Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
युधिष्ठिर उवाच
केषां राजा प्रभवति वित्तस्य भरतर्षभकया च वृत्त्या वर्तेत तन्मे ब्रूहि पितामह ॥१॥
भीष्म उवाच
अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम्ब्राह्मणानां च ये केचिद्विकर्मस्था भवन्त्युत ॥२॥
विकर्मस्थाश्च नोपेक्ष्या विप्रा राज्ञा कथंचनइति राज्ञां पुरावृत्तमभिजल्पन्ति साधवः ॥३॥
यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजःराज्ञ एवापराधं तं मन्यन्ते किल्बिषं नृप ॥४॥
अभिशस्तमिवात्मानं मन्यन्ते तेन कर्मणातस्माद्राजर्षयः सर्वे ब्राह्मणानन्वपालयन् ॥५॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्गीतं केकयराजेन ह्रियमाणेन रक्षसा ॥६॥
केकयानामधिपतिं रक्षो जग्राह दारुणम्स्वाध्यायेनान्वितं राजन्नरण्ये संशितव्रतम् ॥७॥
राजोवाचन मे स्तेनो जनपदे न कदर्यो न मद्यपःनानाहिताग्निर्नायज्वा मामकान्तरमाविशः ॥८॥
न च मे ब्राह्मणोऽविद्वान्नाव्रती नाप्यसोमपःनानाहिताग्निर्विषये मामकान्तरमाविशः ॥९॥
नानाप्तदक्षिणैर्यज्ञैर्यजन्ते विषये ममअधीते नाव्रती कश्चिन्मामकान्तरमाविशः ॥१०॥
अधीयतेऽध्यापयन्ति यजन्ते याजयन्ति चददति प्रतिगृह्णन्ति षट्सु कर्मस्ववस्थिताः ॥११॥
पूजिताः संविभक्ताश्च मृदवः सत्यवादिनःब्राह्मणा मे स्वकर्मस्था मामकान्तरमाविशः ॥१२॥
न याचन्ते प्रयच्छन्ति सत्यधर्मविशारदाःनाध्यापयन्त्यधीयन्ते यजन्ते न च याजकाः ॥१३॥
ब्राह्मणान्परिरक्षन्ति संग्रामेष्वपलायिनःक्षत्रिया मे स्वकर्मस्था मामकान्तरमाविशः ॥१४॥
कृषिगोरक्षवाणिज्यमुपजीवन्त्यमाययाअप्रमत्ताः क्रियावन्तः सुव्रताः सत्यवादिनः ॥१५॥
संविभागं दमं शौचं सौहृदं च व्यपाश्रिताःमम वैश्याः स्वकर्मस्था मामकान्तरमाविशः ॥१६॥
त्रीन्वर्णाननुतिष्ठन्ति यथावदनसूयकाःमम शूद्राः स्वकर्मस्था मामकान्तरमाविशः ॥१७॥
कृपणानाथवृद्धानां दुर्बलातुरयोषिताम्संविभक्तास्मि सर्वेषां मामकान्तरमाविशः ॥१८॥
कुलदेशादिधर्माणां प्रथितानां यथाविधिअव्युच्छेत्तास्मि सर्वेषां मामकान्तरमाविशः ॥१९॥
तपस्विनो मे विषये पूजिताः परिपालिताःसंविभक्ताश्च सत्कृत्य मामकान्तरमाविशः ॥२०॥
नासंविभज्य भोक्तास्मि न विशामि परस्त्रियम्स्वतन्त्रो जातु न क्रीडे मामकान्तरमाविशः ॥२१॥
नाब्रह्मचारी भिक्षावान्भिक्षुर्वाब्रह्मचारिकःअनृत्विजं हुतं नास्ति मामकान्तरमाविशः ॥२२॥
नावजानाम्यहं वृद्धान्न वैद्यान्न तपस्विनःराष्ट्रे स्वपति जागर्मि मामकान्तरमाविशः ॥२३॥
वेदाध्ययनसंपन्नस्तपस्वी सर्वधर्मवित्स्वामी सर्वस्य राज्यस्य श्रीमान्मम पुरोहितः ॥२४॥
दानेन दिव्यानभिवाञ्छामि लोका;न्सत्येनाथो ब्राह्मणानां च गुप्त्याशुश्रूषया चापि गुरूनुपैमि; न मे भयं विद्यते राक्षसेभ्यः ॥२५॥
न मे राष्ट्रे विधवा ब्रह्मबन्धु;र्न ब्राह्मणः कृपणो नोत चोरःन पारजायी न च पापकर्मा; न मे भयं विद्यते राक्षसेभ्यः ॥२६॥
न मे शस्त्रैरनिर्भिन्नमङ्गे द्व्यङ्गुलमन्तरम्धर्मार्थं युध्यमानस्य मामकान्तरमाविशः ॥२७॥
गोब्राह्मणे च यज्ञे च नित्यं स्वस्त्ययनं ममआशासते जना राष्ट्रे मामकान्तरमाविशः ॥२८॥
राक्षस उवाच
यस्मात्सर्वास्ववस्थासु धर्ममेवान्ववेक्षसेतस्मात्प्राप्नुहि कैकेय गृहान्स्वस्ति व्रजाम्यहम् ॥२९॥
येषां गोब्राह्मणा रक्ष्याः प्रजा रक्ष्याश्च केकयन रक्षोभ्यो भयं तेषां कुत एव तु मानुषात् ॥३०॥
येषां पुरोगमा विप्रा येषां ब्रह्मबलं बलम्प्रियातिथ्यास्तथा दारास्ते वै स्वर्गजितो नराः ॥३१॥
भीष्म उवाच
तस्माद्द्विजातीन्रक्षेत ते हि रक्षन्ति रक्षिताःआशीरेषां भवेद्राज्ञां राष्ट्रं सम्यक्प्रवर्धते ॥३२॥
तस्माद्राज्ञा विशेषेण विकर्मस्था द्विजातयःनियम्याः संविभज्याश्च प्रजानुग्रहकारणात् ॥३३॥
य एवं वर्तते राजा पौरजानपदेष्विहअनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम् ॥३४॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 78

0
Adhyaya 78Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0