Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Ashvamedhika Parva
वैशंपायन उवाच
तस्मिन्यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिनःहेतुवादान्बहून्प्राहुः परस्परजिगीषवः ॥१॥
ददृशुस्तं नृपतयो यज्ञस्य विधिमुत्तमम्देवेन्द्रस्येव विहितं भीमेन कुरुनन्दन ॥२॥
ददृशुस्तोरणान्यत्र शातकुम्भमयानि तेशय्यासनविहारांश्च सुबहून्रत्नभूषितान् ॥३॥
घटान्पात्रीः कटाहानि कलशान्वर्धमानकान्न हि किंचिदसौवर्णमपश्यंस्तत्र पार्थिवाः ॥४॥
यूपांश्च शास्त्रपठितान्दारवान्हेमभूषितान्उपकॢप्तान्यथाकालं विधिवद्भूरिवर्चसः ॥५॥
स्थलजा जलजा ये च पशवः केचन प्रभोसर्वानेव समानीतांस्तानपश्यन्त ते नृपाः ॥६॥
गाश्चैव महिषीश्चैव तथा वृद्धाः स्त्रियोऽपि चऔदकानि च सत्त्वानि श्वापदानि वयांसि च ॥७॥
जरायुजान्यण्डजानि स्वेदजान्युद्भिदानि चपर्वतानूपवन्यानि भूतानि ददृशुश्च ते ॥८॥
एवं प्रमुदितं सर्वं पशुगोधनधान्यतःयज्ञवाटं नृपा दृष्ट्वा परं विस्मयमागमन्ब्राह्मणानां विशां चैव बहुमृष्टान्नमृद्धिमत् ॥९॥
पूर्णे शतसहस्रे तु विप्राणां तत्र भुञ्जताम्दुन्दुभिर्मेघनिर्घोषो मुहुर्मुहुरताड्यत ॥१०॥
विननादासकृत्सोऽथ दिवसे दिवसे तदाएवं स ववृते यज्ञो धर्मराजस्य धीमतः ॥११॥
अन्नस्य बहवो राजन्नुत्सर्गाः पर्वतोपमाःदधिकुल्याश्च ददृशुः सर्पिषश्च ह्रदाञ्जनाः ॥१२॥
जम्बूद्वीपो हि सकलो नानाजनपदायुतःराजन्नदृश्यतैकस्थो राज्ञस्तस्मिन्महाक्रतौ ॥१३॥
तत्र जातिसहस्राणि पुरुषाणां ततस्ततःगृहीत्वा धनमाजग्मुर्बहूनि भरतर्षभ ॥१४॥
राजानः स्रग्विणश्चापि सुमृष्टमणिकुण्डलाःपर्यवेषन्द्विजाग्र्यांस्ताञ्शतशोऽथ सहस्रशः ॥१५॥
विविधान्यन्नपानानि पुरुषा येऽनुयायिनःतेषां नृपोपभोज्यानि ब्राह्मणेभ्यो ददुः स्म ते ॥१६॥
End of chapter ॥
1
Mahabharata · Ashvamedhika Parva

Adhyaya 87

0
Adhyaya 87Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0