महाभारत, पुस्तक रूप में
॥ ॐ ॥यदि आपको इस मंच का अनुभव अच्छा लगा हो…॥ दान ॥तो कृपया दान करेंइससे ये ग्रंथ सबके लिए खुले और निःशुल्क रहते हैं।दान करेंमहाभारत · आश्वमेधिक पर्व
॥ श्रीः ॥
अध्याय 64
महाभारत · आश्वमेधिक पर्व
ब्राह्मणा ऊचुःक्रियतामुपहारोऽद्य त्र्यम्बकस्य महात्मनःकृत्वोपहारं नृपते ततः स्वार्थे यतामहे ॥१॥
वैशंपायन उवाच
श्रुत्वा तु वचनं तेषां ब्राह्मणानां युधिष्ठिरःगिरीशस्य यथान्यायमुपहारमुपाहरत् ॥२॥
आज्येन तर्पयित्वाग्निं विधिवत्संस्कृतेन हमन्त्रसिद्धं चरुं कृत्वा पुरोधाः प्रययौ तदा ॥३॥
स गृहीत्वा सुमनसो मन्त्रपूता जनाधिपमोदकैः पायसेनाथ मांसैश्चोपाहरद्बलिम् ॥४॥
सुमनोभिश्च चित्राभिर्लाजैरुच्चावचैरपिसर्वं स्विष्टकृतं कृत्वा विधिवद्वेदपारगःकिंकराणां ततः पश्चाच्चकार बलिमुत्तमम् ॥५॥
यक्षेन्द्राय कुबेराय मणिभद्राय चैव हतथान्येषां च यक्षाणां भूताधिपतयश्च ये ॥६॥
कृसरेण समांसेन निवापैस्तिलसंयुतैःशुशुभे स्थानमत्यर्थं देवदेवस्य पार्थिव ॥७॥
कृत्वा तु पूजां रुद्रस्य गणानां चैव सर्वशःययौ व्यासं पुरस्कृत्य नृपो रत्ननिधिं प्रति ॥८॥
पूजयित्वा धनाध्यक्षं प्रणिपत्याभिवाद्य चसुमनोभिर्विचित्राभिरपूपैः कृसरेण च ॥९॥
शङ्खादींश्च निधीन्सर्वान्निधिपालांश्च सर्वशःअर्चयित्वा द्विजाग्र्यान्स स्वस्ति वाच्य च वीर्यवान् ॥१०॥
तेषां पुण्याहघोषेण तेजसा समवस्थितःप्रीतिमान्स कुरुश्रेष्ठः खानयामास तं निधिम् ॥११॥
ततः पात्र्यः सकरकाः साश्मन्तकमनोरमाःभृङ्गाराणि कटाहानि कलशान्वर्धमानकान् ॥१२॥
बहूनि च विचित्राणि भाजनानि सहस्रशःउद्धारयामास तदा धर्मराजो युधिष्ठिरः ॥१३॥
तेषां लक्षणमप्यासीन्महान्करपुटस्तथात्रिलक्षं भाजनं राजंस्तुलार्धमभवन्नृप ॥१४॥
वाहनं पाण्डुपुत्रस्य तत्रासीत्तु विशां पतेषष्टिरुष्ट्रसहस्राणि शतानि द्विगुणा हयाः ॥१५॥
वारणाश्च महाराज सहस्रशतसंमिताःशकटानि रथाश्चैव तावदेव करेणवःखराणां पुरुषाणां च परिसंख्या न विद्यते ॥१६॥
एतद्वित्तं तदभवद्यदुद्दध्रे युधिष्ठिरःषोडशाष्टौ चतुर्विंशत्सहस्रं भारलक्षणम् ॥१७॥
एतेष्वाधाय तद्द्रव्यं पुनरभ्यर्च्य पाण्डवःमहादेवं प्रति ययौ पुरं नागाह्वयं प्रति ॥१८॥
द्वैपायनाभ्यनुज्ञातः पुरस्कृत्य पुरोहितम्गोयुते गोयुते चैव न्यवसत्पुरुषर्षभः ॥१९॥
सा पुराभिमुखी राजञ्जगाम महती चमूःकृच्छ्राद्द्रविणभारार्ता हर्षयन्ती कुरूद्वहान् ॥२०॥
अध्याय समाप्त ॥
१

0
पृष्ठ पलटने के लिए कोना खींचें, स्वाइप करें या तीर कुंजियाँ दबाएँ
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0