Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
वैशंपायन उवाच
तूष्णींभूते तदा भीष्मे पटे चित्रमिवार्पितम्मुहूर्तमिव च ध्यात्वा व्यासः सत्यवतीसुतःनृपं शयानं गाङ्गेयमिदमाह वचस्तदा ॥१॥
राजन्प्रकृतिमापन्नः कुरुराजो युधिष्ठिरःसहितो भ्रातृभिः सर्वैः पार्थिवैश्चानुयायिभिः ॥२॥
उपास्ते त्वां नरव्याघ्र सह कृष्णेन धीमतातमिमं पुरयानाय त्वमनुज्ञातुमर्हसि ॥३॥
एवमुक्तो भगवता व्यासेन पृथिवीपतिःयुधिष्ठिरं सहामात्यमनुजज्ञे नदीसुतः ॥४॥
उवाच चैनं मधुरं ततः शांतनवो नृपःप्रविशस्व पुरं राजन्व्येतु ते मानसो ज्वरः ॥५॥
यजस्व विविधैर्यज्ञैर्बह्वन्नैः स्वाप्तदक्षिणैःययातिरिव राजेन्द्र श्रद्धादमपुरःसरः ॥६॥
क्षत्रधर्मरतः पार्थ पितॄन्देवांश्च तर्पयश्रेयसा योक्ष्यसे चैव व्येतु ते मानसो ज्वरः ॥७॥
रञ्जयस्व प्रजाः सर्वाः प्रकृतीः परिसान्त्वयसुहृदः फलसत्कारैरभ्यर्चय यथार्हतः ॥८॥
अनु त्वां तात जीवन्तु मित्राणि सुहृदस्तथाचैत्यस्थाने स्थितं वृक्षं फलवन्तमिव द्विजाः ॥९॥
आगन्तव्यं च भवता समये मम पार्थिवविनिवृत्ते दिनकरे प्रवृत्ते चोत्तरायणे ॥१०॥
तथेत्युक्त्वा तु कौन्तेयः सोऽभिवाद्य पितामहम्प्रययौ सपरीवारो नगरं नागसाह्वयम् ॥११॥
धृतराष्ट्रं पुरस्कृत्य गान्धारीं च पतिव्रताम्सह तैरृषिभिः सर्वैर्भ्रातृभिः केशवेन च ॥१२॥
पौरजानपदैश्चैव मन्त्रिवृद्धैश्च पार्थिवःप्रविवेश कुरुश्रेष्ठ पुरं वारणसाह्वयम् ॥१३॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 152

0
Adhyaya 152Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0