Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Mausala Parva
वैशंपायन उवाच
षट्त्रिंशे त्वथ संप्राप्ते वर्षे कौरवनन्दनःददर्श विपरीतानि निमित्तानि युधिष्ठिरः ॥१॥
ववुर्वाताः सनिर्घाता रूक्षाः शर्करवर्षिणःअपसव्यानि शकुना मण्डलानि प्रचक्रिरे ॥२॥
प्रत्यगूहुर्महानद्यो दिशो नीहारसंवृताःउल्काश्चाङ्गारवर्षिण्यः प्रपेतुर्गगनाद्भुवि ॥३॥
आदित्यो रजसा राजन्समवच्छन्नमण्डलःविरश्मिरुदये नित्यं कबन्धैः समदृश्यत ॥४॥
परिवेषाश्च दृश्यन्ते दारुणाः चन्द्रसूर्ययोःत्रिवर्णाः श्यामरूक्षान्तास्तथा भस्मारुणप्रभाः ॥५॥
एते चान्ये च बहव उत्पाता भयशंसिनःदृश्यन्तेऽहरहो राजन्हृदयोद्वेगकारकाः ॥६॥
कस्यचित्त्वथ कालस्य कुरुराजो युधिष्ठिरःशुश्राव वृष्णिचक्रस्य मौसले कदनं कृतम् ॥७॥
विमुक्तं वासुदेवं च श्रुत्वा रामं च पाण्डवःसमानीयाब्रवीद्भ्रातॄन्किं करिष्याम इत्युत ॥८॥
परस्परं समासाद्य ब्रह्मदण्डबलात्कृतान्वृष्णीन्विनष्टांस्ते श्रुत्वा व्यथिताः पाण्डवाभवन् ॥९॥
निधनं वासुदेवस्य समुद्रस्येव शोषणम्वीरा न श्रद्दधुस्तस्य विनाशं शार्ङ्गधन्वनः ॥१०॥
मौसलं ते परिश्रुत्य दुःखशोकसमन्विताःविषण्णा हतसंकल्पाः पाण्डवाः समुपाविशन् ॥११॥
End of chapter ॥
1
Mahabharata · Mausala Parva

Adhyaya 1

0
Adhyaya 1Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0