महाभारत, पुस्तक रूप में
॥ ॐ ॥यदि आपको इस मंच का अनुभव अच्छा लगा हो…॥ दान ॥तो कृपया दान करेंइससे ये ग्रंथ सबके लिए खुले और निःशुल्क रहते हैं।दान करेंमहाभारत · अनुशासन पर्व
॥ श्रीः ॥
अध्याय 68
महाभारत · अनुशासन पर्व
युधिष्ठिर उवाच
भूय एव कुरुश्रेष्ठ दानानां विधिमुत्तमम्कथयस्व महाप्राज्ञ भूमिदानं विशेषतः ॥१॥
पृथिवीं क्षत्रियो दद्याद्ब्राह्मणस्तां स्वकर्मणाविधिवत्प्रतिगृह्णीयान्न त्वन्यो दातुमर्हति ॥२॥
सर्ववर्णैस्तु यच्छक्यं प्रदातुं फलकाङ्क्षिभिःवेदे वा यत्समाम्नातं तन्मे व्याख्यातुमर्हसि ॥३॥
भीष्म उवाच
तुल्यनामानि देयानि त्रीणि तुल्यफलानि चसर्वकामफलानीह गावः पृथ्वी सरस्वती ॥४॥
यो ब्रूयाच्चापि शिष्याय धर्म्यां ब्राह्मीं सरस्वतीम्पृथिवीगोप्रदानाभ्यां स तुल्यं फलमश्नुते ॥५॥
तथैव गाः प्रशंसन्ति न च देयं ततः परम्संनिकृष्टफलास्ता हि लघ्वर्थाश्च युधिष्ठिरमातरः सर्वभूतानां गावः सर्वसुखप्रदाः ॥६॥
वृद्धिमाकाङ्क्षता नित्यं गावः कार्याः प्रदक्षिणाःमङ्गलायतनं देव्यस्तस्मात्पूज्याः सदैव हि ॥७॥
प्रचोदनं देवकृतं गवां कर्मसु वर्तताम्पूर्वमेवाक्षरं नान्यदभिधेयं कथंचन ॥८॥
प्रचारे वा निपाने वा बुधो नोद्वेजयेत गाःतृषिता ह्यभिवीक्षन्त्यो नरं हन्युः सबान्धवम् ॥९॥
पितृसद्मानि सततं देवतायतनानि चपूयन्ते शकृता यासां पूतं किमधिकं ततः ॥१०॥
ग्रासमुष्टिं परगवे दद्यात्संवत्सरं तु यःअकृत्वा स्वयमाहारं व्रतं तत्सार्वकामिकम् ॥११॥
स हि पुत्रान्यशोर्थं च श्रियं चाप्यधिगच्छतिनाशयत्यशुभं चैव दुःस्वप्नं च व्यपोहति ॥१२॥
युधिष्ठिर उवाच
देयाः किंलक्षणा गावः काश्चापि परिवर्जयेत्कीदृशाय प्रदातव्या न देयाः कीदृशाय च ॥१३॥
भीष्म उवाच
असद्वृत्ताय पापाय लुब्धायानृतवादिनेहव्यकव्यव्यपेताय न देया गौः कथंचन ॥१४॥
भिक्षवे बहुपुत्राय श्रोत्रियायाहिताग्नयेदत्त्वा दशगवां दाता लोकानाप्नोत्यनुत्तमान् ॥१५॥
यं चैव धर्मं कुरुते तस्य पुण्यफलं च यत्सर्वस्यैवांशभाग्दाता तन्निमित्तं प्रवृत्तयः ॥१६॥
यश्चैनमुत्पादयति यश्चैनं त्रायते भयात्यश्चास्य कुरुते वृत्तिं सर्वे ते पितरस्त्रयः ॥१७॥
कल्मषं गुरुशुश्रूषा हन्ति मानो महद्यशःअपुत्रतां त्रयः पुत्रा अवृत्तिं दश धेनवः ॥१८॥
वेदान्तनिष्ठस्य बहुश्रुतस्य; प्रज्ञानतृप्तस्य जितेन्द्रियस्यशिष्टस्य दान्तस्य यतस्य चैव; भूतेषु नित्यं प्रियवादिनश्च ॥१९॥
यः क्षुद्भयाद्वै न विकर्म कुर्या;न्मृदुर्दान्तश्चातिथेयश्च नित्यम्वृत्तिं विप्रायातिसृजेत तस्मै; यस्तुल्यशीलश्च सपुत्रदारः ॥२०॥
शुभे पात्रे ये गुणा गोप्रदाने; तावान्दोषो ब्राह्मणस्वापहारेसर्वावस्थं ब्राह्मणस्वापहारो; दाराश्चैषां दूरतो वर्जनीयाः ॥२१॥
अध्याय समाप्त ॥
१

0
पृष्ठ पलटने के लिए कोना खींचें, स्वाइप करें या तीर कुंजियाँ दबाएँ
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0