Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Sabha Parva
वैशंपायन उवाच
पार्थः प्राप्य धनुःश्रेष्ठमक्षय्यौ च महेषुधीरथं ध्वजं सभां चैव युधिष्ठिरमभाषत ॥१॥
धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम्प्राप्तमेतन्मया राजन्दुष्प्रापं यदभीप्सितम् ॥२॥
तत्र कृत्यमहं मन्ये कोशस्यास्य विवर्धनम्करमाहारयिष्यामि राज्ञः सर्वान्नृपोत्तम ॥३॥
विजयाय प्रयास्यामि दिशं धनदरक्षिताम्तिथावथ मुहूर्ते च नक्षत्रे च तथा शिवे ॥४॥
धनंजयवचः श्रुत्वा धर्मराजो युधिष्ठिरःस्निग्धगम्भीरनादिन्या तं गिरा प्रत्यभाषत ॥५॥
स्वस्ति वाच्यार्हतो विप्रान्प्रयाहि भरतर्षभदुर्हृदामप्रहर्षाय सुहृदां नन्दनाय चविजयस्ते ध्रुवं पार्थ प्रियं काममवाप्नुहि ॥६॥
इत्युक्तः प्रययौ पार्थः सैन्येन महता वृतःअग्निदत्तेन दिव्येन रथेनाद्भुतकर्मणा ॥७॥
तथैव भीमसेनोऽपि यमौ च पुरुषर्षभौससैन्याः प्रययुः सर्वे धर्मराजाभिपूजिताः ॥८॥
दिशं धनपतेरिष्टामजयत्पाकशासनिःभीमसेनस्तथा प्राचीं सहदेवस्तु दक्षिणाम् ॥९॥
प्रतीचीं नकुलो राजन्दिशं व्यजयदस्त्रवित्खाण्डवप्रस्थमध्यास्ते धर्मराजो युधिष्ठिरः ॥१०॥
जनमेजय उवाच
दिशामभिजयं ब्रह्मन्विस्तरेणानुकीर्तयन हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥११॥
वैशंपायन उवाच
धनंजयस्य वक्ष्यामि विजयं पूर्वमेव तेयौगपद्येन पार्थैर्हि विजितेयं वसुंधरा ॥१२॥
पूर्वं कुणिन्दविषये वशे चक्रे महीपतीन्धनंजयो महाबाहुर्नातितीव्रेण कर्मणा ॥१३॥
आनर्तान्कालकूटांश्च कुणिन्दांश्च विजित्य सःसुमण्डलं पापजितं कृतवाननुसैनिकम् ॥१४॥
स तेन सहितो राजन्सव्यसाची परंतपःविजिग्ये सकलं द्वीपं प्रतिविन्ध्यं च पार्थिवम् ॥१५॥
सकलद्वीपवासांश्च सप्तद्वीपे च ये नृपाःअर्जुनस्य च सैन्यानां विग्रहस्तुमुलोऽभवत् ॥१६॥
स तानपि महेष्वासो विजित्य भरतर्षभतैरेव सहितः सर्वैः प्राग्ज्योतिषमुपाद्रवत् ॥१७॥
तत्र राजा महानासीद्भगदत्तो विशां पतेतेनासीत्सुमहद्युद्धं पाण्डवस्य महात्मनः ॥१८॥
स किरातैश्च चीनैश्च वृतः प्राग्ज्योतिषोऽभवत्अन्यैश्च बहुभिर्योधैः सागरानूपवासिभिः ॥१९॥
ततः स दिवसानष्टौ योधयित्वा धनंजयम्प्रहसन्नब्रवीद्राजा संग्रामे विगतक्लमः ॥२०॥
उपपन्नं महाबाहो त्वयि पाण्डवनन्दनपाकशासनदायादे वीर्यमाहवशोभिनि ॥२१॥
अहं सखा सुरेन्द्रस्य शक्रादनवमो रणेन च शक्नोमि ते तात स्थातुं प्रमुखतो युधि ॥२२॥
किमीप्सितं पाण्डवेय ब्रूहि किं करवाणि तेयद्वक्ष्यसि महाबाहो तत्करिष्यामि पुत्रक ॥२३॥
अर्जुन उवाच
कुरूणामृषभो राजा धर्मपुत्रो युधिष्ठिरःतस्य पार्थिवतामीप्से करस्तस्मै प्रदीयताम् ॥२४॥
भवान्पितृसखा चैव प्रीयमाणो मयापि चततो नाज्ञापयामि त्वां प्रीतिपूर्वं प्रदीयताम् ॥२५॥
भगदत्त उवाच
कुन्तीमातर्यथा मे त्वं तथा राजा युधिष्ठिरःसर्वमेतत्करिष्यामि किं चान्यत्करवाणि ते ॥२६॥
End of chapter ॥
1
Mahabharata · Sabha Parva

Adhyaya 23

0
Adhyaya 23Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0