो हि सा चमू;स्तथैव पश्चादतिमात्रसारिणीपुरश्च पश्चाच्च यथा महानदी; पुरर्क्षवन्तं गिरिमेत्य नर्मदा ॥३२॥
ततः पुरस्ताद्भगवान्निशाकरः; समुत्थितस्तामभिहर्षयंश्चमूम्दिवाकरापीतरसास्तथौषधीः; पुनः स्वकेनैव गुणेन योजयन् ॥३३॥
ततः पुरं सुरपुरसंनिभद्युति; प्रविश्य ते यदुवृषपाण्डवास्तदायथोचितान्भवनवरान्समाविश;ञ्श्रमान्विता मृगपतयो गुहा इव ॥३४॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 52

0
Adhyaya 52Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0