Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
युधिष्ठिर उवाच
पवित्राणां पवित्रं यच्छ्रेष्ठं लोके च यद्भवेत्पावनं परमं चैव तन्मे ब्रूहि पितामह ॥१॥
भीष्म उवाच
गावो महार्थाः पुण्याश्च तारयन्ति च मानवान्धारयन्ति प्रजाश्चेमाः पयसा हविषा तथा ॥२॥
न हि पुण्यतमं किंचिद्गोभ्यो भरतसत्तमएताः पवित्राः पुण्याश्च त्रिषु लोकेष्वनुत्तमाः ॥३॥
देवानामुपरिष्टाच्च गावः प्रतिवसन्ति वैदत्त्वा चैता नरपते यान्ति स्वर्गं मनीषिणः ॥४॥
मान्धाता यौवनाश्वश्च ययातिर्नहुषस्तथागावो ददन्तः सततं सहस्रशतसंमिताःगताः परमकं स्थानं देवैरपि सुदुर्लभम् ॥५॥
अपि चात्र पुरावृत्तं कथयिष्यामि तेऽनघ ॥६॥
ऋषीणामुत्तमं धीमान्कृष्णद्वैपायनं शुकःअभिवाद्याह्निकं कृत्वा शुचिः प्रयतमानसःपितरं परिपप्रच्छ दृष्टलोकपरावरम् ॥७॥
को यज्ञः सर्वयज्ञानां वरिष्ठ उपलक्ष्यतेकिं च कृत्वा परं स्वर्गं प्राप्नुवन्ति मनीषिणः ॥८॥
केन देवाः पवित्रेण स्वर्गमश्नन्ति वा विभोकिं च यज्ञस्य यज्ञत्वं क्व च यज्ञः प्रतिष्ठितः ॥९॥
दानानामुत्तमं किं च किं च सत्रमतः परम्पवित्राणां पवित्रं च यत्तद्ब्रूहि ममानघ ॥१०॥
एतच्छ्रुत्वा तु वचनं व्यासः परमधर्मवित्पुत्रायाकथयत्सर्वं तत्त्वेन भरतर्षभ ॥११॥
व्यास उवाच
गावः प्रतिष्ठा भूतानां तथा गावः परायणम्गावः पुण्याः पवित्राश्च पावनं धर्म एव च ॥१२॥
पूर्वमासन्नशृङ्गा वै गाव इत्यनुशुश्रुमःशृङ्गार्थे समुपासन्त ताः किल प्रभुमव्ययम् ॥१३॥
ततो ब्रह्मा तु गाः प्रायमुपविष्टाः समीक्ष्य हईप्सितं प्रददौ ताभ्यो गोभ्यः प्रत्येकशः प्रभुः ॥१४॥
तासां शृङ्गाण्यजायन्त यस्या यादृङ्मनोगतम्नानावर्णाः शृङ्गवन्त्यस्ता व्यरोचन्त पुत्रक ॥१५॥
ब्रह्मणा वरदत्तास्ता हव्यकव्यप्रदाः शुभाःपुण्याः पवित्राः सुभगा दिव्यसंस्थानलक्षणाःगावस्तेजो महद्दिव्यं गवां दानं प्रशस्यते ॥१६॥
ये चैताः संप्रयच्छन्ति साधवो वीतमत्सराःते वै सुकृतिनः प्रोक्ताः सर्वदानप्रदाश्च तेगवां लोकं तथा पुण्यमाप्नुवन्ति च तेऽनघ ॥१७॥
यत्र वृक्षा मधुफला दिव्यपुष्पफलोपगाःपुष्पाणि च सुगन्धीनि दिव्यानि द्विजसत्तम ॥१८॥
सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुकासर्वत्र सुखसंस्पर्शा निष्पङ्का नीरजा शुभा ॥१९॥
रक्तोत्पलवनैश्चैव मणिदण्डैर्हिरण्मयैःतरुणादित्यसंकाशैर्भान्ति तत्र जलाशयाः ॥२०॥
महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैःनीलोत्पलविमिश्रैश्च सरोभिर्बहुपङ्कजैः ॥२१॥
करवीरवनैः फुल्लैः सहस्रावर्तसंवृतैःसंतानकवनैः फुल्लैर्वृक्षैश्च समलंकृताः ॥२२॥
निर्मलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैःउद्धूतपुलिनास्तत्र जातरूपैश्च निम्नगाः ॥२३॥
सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैःजातरूपमयैश्चान्यैर्हुताशनसमप्रभैः ॥२४॥
सौवर्णगिरयस्तत्र मणिरत्नशिलोच्चयाःसर्वरत्नमयैर्भान्ति शृङ्गैश्चारुभिरुच्छ्रितैः ॥२५॥
नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाःदिव्यगन्धरसैः पुष्पैः फलैश्च भरतर्षभ ॥२६॥
रमन्ते पुण्यकर्माणस्तत्र नित्यं युधिष्ठिरसर्वकामसमृद्धार्था निःशोका गतमन्यवः ॥२७॥
विमानेषु विचित्रेषु रमणीयेषु भारतमोदन्ते पुण्यकर्माणो विहरन्तो यशस्विनः ॥२८॥
उपक्रीडन्ति तान्राजञ्शुभाश्चाप्सरसां गणाःएताँल्लोकानवाप्नोति गां दत्त्वा वै युधिष्ठिर ॥२९॥
यासामधिपतिः पूषा मारुतो बलवान्बलीऐश्वर्ये वरुणो राजा ता मां पान्तु युगंधराः ॥३०॥
सुरूपा बहुरूपाश्च विश्वरूपाश्च मातरःप्राजापत्या इति ब्रह्मञ्जपेन्नित्यं यतव्रतः ॥३१॥
गास्तु शुश्रूषते यश्च समन्वेति च सर्वशःतस्मै तुष्टाः प्रयच्छन्ति वरानपि सुदुर्लभान् ॥३२॥
न द्रुह्येन्मनसा चापि गोषु ता हि सुखप्रदाःअर्चयेत सदा चैव नमस्कारैश्च पूजयेत्दान्तः प्रीतमना नित्यं गवां व्युष्टिं तथाश्नुते ॥३३॥
येन देवाः पवित्रेण भुञ्जते लोकमुत्तमम्यत्पवित्रं पवित्राणां तद्घृतं शिरसा वहेत् ॥३४॥
घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत्घृतं प्राशेद्घृतं दद्याद्गवां व्युष्टिं तथाश्नुते ॥३५॥
त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं पिबेत्पयःगवामुष्णं पयः पीत्वा त्र्यहमुष्णं घृतं पिबेत्त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो भवेत्त्र्यहम् ॥३६॥
निर्हृतैश्च यवैर्गोभिर्मासं प्रसृतयावकःब्रह्महत्यासमं पापं सर्वमेतेन शुध्यति ॥३७॥
पराभवार्थं दैत्यानां देवैः शौचमिदं कृतम्देवत्वमपि च प्राप्ताः संसिद्धाश्च महाबलाः ॥३८॥
गावः पवित्राः पुण्याश्च पावनं परमं महत्ताश्च दत्त्वा द्विजातिभ्यो नरः स्वर्गमुपाश्नुते ॥३९॥
गवां मध्ये शुचिर्भूत्वा गोमतीं मनसा जपेत्पूताभिरद्भिराचम्य शुचिर्भवति निर्मलः ॥४०॥
अग्निमध्ये गवां मध्ये ब्राह्मणानां च संसदिविद्यावेदव्रतस्नाता ब्राह्मणाः पुण्यकर्मिणः ॥४१॥
अध्यापयेरञ्शिष्यान्वै गोमतीं यज्ञसंमिताम्त्रिरात्रोपोषितः श्रुत्वा गोमतीं लभते वरम् ॥४२॥
पुत्रकामश्च लभते पुत्रं धनमथापि चपतिकामा च भर्तारं सर्वकामांश्च मानवःगावस्तुष्टाः प्रयच्छन्ति सेविता वै न संशयः ॥४३॥
एवमेता महाभागा यज्ञियाः सर्वकामदाःरोहिण्य इति जानीहि नैताभ्यो विद्यते परम् ॥४४॥
इत्युक्तः स महातेजाः शुकः पित्रा महात्मनापूजयामास गा नित्यं तस्मात्त्वमपि पूजय ॥४५॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 80

0
Adhyaya 80Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0