Mahabharata · Ashvamedhika Parva
॥ श्रीः ॥
Mahabharata · Ashvamedhika Parva
ब्रह्मोवाचय उत्पन्नो महान्पूर्वमहंकारः स उच्यतेअहमित्येव संभूतो द्वितीयः सर्ग उच्यते ॥१॥
अहंकारश्च भूतादिर्वैकारिक इति स्मृतःतेजसश्चेतना धातुः प्रजासर्गः प्रजापतिः ॥२॥
देवानां प्रभवो देवो मनसश्च त्रिलोककृत्अहमित्येव तत्सर्वमभिमन्ता स उच्यते ॥३॥
अध्यात्मज्ञाननित्यानां मुनीनां भावितात्मनाम्स्वाध्यायक्रतुसिद्धानामेष लोकः सनातनः ॥४॥
अहंकारेणाहरतो गुणानिमा;न्भूतादिरेवं सृजते स भूतकृत्वैकारिकः सर्वमिदं विचेष्टते; स्वतेजसा रञ्जयते जगत्तथा ॥५॥
End of chapter ॥
1
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0