महाभारत, पुस्तक रूप में
॥ ॐ ॥यदि आपको इस मंच का अनुभव अच्छा लगा हो…॥ दान ॥तो कृपया दान करेंइससे ये ग्रंथ सबके लिए खुले और निःशुल्क रहते हैं।दान करेंमहाभारत · आश्वमेधिक पर्व
॥ श्रीः ॥
अध्याय 95
महाभारत · आश्वमेधिक पर्व
जनमेजय उवाच
धर्मागतेन त्यागेन भगवन्सर्वमस्ति चेत्एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि भाषितुम् ॥१॥
ततोञ्छवृत्तेर्यद्वृत्तं सक्तुदाने फलं महत्कथितं मे महद्ब्रह्मंस्तथ्यमेतदसंशयम् ॥२॥
कथं हि सर्वयज्ञेषु निश्चयः परमो भवेत्एतदर्हसि मे वक्तुं निखिलेन द्विजर्षभ ॥३॥
वैशंपायन उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्अगस्त्यस्य महायज्ञे पुरावृत्तमरिंदम ॥४॥
पुरागस्त्यो महातेजा दीक्षां द्वादशवार्षिकीम्प्रविवेश महाराज सर्वभूतहिते रतः ॥५॥
तत्राग्निकल्पा होतार आसन्सत्रे महात्मनःमूलाहारा निराहाराः साश्मकुट्टा मरीचिपाः ॥६॥
परिघृष्टिका वैघसिकाः संप्रक्षालास्तथैव चयतयो भिक्षवश्चात्र बभूवुः पर्यवस्थिताः ॥७॥
सर्वे प्रत्यक्षधर्माणो जितक्रोधा जितेन्द्रियाःदमे स्थिताश्च ते सर्वे दम्भमोहविवर्जिताः ॥८॥
वृत्ते शुद्धे स्थिता नित्यमिन्द्रियैश्चाप्यवाहिताःउपासते स्म तं यज्ञं भुञ्जानास्ते महर्षयः ॥९॥
यथाशक्त्या भगवता तदन्नं समुपार्जितम्तस्मिन्सत्रे तु यत्किंचिदयोग्यं तत्र नाभवत्तथा ह्यनेकैर्मुनिभिर्महान्तः क्रतवः कृताः ॥१०॥
एवंविधेस्त्वगस्त्यस्य वर्तमाने महाध्वरेन ववर्ष सहस्राक्षस्तदा भरतसत्तम ॥११॥
ततः कर्मान्तरे राजन्नगस्त्यस्य महात्मनःकथेयमभिनिर्वृत्ता मुनीनां भावितात्मनाम् ॥१२॥
अगस्त्यो यजमानोऽसौ ददात्यन्नं विमत्सरःन च वर्षति पर्जन्यः कथमन्नं भविष्यति ॥१३॥
सत्रं चेदं महद्विप्रा मुनेर्द्वादशवार्षिकम्न वर्षिष्यति देवश्च वर्षाण्येतानि द्वादश ॥१४॥
एतद्भवन्तः संचिन्त्य महर्षेरस्य धीमतःअगस्त्यस्यातितपसः कर्तुमर्हन्त्यनुग्रहम् ॥१५॥
इत्येवमुक्ते वचने ततोऽगस्त्यः प्रतापवान्प्रोवाचेदं वचो वाग्मी प्रसाद्य शिरसा मुनीन् ॥१६॥
यदि द्वादशवर्षाणि न वर्षिष्यति वासवःचिन्तायज्ञं करिष्यामि विधिरेष सनातनः ॥१७॥
यदि द्वादशवर्षाणि न वर्षिष्यति वासवःव्यायामेनाहरिष्यामि यज्ञानन्यानतिव्रतान् ॥१८॥
बीजयज्ञो मयायं वै बहुवर्षसमाचितःबीजैः कृतैः करिष्ये च नात्र विघ्नो भविष्यति ॥१९॥
नेदं शक्यं वृथा कर्तुं मम सत्रं कथंचनवर्षिष्यतीह वा देवो न वा देवो भविष्यति ॥२०॥
अथ वाभ्यर्थनामिन्द्रः कुर्यान्न त्विह कामतःस्वयमिन्द्रो भविष्यामि जीवयिष्यामि च प्रजाः ॥२१॥
यो यदाहारजातश्च स तथैव भविष्यतिविशेषं चैव कर्तास्मि पुनः पुनरतीव हि ॥२२॥
अद्येह स्वर्णमभ्येतु यच्चान्यद्वसु दुर्लभम्त्रिषु लोकेषु यच्चास्ति तदिहागच्छतां स्वयम् ॥२३॥
दिव्याश्चाप्सरसां संघाः सगन्धर्वाः सकिंनराःविश्वावसुश्च ये चान्ये तेऽप्युपासन्तु वः सदा ॥२४॥
उत्तरेभ्यः कुरुभ्यश्च यत्किंचिद्वसु विद्यतेसर्वं तदिह यज्ञे मे स्वयमेवोपतिष्ठतुस्वर्गं स्वर्गसदश्चैव धर्मश्च स्वयमेव तु ॥२५॥
इत्युक्ते सर्वमेवैतदभवत्तस्य धीमतःततस्ते मुनयो दृष्ट्वा मुनेस्तस्य तपोबलम्विस्मिता वचनं प्राहुरिदं सर्वे महार्थवत् ॥२६॥
प्रीताः स्म तव वाक्येन न त्विच्छामस्तपोव्ययम्स्वैरेव यज्ञैस्तुष्टाः स्मो न्यायेनेच्छामहे वयम् ॥२७॥
यज्ञान्दीक्षास्तथा होमान्यच्चान्यन्मृगयामहेतन्नोऽस्तु स्वकृतैर्यज्ञैर्नान्यतो मृगयामहे ॥२८॥
न्यायेनोपार्जिताहाराः स्वकर्मनिरता वयम्वेदांश्च ब्रह्मचर्येण न्यायतः प्रार्थयामहे ॥२९॥
न्यायेनोत्तरकालं च गृहेभ्यो निःसृता वयम्धर्मदृष्टैर्विधिद्वारैस्तपस्तप्स्यामहे वयम् ॥३०॥
भवतः सम्यगेषा हि बुद्धिर्हिंसाविवर्जिताएतामहिंसां यज्ञेषु ब्रूयास्त्वं सततं प्रभो ॥३१॥
प्रीतास्ततो भविष्यामो वयं द्विजवरोत्तमविसर्जिताः समाप्तौ च सत्रादस्माद्व्रजामहे ॥३२॥
वैशंपायन उवाच
तथा कथयतामेव देवराजः पुरंदरःववर्ष सुमहातेजा दृष्ट्वा तस्य तपोबलम् ॥३३॥
असमाप्तौ च यज्ञस्य तस्यामितपराक्रमःनिकामवर्षी देवेन्द्रो बभूव जनमेजय ॥३४॥
प्रसादयामास च तमगस्त्यं त्रिदशेश्वरःस्वयमभ्येत्य राजर्षे पुरस्कृत्य बृहस्पतिम् ॥३५॥
ततो यज्ञसमाप्तौ तान्विससर्ज महामुनीन्अगस्त्यः परमप्रीतः पूजयित्वा यथाविधि ॥३६॥
अध्याय समाप्त ॥
१

0
पृष्ठ पलटने के लिए कोना खींचें, स्वाइप करें या तीर कुंजियाँ दबाएँ
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0