महाभारत, पुस्तक रूप में
॥ ॐ ॥यदि आपको इस मंच का अनुभव अच्छा लगा हो…॥ दान ॥तो कृपया दान करेंइससे ये ग्रंथ सबके लिए खुले और निःशुल्क रहते हैं।दान करेंमहाभारत · आश्वमेधिक पर्व
॥ श्रीः ॥
अध्याय 35
महाभारत · आश्वमेधिक पर्व
अर्जुन उवाच
ब्रह्म यत्परमं वेद्यं तन्मे व्याख्यातुमर्हसिभवतो हि प्रसादेन सूक्ष्मे मे रमते मतिः ॥१॥
वासुदेव उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह ॥२॥
कश्चिद्ब्राह्मणमासीनमाचार्यं संशितव्रतम्शिष्यः पप्रच्छ मेधावी किं स्विच्छ्रेयः परंतप ॥३॥
भगवन्तं प्रपन्नोऽहं निःश्रेयसपरायणःयाचे त्वां शिरसा विप्र यद्ब्रूयां तद्विचक्ष्व मे ॥४॥
तमेवंवादिनं पार्थ शिष्यं गुरुरुवाच हकथयस्व प्रवक्ष्यामि यत्र ते संशयो द्विज ॥५॥
इत्युक्तः स कुरुश्रेष्ठ गुरुणा गुरुवत्सलःप्राञ्जलिः परिपप्रच्छ यत्तच्छृणु महामते ॥६॥
शिष्य उवाच
कुतश्चाहं कुतश्च त्वं तत्सत्यं ब्रूहि यत्परम्कुतो जातानि भूतानि स्थावराणि चराणि च ॥७॥
केन जीवन्ति भूतानि तेषामायुः किमात्मकम्किं सत्यं किं तपो विप्र के गुणाः सद्भिरीरिताःके पन्थानः शिवाः सन्ति किं सुखं किं च दुष्कृतम् ॥८॥
एतान्मे भगवन्प्रश्नान्याथातथ्येन सत्तमवक्तुमर्हसि विप्रर्षे यथावदिह तत्त्वतः ॥९॥
वासुदेव उवाच
तस्मै संप्रतिपन्नाय यथावत्परिपृच्छतेशिष्याय गुणयुक्ताय शान्ताय गुरुवर्तिनेछायाभूताय दान्ताय यतये ब्रह्मचारिणे ॥१०॥
तान्प्रश्नानब्रवीत्पार्थ मेधावी स धृतव्रतःगुरुः कुरुकुलश्रेष्ठ सम्यक्सर्वानरिंदम ॥११॥
ब्रह्मप्रोक्तमिदं धर्ममृषिप्रवरसेवितम्वेदविद्यासमावाप्यं तत्त्वभूतार्थभावनम् ॥१२॥
भूतभव्यभविष्यादिधर्मकामार्थनिश्चयम्सिद्धसंघपरिज्ञातं पुराकल्पं सनातनम् ॥१३॥
प्रवक्ष्येऽहं महाप्राज्ञ पदमुत्तममद्य तेबुद्ध्वा यदिह संसिद्धा भवन्तीह मनीषिणः ॥१४॥
उपगम्यर्षयः पूर्वं जिज्ञासन्तः परस्परम्बृहस्पतिभरद्वाजौ गौतमो भार्गवस्तथा ॥१५॥
वसिष्ठः काश्यपश्चैव विश्वामित्रोऽत्रिरेव चमार्गान्सर्वान्परिक्रम्य परिश्रान्ताः स्वकर्मभिः ॥१६॥
ऋषिमाङ्गिरसं वृद्धं पुरस्कृत्य तु ते द्विजाःददृशुर्ब्रह्मभवने ब्रह्माणं वीतकल्मषम् ॥१७॥
तं प्रणम्य महात्मानं सुखासीनं महर्षयःपप्रच्छुर्विनयोपेता निःश्रेयसमिदं परम् ॥१८॥
कथं कर्म क्रियात्साधु कथं मुच्येत किल्बिषात्के नो मार्गाः शिवाश्च स्युः किं सत्यं किं च दुष्कृतम् ॥१९॥
