Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Mausala Parva
वैशंपायन उवाच
दारुकोऽपि कुरून्गत्वा दृष्ट्वा पार्थान्महारथान्आचष्ट मौसले वृष्णीनन्योन्येनोपसंहृतान् ॥१॥
श्रुत्वा विनष्टान्वार्ष्णेयान्सभोजकुकुरान्धकान्पाण्डवाः शोकसंतप्ता वित्रस्तमनसोऽभवन् ॥२॥
ततोऽर्जुनस्तानामन्त्र्य केशवस्य प्रियः सखाप्रययौ मातुलं द्रष्टुं नेदमस्तीति चाब्रवीत् ॥३॥
स वृष्णिनिलयं गत्वा दारुकेण सह प्रभोददर्श द्वारकां वीरो मृतनाथामिव स्त्रियम् ॥४॥
याः स्म ता लोकनाथेन नाथवत्यः पुराभवन्तास्त्वनाथास्तदा नाथं पार्थं दृष्ट्वा विचुक्रुशुः ॥५॥
षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहःतासामासीन्महान्नादो दृष्ट्वैवार्जुनमागतम् ॥६॥
तास्तु दृष्ट्वैव कौरव्यो बाष्पेण पिहितोऽर्जुनःहीनाः कृष्णेन पुत्रैश्च नाशकत्सोऽभिवीक्षितुम् ॥७॥
तां स वृष्ण्यन्धकजलां हयमीनां रथोडुपाम्वादित्ररथघोषौघां वेश्मतीर्थमहाग्रहाम् ॥८॥
रत्नशैवलसंघाटां वज्रप्राकारमालिनीम्रथ्यास्रोतोजलावर्तां चत्वरस्तिमितह्रदाम् ॥९॥
रामकृष्णमहाग्राहां द्वारकासरितं तदाकालपाशग्रहां घोरां नदीं वैतरणीमिव ॥१०॥
तां ददर्शार्जुनो धीमान्विहीनां वृष्णिपुंगवैःगतश्रियं निरानन्दां पद्मिनीं शिशिरे यथा ॥११॥
तां दृष्ट्वा द्वारकां पार्थस्ताश्च कृष्णस्य योषितःसस्वनं बाष्पमुत्सृज्य निपपात महीतले ॥१२॥
सात्राजिती ततः सत्या रुक्मिणी च विशां पतेअभिपत्य प्ररुरुदुः परिवार्य धनंजयम् ॥१३॥
ततस्ताः काञ्चने पीठे समुत्थायोपवेश्य चअब्रुवन्त्यो महात्मानं परिवार्योपतस्थिरे ॥१४॥
ततः संस्तूय गोविन्दं कथयित्वा च पाण्डवःआश्वास्य ताः स्त्रियश्चापि मातुलं द्रष्टुमभ्यगात् ॥१५॥
End of chapter ॥
1
Mahabharata · Mausala Parva

Adhyaya 6

0
Adhyaya 6Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0