Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
ब्रह्मोवाचयोऽयं प्रश्नस्त्वया पृष्टो गोप्रदानाधिकारवान्नास्य प्रष्टास्ति लोकेऽस्मिंस्त्वत्तोऽन्यो हि शतक्रतो ॥१॥
सन्ति नानाविधा लोका यांस्त्वं शक्र न पश्यसिपश्यामि यानहं लोकानेकपत्न्यश्च याः स्त्रियः ॥२॥
कर्मभिश्चापि सुशुभैः सुव्रता ऋषयस्तथासशरीरा हि तान्यान्ति ब्राह्मणाः शुभवृत्तयः ॥३॥
शरीरन्यासमोक्षेण मनसा निर्मलेन चस्वप्नभूतांश्च ताँल्लोकान्पश्यन्तीहापि सुव्रताः ॥४॥
ते तु लोकाः सहस्राक्ष शृणु यादृग्गुणान्विताःन तत्र क्रमते कालो न जरा न च पापकम्तथान्यन्नाशुभं किंचिन्न व्याधिस्तत्र न क्लमः ॥५॥
यद्यच्च गावो मनसा तस्मिन्वाञ्छन्ति वासवतत्सर्वं प्रापयन्ति स्म मम प्रत्यक्षदर्शनात्कामगाः कामचारिण्यः कामात्कामांश्च भुञ्जते ॥६॥
वाप्यः सरांसि सरितो विविधानि वनानि चगृहाणि पर्वताश्चैव यावद्द्रव्यं च किंचन ॥७॥
मनोज्ञं सर्वभूतेभ्यः सर्वं तत्र प्रदृश्यतेईदृशान्विद्धि ताँल्लोकान्नास्ति लोकस्ततोऽधिकः ॥८॥
तत्र सर्वसहाः क्षान्ता वत्सला गुरुवर्तिनःअहंकारैर्विरहिता यान्ति शक्र नरोत्तमाः ॥९॥
यः सर्वमांसानि न भक्षयीत; पुमान्सदा यावदन्ताय युक्तःमातापित्रोरर्चिता सत्ययुक्तः; शुश्रूषिता ब्राह्मणानामनिन्द्यः ॥१०॥
अक्रोधनो गोषु तथा द्विजेषु; धर्मे रतो गुरुशुश्रूषकश्चयावज्जीवं सत्यवृत्ते रतश्च; दाने रतो यः क्षमी चापराधे ॥११॥
मृदुर्दान्तो देवपरायणश्च; सर्वातिथिश्चापि तथा दयावान्ईदृग्गुणो मानवः संप्रयाति; लोकं गवां शाश्वतं चाव्ययं च ॥१२॥
न पारदारी पश्यति लोकमेनं; न वै गुरुघ्नो न मृषाप्रलापीसदापवादी ब्राह्मणः शान्तवेदो; दोषैरन्यैर्यश्च युक्तो दुरात्मा ॥१३॥
न मित्रध्रुङ्नैकृतिकः कृतघ्नः; शठोऽनृजुर्धर्मविद्वेषकश्चन ब्रह्महा मनसापि प्रपश्ये;द्गवां लोकं पुण्यकृतां निवासम् ॥१४॥
एतत्ते सर्वमाख्यातं नैपुणेन सुरेश्वरगोप्रदानरतानां तु फलं शृणु शतक्रतो ॥१५॥
दायाद्यलब्धैरर्थैर्यो गाः क्रीत्वा संप्रयच्छतिधर्मार्जितधनक्रीतान्स लोकानश्नुतेऽक्षयान् ॥१६॥
यो वै द्यूते धनं जित्वा गाः क्रीत्वा संप्रयच्छतिस दिव्यमयुतं शक्र वर्षाणां फलमश्नुते ॥१७॥
दायाद्या यस्य वै गावो न्यायपूर्वैरुपार्जिताःप्रदत्तास्ताः प्रदातॄणां संभवन्त्यक्षया ध्रुवाः ॥१८॥
प्रतिगृह्य च यो दद्याद्गाः सुशुद्धेन चेतसातस्यापीहाक्षयाँल्लोकान्ध्रुवान्विद्धि शचीपते ॥१९॥
जन्मप्रभृति सत्यं च यो ब्रूयान्नियतेन्द्रियःगुरुद्विजसहः क्षान्तस्तस्य गोभिः समा गतिः ॥२०॥
न जातु ब्राह्मणो वाच्यो यदवाच्यं शचीपतेमनसा गोषु न द्रुह्येद्गोवृत्तिर्गोनुकम्पकः ॥२१॥
सत्ये धर्मे च निरतस्तस्य शक्र फलं शृणुगोसहस्रेण समिता तस्य धेनुर्भवत्युत ॥२२॥
क्षत्रियस्य गुणैरेभिरन्वितस्य फलं शृणुतस्यापि शततुल्या गौर्भवतीति विनिश्चयः ॥२३॥
वैश्यस्यैते यदि गुणास्तस्य पञ्चाशतं भवेत्शूद्रस्यापि विनीतस्य चतुर्भागफलं स्मृतम् ॥२४॥
एतच्चैवं योऽनुतिष्ठेत युक्तः; सत्येन युक्तो गुरुशुश्रूषया चदान्तः क्षान्तो देवतार्ची प्रशान्तः; शुचिर्बुद्धो धर्मशीलोऽनहंवाक् ॥२५॥
महत्फलं प्राप्नुते स द्विजाय; दत्त्वा दोग्ध्रीं विधिनानेन धेनुम्नित्यं दद्यादेकभक्तः सदा च; सत्ये स्थितो गुरुशुश्रूषिता च ॥२६॥