केनोभौ कर्मपन्थानौ महत्त्वं केन विन्दतिप्रलयं चापवर्गं च भूतानां प्रभवाप्ययौ ॥२०॥
इत्युक्तः स मुनिश्रेष्ठैर्यदाह प्रपितामहःतत्तेऽहं संप्रवक्ष्यामि शृणु शिष्य यथागमम् ॥२१॥
ब्रह्मोवाचसत्याद्भूतानि जातानि स्थावराणि चराणि चतपसा तानि जीवन्ति इति तद्वित्त सुव्रताः ॥२२॥
स्वां योनिं पुनरागम्य वर्तन्ते स्वेन कर्मणासत्यं हि गुणसंयुक्तं नियतं पञ्चलक्षणम् ॥२३॥
ब्रह्म सत्यं तपः सत्यं सत्यं चैव प्रजापतिःसत्याद्भूतानि जातानि भूतं सत्यमयं महत् ॥२४॥
तस्मात्सत्याश्रया विप्रा नित्यं योगपरायणाःअतीतक्रोधसंतापा नियता धर्मसेतवः ॥२५॥
अन्योन्यनियतान्वैद्यान्धर्मसेतुप्रवर्तकान्तानहं संप्रवक्ष्यामि शाश्वतान्लोकभावनान् ॥२६॥
चातुर्विद्यं तथा वर्णांश्चतुरश्चाश्रमान्पृथक्धर्ममेकं चतुष्पादं नित्यमाहुर्मनीषिणः ॥२७॥
पन्थानं वः प्रवक्ष्यामि शिवं क्षेमकरं द्विजाःनियतं ब्रह्मभावाय यातं पूर्वं मनीषिभिः ॥२८॥
गदतस्तं ममाद्येह पन्थानं दुर्विदं परम्निबोधत महाभागा निखिलेन परं पदम् ॥२९॥
ब्रह्मचारिकमेवाहुराश्रमं प्रथमं पदम्गार्हस्थ्यं तु द्वितीयं स्याद्वानप्रस्थमतः परम्ततः परं तु विज्ञेयमध्यात्मं परमं पदम् ॥३०॥
ज्योतिराकाशमादित्यो वायुरिन्द्रः प्रजापतिःनोपैति यावदध्यात्मं तावदेतान्न पश्यतितस्योपायं प्रवक्ष्यामि पुरस्तात्तं निबोधत ॥३१॥
फलमूलानिलभुजां मुनीनां वसतां वनेवानप्रस्थं द्विजातीनां त्रयाणामुपदिश्यते ॥३२॥
सर्वेषामेव वर्णानां गार्हस्थ्यं तद्विधीयतेश्रद्धालक्षणमित्येवं धर्मं धीराः प्रचक्षते ॥३३॥
इत्येते देवयाना वः पन्थानः परिकीर्तिताःसद्भिरध्यासिता धीरैः कर्मभिर्धर्मसेतवः ॥३४॥
एतेषां पृथगध्यास्ते यो धर्मं संशितव्रतःकालात्पश्यति भूतानां सदैव प्रभवाप्ययौ ॥३५॥
अतस्तत्त्वानि वक्ष्यामि याथातथ्येन हेतुनाविषयस्थानि सर्वाणि वर्तमानानि भागशः ॥३६॥
महानात्मा तथाव्यक्तमहंकारस्तथैव चइन्द्रियाणि दशैकं च महाभूतानि पञ्च च ॥३७॥
विशेषाः पञ्चभूतानामित्येषा वैदिकी श्रुतिःचतुर्विंशतिरेषा वस्तत्त्वानां संप्रकीर्तिता ॥३८॥
तत्त्वानामथ यो वेद सर्वेषां प्रभवाप्ययौस धीरः सर्वभूतेषु न मोहमधिगच्छति ॥३९॥
तत्त्वानि यो वेदयते यथातथं; गुणांश्च सर्वानखिलाश्च देवताःविधूतपाप्मा प्रविमुच्य बन्धनं; स सर्वलोकानमलान्समश्नुते ॥४०॥
अध्याय समाप्त ॥
१

0
पृष्ठ पलटने के लिए कोना खींचें, स्वाइप करें या तीर कुंजियाँ दबाएँ
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0