Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Sabha Parva
वैशंपायन उवाच
ततोऽब्रवीन्मयः पार्थं वासुदेवस्य संनिधौप्राञ्जलिः श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः ॥१॥
अस्माच्च कृष्णात्संक्रुद्धात्पावकाच्च दिधक्षतःत्वया त्रातोऽस्मि कौन्तेय ब्रूहि किं करवाणि ते ॥२॥
अर्जुन उवाच
कृतमेव त्वया सर्वं स्वस्ति गच्छ महासुरप्रीतिमान्भव मे नित्यं प्रीतिमन्तो वयं च ते ॥३॥
मय उवाच
युक्तमेतत्त्वयि विभो यथात्थ पुरुषर्षभप्रीतिपूर्वमहं किंचित्कर्तुमिच्छामि भारत ॥४॥
अहं हि विश्वकर्मा वै दानवानां महाकविःसोऽहं वै त्वत्कृते किंचित्कर्तुमिच्छामि पाण्डव ॥५॥
अर्जुन उवाच
प्राणकृच्छ्राद्विमुक्तं त्वमात्मानं मन्यसे मयाएवं गते न शक्ष्यामि किंचित्कारयितुं त्वया ॥६॥
न चापि तव संकल्पं मोघमिच्छामि दानवकृष्णस्य क्रियतां किंचित्तथा प्रतिकृतं मयि ॥७॥
वैशंपायन उवाच
चोदितो वासुदेवस्तु मयेन भरतर्षभमुहूर्तमिव संदध्यौ किमयं चोद्यतामिति ॥८॥
चोदयामास तं कृष्णः सभा वै क्रियतामितिधर्मराजस्य दैतेय यादृशीमिह मन्यसे ॥९॥
यां कृतां नानुकुर्युस्ते मानवाः प्रेक्ष्य विस्मिताःमनुष्यलोके कृत्स्नेऽस्मिंस्तादृशीं कुरु वै सभाम् ॥१०॥
यत्र दिव्यानभिप्रायान्पश्येम विहितांस्त्वयाआसुरान्मानुषांश्चैव तां सभां कुरु वै मय ॥११॥
प्रतिगृह्य तु तद्वाक्यं संप्रहृष्टो मयस्तदाविमानप्रतिमां चक्रे पाण्डवस्य सभां मुदा ॥१२॥
ततः कृष्णश्च पार्थश्च धर्मराजे युधिष्ठिरेसर्वमेतद्यथावेद्य दर्शयामासतुर्मयम् ॥१३॥
तस्मै युधिष्ठिरः पूजां यथार्हमकरोत्तदास तु तां प्रतिजग्राह मयः सत्कृत्य सत्कृतः ॥१४॥
स पूर्वदेवचरितं तत्र तत्र विशां पतेकथयामास दैतेयः पाण्डुपुत्रेषु भारत ॥१५॥
स कालं कंचिदाश्वस्य विश्वकर्मा प्रचिन्त्य चसभां प्रचक्रमे कर्तुं पाण्डवानां महात्मनाम् ॥१६॥
अभिप्रायेण पार्थानां कृष्णस्य च महात्मनःपुण्येऽहनि महातेजाः कृतकौतुकमङ्गलः ॥१७॥
तर्पयित्वा द्विजश्रेष्ठान्पायसेन सहस्रशःधनं बहुविधं दत्त्वा तेभ्य एव च वीर्यवान् ॥१८॥
सर्वर्तुगुणसंपन्नां दिव्यरूपां मनोरमाम्दशकिष्कुसहस्रां तां मापयामास सर्वतः ॥१९॥
End of chapter ॥
1
Mahabharata · Sabha Parva

Adhyaya 1

0
Adhyaya 1Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0