Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Mausala Parva
वैशंपायन उवाच
ततो ययुर्दारुकः केशवश्च; बभ्रुश्च रामस्य पदं पतन्तःअथापश्यन्राममनन्तवीर्यं; वृक्षे स्थितं चिन्तयानं विविक्ते ॥१॥
ततः समासाद्य महानुभावः; कृष्णस्तदा दारुकमन्वशासत्गत्वा कुरूञ्शीघ्रमिमं महान्तं; पार्थाय शंसस्व वधं यदूनाम् ॥२॥
ततोऽर्जुनः क्षिप्रमिहोपयातु; श्रुत्वा मृतान्यादवान्ब्रह्मशापात्इत्येवमुक्तः स ययौ रथेन; कुरूंस्तदा दारुको नष्टचेताः ॥३॥
ततो गते दारुके केशवोऽथ; दृष्ट्वान्तिके बभ्रुमुवाच वाक्यम्स्त्रियो भवान्रक्षतु यातु शीघ्रं; नैता हिंस्युर्दस्यवो वित्तलोभात् ॥४॥
स प्रस्थितः केशवेनानुशिष्टो; मदातुरो ज्ञातिवधार्दितश्चतं वै यान्तं संनिधौ केशवस्य; त्वरन्तमेकं सहसैव बभ्रुम्ब्रह्मानुशप्तमवधीन्महद्वै; कूटोन्मुक्तं मुसलं लुब्धकस्य ॥५॥
ततो दृष्ट्वा निहतं बभ्रुमाह; कृष्णो वाक्यं भ्रातरमग्रजं तुइहैव त्वं मां प्रतीक्षस्व राम; यावत्स्त्रियो ज्ञातिवशाः करोमि ॥६॥
ततः पुरीं द्वारवतीं प्रविश्य; जनार्दनः पितरं प्राह वाक्यम्स्त्रियो भवान्रक्षतु नः समग्रा; धनंजयस्यागमनं प्रतीक्षन्रामो वनान्ते प्रतिपालयन्मा;मास्तेऽद्याहं तेन समागमिष्ये ॥७॥
दृष्टं मयेदं निधनं यदूनां; राज्ञां च पूर्वं कुरुपुंगवानाम्नाहं विना यदुभिर्यादवानां; पुरीमिमां द्रष्टुमिहाद्य शक्तः ॥८॥
तपश्चरिष्यामि निबोध तन्मे; रामेण सार्धं वनमभ्युपेत्यइतीदमुक्त्वा शिरसास्य पादौ; संस्पृश्य कृष्णस्त्वरितो जगाम ॥९॥
ततो महान्निनदः प्रादुरासी;त्सस्त्रीकुमारस्य पुरस्य तस्यअथाब्रवीत्केशवः संनिवर्त्य; शब्दं श्रुत्वा योषितां क्रोशतीनाम् ॥१०॥
पुरीमिमामेष्यति सव्यसाची; स वो दुःखान्मोचयिता नराग्र्यःततो गत्वा केशवस्तं ददर्श; रामं वने स्थितमेकं विविक्ते ॥११॥
अथापश्यद्योगयुक्तस्य तस्य; नागं मुखान्निःसरन्तं महान्तम्श्वेतं ययौ स ततः प्रेक्ष्यमाणो; महार्णवो येन महानुभावः ॥१२॥
सहस्रशीर्षः पर्वताभोगवर्ष्मा; रक्ताननः स्वां तनुं तां विमुच्यसम्यक्च तं सागरः प्रत्यगृह्णा;न्नागा दिव्याः सरितश्चैव पुण्याः ॥१३॥
कर्कोटको वासुकिस्तक्षकश्च; पृथुश्रवा वरुणः कुञ्जरश्चमिश्री शङ्खः कुमुदः पुण्डरीक;स्तथा नागो धृतराष्ट्रो महात्मा ॥१४॥
ह्रादः क्राथः शितिकण्ठोऽग्रतेजा;स्तथा नागौ चक्रमन्दातिषण्डौनागश्रेष्ठो दुर्मुखश्चाम्बरीषः; स्वयं राजा वरुणश्चापि राजन्प्रत्युद्गम्य स्वागतेनाभ्यनन्दं;स्तेऽपूजयंश्चार्घ्यपाद्यक्रियाभिः ॥१५॥
ततो गते भ्रातरि वासुदेवो; जानन्सर्वा गतयो दिव्यदृष्टिःवने शून्ये विचरंश्चिन्तयानो; भूमौ ततः संविवेशाग्र्यतेजाः ॥१६॥
सर्वं हि तेन प्राक्तदा वित्तमासी;द्गान्धार्या यद्वाक्यमुक्तः स पूर्वम्दुर्वाससा पायसोच्छिष्टलिप्ते; यच्चाप्युक्तं तच्च सस्मार कृष्णः ॥१७॥
स चिन्तयानोऽन्धकवृष्णिनाशं; कुरुक्षयं चैव महानुभावःमेने ततः संक्रमणस्य कालं; ततश्चकारेन्द्रियसंनिरोधम् ॥१८॥
स संनिरुद्धेन्द्रियवाङ्मनास्तु; शिश्ये महायोगमुपेत्य कृष्णःजराथ तं देशमुपाजगाम; लुब्धस्तदानीं मृगलिप्सुरुग्रः ॥१९॥
स केशवं योगयुक्तं शयानं; मृगाशङ्की लुब्धकः सायकेनजराविध्यत्पादतले त्वरावां;स्तं चाभितस्तज्जिघृक्षुर्जगामअथापश्यत्पुरुषं योगयुक्तं; पीताम्बरं लुब्धकोऽनेकबाहुम् ॥२०॥
मत्वात्मानमपराद्धं स तस्य; जग्राह पादौ शिरसा चार्तरूपःआश्वासयत्तं महात्मा तदानीं; गच्छन्नूर्ध्वं रोदसी व्याप्य लक्ष्म्या ॥२१॥
दिवं प्राप्तं वासवोऽथाश्विनौ च; रुद्रादित्या वसवश्चाथ विश्वेप्रत्युद्ययुर्मुनयश्चापि सिद्धा; गन्धर्वमुख्याश्च सहाप्सरोभिः ॥२२॥
ततो राजन्भगवानुग्रतेजा; नारायणः प्रभवश्चाव्ययश्चयोगाचार्यो रोदसी व्याप्य लक्ष्म्या; स्थानं प्राप स्वं महात्माप्रमेयम् ॥२३॥
ततो देवैरृषिभिश्चापि कृष्णः; समागतश्चारणैश्चैव राजन्गन्धर्वाग्र्यैरप्सरोभिर्वराभिः; सिद्धैः साध्यैश्चानतैः पूज्यमानः ॥२४॥
ते वै देवाः प्रत्यनन्दन्त राज;न्मुनिश्रेष्ठा वाग्भिरानर्चुरीशम्गन्धर्वाश्चाप्युपतस्थुः स्तुवन्तः; प्रीत्या चैनं पुरुहूतोऽभ्यनन्दत् ॥२५॥
End of chapter ॥
1
Mahabharata · Mausala Parva

Adhyaya 5

0
Adhyaya 5Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0