महाभारत, पुस्तक रूप में
॥ ॐ ॥यदि आपको इस मंच का अनुभव अच्छा लगा हो…॥ दान ॥तो कृपया दान करेंइससे ये ग्रंथ सबके लिए खुले और निःशुल्क रहते हैं।दान करेंमहाभारत · शान्ति पर्व
॥ श्रीः ॥
अध्याय 67
महाभारत · शान्ति पर्व
युधिष्ठिर उवाच
चातुराश्रम्य उक्तोऽत्र चातुर्वर्ण्यस्तथैव चराष्ट्रस्य यत्कृत्यतमं तन्मे ब्रूहि पितामह ॥१॥
भीष्म उवाच
राष्ट्रस्यैतत्कृत्यतमं राज्ञ एवाभिषेचनम्अनिन्द्रमबलं राष्ट्रं दस्यवोऽभिभवन्ति च ॥२॥
अराजकेषु राष्ट्रेषु धर्मो न व्यवतिष्ठतेपरस्परं च खादन्ति सर्वथा धिगराजकम् ॥३॥
इन्द्रमेनं प्रवृणुते यद्राजानमिति श्रुतिःयथैवेन्द्रस्तथा राजा संपूज्यो भूतिमिच्छता ॥४॥
नाराजकेषु राष्ट्रेषु वस्तव्यमिति वैदिकम्नाराजकेषु राष्ट्रेषु हव्यमग्निर्वहत्यपि ॥५॥
अथ चेदभिवर्तेत राज्यार्थी बलवत्तरःअराजकानि राष्ट्राणि हतराजानि वा पुनः ॥६॥
प्रत्युद्गम्याभिपूज्यः स्यादेतदत्र सुमन्त्रितम्न हि पापात्पापतरमस्ति किंचिदराजकात् ॥७॥
स चेत्समनुपश्येत समग्रं कुशलं भवेत्बलवान्हि प्रकुपितः कुर्यान्निःशेषतामपि ॥८॥
भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहासुदुहा या तु भवति नैव तां क्लेशयन्त्युत ॥९॥
यदतप्तं प्रणमति न तत्संतापयन्त्युतयच्च स्वयं नतं दारु न तत्संनामयन्त्यपि ॥१०॥
एतयोपमया धीरः संनमेत बलीयसेइन्द्राय स प्रणमते नमते यो बलीयसे ॥११॥
तस्माद्राजैव कर्तव्यः सततं भूतिमिच्छतान धनार्थो न दारार्थस्तेषां येषामराजकम् ॥१२॥
प्रीयते हि हरन्पापः परवित्तमराजकेयदास्य उद्धरन्त्यन्ये तदा राजानमिच्छति ॥१३॥
पापा अपि तदा क्षेमं न लभन्ते कदाचनएकस्य हि द्वौ हरतो द्वयोश्च बहवोऽपरे ॥१४॥
अदासः क्रियते दासो ह्रियन्ते च बलात्स्त्रियःएतस्मात्कारणाद्देवाः प्रजापालान्प्रचक्रिरे ॥१५॥
राजा चेन्न भवेल्लोके पृथिव्यां दण्डधारकःशूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः ॥१६॥
अराजकाः प्रजाः पूर्वं विनेशुरिति नः श्रुतम्परस्परं भक्षयन्तो मत्स्या इव जले कृशान् ॥१७॥
ताः समेत्य ततश्चक्रुः समयानिति नः श्रुतम्वाक्क्रूरो दण्डपुरुषो यश्च स्यात्पारदारिकःयश्च न स्वमथादद्यात्त्याज्या नस्तादृशा इति ॥१८॥
विश्वासनार्थं वर्णानां सर्वेषामविशेषतःतास्तथा समयं कृत्वा समये नावतस्थिरे ॥१९॥
सहितास्तास्तदा जग्मुरसुखार्ताः पितामहम्अनीश्वरा विनश्यामो भगवन्नीश्वरं दिश ॥२०॥
यं पूजयेम संभूय यश्च नः परिपालयेत्ताभ्यो मनुं व्यादिदेश मनुर्नाभिननन्द ताः ॥२१॥
मनुरुवाचबिभेमि कर्मणः क्रूराद्राज्यं हि भृशदुष्करम्विशेषतो मनुष्येषु मिथ्यावृत्तिषु नित्यदा ॥२२॥
भीष्म उवाच
तमब्रुवन्प्रजा मा भैः कर्मणैनो गमिष्यतिपशूनामधिपञ्चाशद्धिरण्यस्य तथैव चधान्यस्य दशमं भागं दास्यामः कोशवर्धनम् ॥२३॥
मुख्येन शस्त्रपत्रेण ये मनुष्याः प्रधानतःभवन्तं तेऽनुयास्यन्ति महेन्द्रमिव देवताः ॥२४॥
स त्वं जातबलो राजन्दुष्प्रधर्षः प्रतापवान्सुखे धास्यसि नः सर्वान्कुबेर इव नैरृतान् ॥२५॥
यं च धर्मं चरिष्यन्ति प्रजा राज्ञा सुरक्षिताःचतुर्थं तस्य धर्मस्य त्वत्संस्थं नो भविष्यति ॥२६॥
तेन धर्मेण महता सुखलब्धेन भावितःपाह्यस्मान्सर्वतो राजन्देवानिव शतक्रतुः ॥२७॥
विजयायाशु निर्याहि प्रतपन्रश्मिमानिवमानं विधम शत्रूणां धर्मो जयतु नः सदा ॥२८॥
स निर्ययौ महातेजा बलेन महता वृतःमहाभिजनसंपन्नस्तेजसा प्रज्वलन्निव ॥२९॥
तस्य तां महिमां दृष्ट्वा महेन्द्रस्येव देवताःअपतत्रसिरे सर्वे स्वधर्मे च दधुर्मनः ॥३०॥
ततो महीं परिययौ पर्जन्य इव वृष्टिमान्शमयन्सर्वतः पापान्स्वकर्मसु च योजयन् ॥३१॥
एवं ये भूतिमिच्छेयुः पृथिव्यां मानवाः क्वचित्कुर्यू राजानमेवाग्रे प्रजानुग्रहकारणात् ॥३२॥
नमस्येयुश्च तं भक्त्या शिष्या इव गुरुं सदादेवा इव सहस्राक्षं प्रजा राजानमन्तिके ॥३३॥
सत्कृतं स्वजनेनेह परोऽपि बहु मन्यतेस्वजनेन त्ववज्ञातं परे परिभवन्त्युत ॥३४॥
राज्ञः परैः परिभवः सर्वेषामसुखावहःतस्माच्छत्रं च पत्रं च वासांस्याभरणानि च ॥३५॥
भोजनान्यथ पानानि राज्ञे दद्युर्गृहाणि चआसनानि च शय्याश्च सर्वोपकरणानि च ॥३६॥
गुप्तात्मा स्याद्दुराधर्षः स्मितपूर्वाभिभाषिताआभाषितश्च मधुरं प्रतिभाषेत मानवान् ॥३७॥
कृतज्ञो दृढभक्तिः स्यात्संविभागी जितेन्द्रियःईक्षितः प्रतिवीक्षेत मृदु चर्जु च वल्गु च ॥३८॥
अध्याय समाप्त ॥
१

0
पृष्ठ पलटने के लिए कोना खींचें, स्वाइप करें या तीर कुंजियाँ दबाएँ
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0