वेदाध्यायी गोषु यो भक्तिमांश्च; नित्यं दृष्ट्वा योऽभिनन्देत गाश्चआ जातितो यश्च गवां नमेत; इदं फलं शक्र निबोध तस्य ॥२७॥
यत्स्यादिष्ट्वा राजसूये फलं तु; यत्स्यादिष्ट्वा बहुना काञ्चनेनएतत्तुल्यं फलमस्याहुरग्र्यं; सर्वे सन्तस्त्वृषयो ये च सिद्धाः ॥२८॥
योऽग्रं भक्तान्किंचिदप्राश्य दद्या;द्गोभ्यो नित्यं गोव्रती सत्यवादीशान्तो बुद्धो गोसहस्रस्य पुण्यं; संवत्सरेणाप्नुयात्पुण्यशीलः ॥२९॥
य एकं भक्तमश्नीयाद्दद्यादेकं गवां च यत्दश वर्षाण्यनन्तानि गोव्रती गोनुकम्पकः ॥३०॥
एकेनैव च भक्तेन यः क्रीत्वा गां प्रयच्छतियावन्ति तस्य प्रोक्तानि दिवसानि शतक्रतोतावच्छतानां स गवां फलमाप्नोति शाश्वतम् ॥३१॥
ब्राह्मणस्य फलं हीदं क्षत्रियेऽभिहितं शृणुपञ्चवार्षिकमेतत्तु क्षत्रियस्य फलं स्मृतम्ततोऽर्धेन तु वैश्यस्य शूद्रो वैश्यार्धतः स्मृतः ॥३२॥
यश्चात्मविक्रयं कृत्वा गाः क्रीत्वा संप्रयच्छतियावतीः स्पर्शयेद्गा वै तावत्तु फलमश्नुतेलोम्नि लोम्नि महाभाग लोकाश्चास्याक्षयाः स्मृताः ॥३३॥
संग्रामेष्वर्जयित्वा तु यो वै गाः संप्रयच्छतिआत्मविक्रयतुल्यास्ताः शाश्वता विद्धि कौशिक ॥३४॥
अलाभे यो गवां दद्यात्तिलधेनुं यतव्रतःदुर्गात्स तारितो धेन्वा क्षीरनद्यां प्रमोदते ॥३५॥
न त्वेवासां दानमात्रं प्रशस्तं; पात्रं कालो गोविशेषो विधिश्चकालज्ञानं विप्र गवान्तरं हि; दुःखं ज्ञातुं पावकादित्यभूतम् ॥३६॥
स्वाध्यायाढ्यं शुद्धयोनिं प्रशान्तं; वैतानस्थं पापभीरुं कृतज्ञम्गोषु क्षान्तं नातितीक्ष्णं शरण्यं; वृत्तिग्लानं तादृशं पात्रमाहुः ॥३७॥
वृत्तिग्लाने सीदति चातिमात्रं; कृष्यर्थं वा होमहेतोः प्रसूत्याम्गुर्वर्थं वा बालसंवृद्धये वा; धेनुं दद्याद्देशकाले विशिष्टे ॥३८॥
अन्तर्जाताः सुक्रयज्ञानलब्धाः; प्राणक्रीता निर्जिताश्चौकजाश्चकृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च; द्वारैरेतैर्गोविशेषाः प्रशस्ताः ॥३९॥
बलान्विताः शीलवयोपपन्नाः; सर्वाः प्रशंसन्ति सुगन्धवत्यःयथा हि गङ्गा सरितां वरिष्ठा; तथार्जुनीनां कपिला वरिष्ठा ॥४०॥
तिस्रो रात्रीस्त्वद्भिरुपोष्य भूमौ; तृप्ता गावस्तर्पितेभ्यः प्रदेयाःवत्सैः पुष्टैः क्षीरपैः सुप्रचारा;स्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम् ॥४१॥
दत्त्वा धेनुं सुव्रतां साधुवत्सां; कल्याणवृत्तामपलायिनीं चयावन्ति लोमानि भवन्ति तस्या;स्तावन्ति वर्षाणि वसत्यमुत्र ॥४२॥
तथानड्वाहं ब्राह्मणायाथ धुर्यं; दत्त्वा युवानं बलिनं विनीतम्हलस्य वोढारमनन्तवीर्यं; प्राप्नोति लोकान्दशधेनुदस्य ॥४३॥
कान्तारे ब्राह्मणान्गाश्च यः परित्राति कौशिकक्षेमेण च विमुच्येत तस्य पुण्यफलं शृणुअश्वमेधक्रतोस्तुल्यं फलं भवति शाश्वतम् ॥४४॥
मृत्युकाले सहस्राक्ष यां वृत्तिमनुकाङ्क्षतेलोकान्बहुविधान्दिव्यान्यद्वास्य हृदि वर्तते ॥४५॥
तत्सर्वं समवाप्नोति कर्मणा तेन मानवःगोभिश्च समनुज्ञातः सर्वत्र स महीयते ॥४६॥
यस्त्वेतेनैव विधिना गां वनेष्वनुगच्छतितृणगोमयपर्णाशी निःस्पृहो नियतः शुचिः ॥४७॥
अकामं तेन वस्तव्यं मुदितेन शतक्रतोमम लोके सुरैः सार्धं लोके यत्रापि चेच्छति ॥४८॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 72

0
Adhyaya 72Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0