Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
युधिष्ठिर उवाच
मुहूर्तं तावदेकाग्रो मनःश्रोत्रेऽन्तरात्मनिधारयित्वापि ते श्रुत्वा रोचतां वचनं मम ॥१॥
सार्थगम्यमहं मार्गं न जातु त्वत्कृते पुनःगच्छेयं तद्गमिष्यामि हित्वा ग्राम्यसुखान्युत ॥२॥
क्षेम्यश्चैकाकिना गम्यः पन्थाः कोऽस्तीति पृच्छ माम्अथ वा नेच्छसि प्रष्टुमपृच्छन्नपि मे शृणु ॥३॥
हित्वा ग्राम्यसुखाचारं तप्यमानो महत्तपःअरण्ये फलमूलाशी चरिष्यामि मृगैः सह ॥४॥
जुह्वानोऽग्निं यथाकालमुभौ कालावुपस्पृशन्कृशः परिमिताहारश्चर्मचीरजटाधरः ॥५॥
शीतवातातपसहः क्षुत्पिपासाश्रमक्षमःतपसा विधिदृष्टेन शरीरमुपशोषयन् ॥६॥
मनःकर्णसुखा नित्यं शृण्वन्नुच्चावचा गिरःमुदितानामरण्येषु वसतां मृगपक्षिणाम् ॥७॥
आजिघ्रन्पेशलान्गन्धान्फुल्लानां वृक्षवीरुधाम्नानारूपान्वने पश्यन्रमणीयान्वनौकसः ॥८॥
वानप्रस्थजनस्यापि दर्शनं कुलवासिनःनाप्रियाण्याचरिष्यामि किं पुनर्ग्रामवासिनाम् ॥९॥
एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन्पितॄन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन् ॥१०॥
एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम्सेवमानः प्रतीक्षिष्ये देहस्यास्य समापनम् ॥११॥
अथ वैकोऽहमेकाहमेकैकस्मिन्वनस्पतौचरन्भैक्ष्यं मुनिर्मुण्डः क्षपयिष्ये कलेवरम् ॥१२॥
पांसुभिः समवच्छन्नः शून्यागारप्रतिश्रयःवृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ॥१३॥
न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिःनिराशीर्निर्ममो भूत्वा निर्द्वंद्वो निष्परिग्रहः ॥१४॥
आत्मारामः प्रसन्नात्मा जडान्धबधिराकृतिःअकुर्वाणः परैः कांचित्संविदं जातु केनचित् ॥१५॥
जङ्गमाजङ्गमान्सर्वान्नविहिंसंश्चतुर्विधान्प्रजाः सर्वाः स्वधर्मस्थाः समः प्राणभृतः प्रति ॥१६॥
न चाप्यवहसन्कंचिन्न कुर्वन्भ्रुकुटीं क्वचित्प्रसन्नवदनो नित्यं सर्वेन्द्रियसुसंयतः ॥१७॥
अपृच्छन्कस्यचिन्मार्गं व्रजन्येनैव केनचित्न देशं न दिशं कांचिद्गन्तुमिच्छन्विशेषतः ॥१८॥
गमने निरपेक्षश्च पश्चादनवलोकयन्ऋजुः प्रणिहितो गच्छंस्त्रसस्थावरवर्जकः ॥१९॥
स्वभावस्तु प्रयात्यग्रे प्रभवन्त्यशनान्यपिद्वंद्वानि च विरुद्धानि तानि सर्वाण्यचिन्तयन् ॥२०॥
अल्पं वास्वादु वा भोज्यं पूर्वालाभेन जातु चित्अन्येष्वपि चरँल्लाभमलाभे सप्त पूरयन् ॥२१॥
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जनेअतीतपात्रसंचारे काले विगतभिक्षुके ॥२२॥
एककालं चरन्भैक्ष्यं गृहे द्वे चैव पञ्च चस्पृहापाशान्विमुच्याहं चरिष्यामि महीमिमाम् ॥२३॥
न जिजीविषुवत्किंचिन्न मुमूर्षुवदाचरन्जीवितं मरणं चैव नाभिनन्दन्न च द्विषन् ॥२४॥
वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतःनाकल्याणं न कल्याणं चिन्तयन्नुभयोस्तयोः ॥२५॥
याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाःसर्वास्ताः समभित्यज्य निमेषादिव्यवस्थितः ॥२६॥
तेषु नित्यमसक्तश्च त्यक्तसर्वेन्द्रियक्रियःसुपरित्यक्तसंकल्पः सुनिर्णिक्तात्मकल्मषः ॥२७॥
विमुक्तः सर्वसङ्गेभ्यो व्यतीतः सर्ववागुराःन वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः ॥२८॥
वीतरागश्चरन्नेवं तुष्टिं प्राप्स्यामि शाश्वतीम्तृष्णया हि महत्पापमज्ञानादस्मि कारितः ॥२९॥
कुशलाकुशलान्येके कृत्वा कर्माणि मानवाःकार्यकारणसंश्लिष्टं स्वजनं नाम बिभ्रति ॥३०॥
आयुषोऽन्ते प्रहायेदं क्षीणप्रायं कलेवरम्प्रतिगृह्णाति तत्पापं कर्तुः कर्मफलं हि तत् ॥३१॥
एवं संसारचक्रेऽस्मिन्व्याविद्धे रथचक्रवत्समेति भूतग्रामोऽयं भूतग्रामेण कार्यवान् ॥३२॥
जन्ममृत्युजराव्याधिवेदनाभिरुपद्रुतम्असारमिममस्वन्तं संसारं त्यजतः सुखम् ॥३३॥
दिवः पतत्सु देवेषु स्थानेभ्यश्च महर्षिषुको हि नाम भवेनार्थी भवेत्कारणतत्त्ववित् ॥३४॥
कृत्वा हि विविधं कर्म तत्तद्विविधलक्षणम्पार्थिवैर्नृपतिः स्वल्पैः कारणैरेव बध्यते ॥३५॥
तस्मात्प्रज्ञामृतमिदं चिरान्मां प्रत्युपस्थितम्तत्प्राप्य प्रार्थये स्थानमव्ययं शाश्वतं ध्रुवम् ॥३६॥
एतया सततं वृत्त्या चरन्नेवंप्रकारयादेहं संस्थापयिष्यामि निर्भयं मार्गमास्थितः ॥३७॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 9

0
Adhyaya 9Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0