महाभारत, पुस्तक रूप में
॥ ॐ ॥यदि आपको इस मंच का अनुभव अच्छा लगा हो…॥ दान ॥तो कृपया दान करेंइससे ये ग्रंथ सबके लिए खुले और निःशुल्क रहते हैं।दान करेंमहाभारत · आश्वमेधिक पर्व
॥ श्रीः ॥
अध्याय 52
महाभारत · आश्वमेधिक पर्व
वैशंपायन उवाच
तथा प्रयान्तं वार्ष्णेयं द्वारकां भरतर्षभाःपरिष्वज्य न्यवर्तन्त सानुयात्राः परंतपाः ॥१॥
पुनः पुनश्च वार्ष्णेयं पर्यष्वजत फल्गुनःआ चक्षुर्विषयाच्चैनं ददर्श च पुनः पुनः ॥२॥
कृच्छ्रेणैव च तां पार्थो गोविन्दे विनिवेशिताम्संजहार तदा दृष्टिं कृष्णश्चाप्यपराजितः ॥३॥
तस्य प्रयाणे यान्यासन्निमित्तानि महात्मनःबहून्यद्भुतरूपाणि तानि मे गदतः शृणु ॥४॥
वायुर्वेगेन महता रथस्य पुरतो ववौकुर्वन्निःशर्करं मार्गं विरजस्कमकण्टकम् ॥५॥
ववर्ष वासवश्चापि तोयं शुचि सुगन्धि चदिव्यानि चैव पुष्पाणि पुरतः शार्ङ्गधन्वनः ॥६॥
स प्रयातो महाबाहुः समेषु मरुधन्वसुददर्शाथ मुनिश्रेष्ठमुत्तङ्कममितौजसम् ॥७॥
स तं संपूज्य तेजस्वी मुनिं पृथुललोचनःपूजितस्तेन च तदा पर्यपृच्छदनामयम् ॥८॥
स पृष्टः कुशलं तेन संपूज्य मधुसूदनम्उत्तङ्को ब्राह्मणश्रेष्ठस्ततः पप्रच्छ माधवम् ॥९॥
कच्चिच्छौरे त्वया गत्वा कुरुपाण्डवसद्म तत्कृतं सौभ्रात्रमचलं तन्मे व्याख्यातुमर्हसि ॥१०॥
अभिसंधाय तान्वीरानुपावृत्तोऽसि केशवसंबन्धिनः सुदयितान्सततं वृष्णिपुंगव ॥११॥
कच्चित्पाण्डुसुताः पञ्च धृतराष्ट्रस्य चात्मजाःलोकेषु विहरिष्यन्ति त्वया सह परंतप ॥१२॥
स्वराष्ट्रेषु च राजानः कच्चित्प्राप्स्यन्ति वै सुखम्कौरवेषु प्रशान्तेषु त्वया नाथेन माधव ॥१३॥
या मे संभावना तात त्वयि नित्यमवर्ततअपि सा सफला कृष्ण कृता ते भरतान्प्रति ॥१४॥
वासुदेव उवाच
कृतो यत्नो मया ब्रह्मन्सौभ्रात्रे कौरवान्प्रतिन चाशक्यन्त संधातुं तेऽधर्मरुचयो मया ॥१५॥
ततस्ते निधनं प्राप्ताः सर्वे ससुतबान्धवाःन दिष्टमभ्यतिक्रान्तुं शक्यं बुद्ध्या बलेन वामहर्षे विदितं नूनं सर्वमेतत्तवानघ ॥१६॥
तेऽत्यक्रामन्मतिं मह्यं भीष्मस्य विदुरस्य चततो यमक्षयं जग्मुः समासाद्येतरेतरम् ॥१७॥
पञ्च वै पाण्डवाः शिष्टा हतमित्रा हतात्मजाःधार्तराष्ट्राश्च निहताः सर्वे ससुतबान्धवाः ॥१८॥
इत्युक्तवचने कृष्णे भृशं क्रोधसमन्वितःउत्तङ्कः प्रत्युवाचैनं रोषादुत्फाल्य लोचने ॥१९॥
यस्माच्छक्तेन ते कृष्ण न त्राताः कुरुपाण्डवाःसंबन्धिनः प्रियास्तस्माच्छप्स्येऽहं त्वामसंशयम् ॥२०॥
न च ते प्रसभं यस्मात्ते निगृह्य निवर्तिताःतस्मान्मन्युपरीतस्त्वां शप्स्यामि मधुसूदन ॥२१॥
त्वया हि शक्तेन सता मिथ्याचारेण माधवउपचीर्णाः कुरुश्रेष्ठा यस्त्वेतान्समुपेक्षथाः ॥२२॥
वासुदेव उवाच
शृणु मे विस्तरेणेदं यद्वक्ष्ये भृगुनन्दनगृहाणानुनयं चापि तपस्वी ह्यसि भार्गव ॥२३॥
श्रुत्वा त्वमेतदध्यात्मं मुञ्चेथाः शापमद्य वैन च मां तपसाल्पेन शक्तोऽभिभवितुं पुमान् ॥२४॥
न च ते तपसो नाशमिच्छामि जपतां वरतपस्ते सुमहद्दीप्तं गुरवश्चापि तोषिताः ॥२५॥
कौमारं ब्रह्मचर्यं ते जानामि द्विजसत्तमदुःखार्जितस्य तपसस्तस्मान्नेच्छामि ते व्ययम् ॥२६॥
अध्याय समाप्त ॥
१

0
पृष्ठ पलटने के लिए कोना खींचें, स्वाइप करें या तीर कुंजियाँ दबाएँ
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0