Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Sabha Parva
वैशंपायन उवाच
रक्षणाद्धर्मराजस्य सत्यस्य परिपालनात्शत्रूणां क्षपणाच्चैव स्वकर्मनिरताः प्रजाः ॥१॥
बलीनां सम्यगादानाद्धर्मतश्चानुशासनात्निकामवर्षी पर्जन्यः स्फीतो जनपदोऽभवत् ॥२॥
सर्वारम्भाः सुप्रवृत्ता गोरक्षं कर्षणं वणिक्विशेषात्सर्वमेवैतत्संजज्ञे राजकर्मणः ॥३॥
दस्युभ्यो वञ्चकेभ्यो वा राजन्प्रति परस्परम्राजवल्लभतश्चैव नाश्रूयन्त मृषा गिरः ॥४॥
अवर्षं चातिवर्षं च व्याधिपावकमूर्छनम्सर्वमेतत्तदा नासीद्धर्मनित्ये युधिष्ठिरे ॥५॥
प्रियं कर्तुमुपस्थातुं बलिकर्म स्वभावजम्अभिहर्तुं नृपा जग्मुर्नान्यैः कार्यैः पृथक्पृथक् ॥६॥
धर्म्यैर्धनागमैस्तस्य ववृधे निचयो महान्कर्तुं यस्य न शक्येत क्षयो वर्षशतैरपि ॥७॥
स्वकोशस्य परीमाणं कोष्ठस्य च महीपतिःविज्ञाय राजा कौन्तेयो यज्ञायैव मनो दधे ॥८॥
सुहृदश्चैव तं सर्वे पृथक्च सह चाब्रुवन्यज्ञकालस्तव विभो क्रियतामत्र सांप्रतम् ॥९॥
अथैवं ब्रुवतामेव तेषामभ्याययौ हरिःऋषिः पुराणो वेदात्मा दृश्यश्चापि विजानताम् ॥१०॥
जगतस्तस्थुषां श्रेष्ठः प्रभवश्चाप्ययश्च हभूतभव्यभवन्नाथः केशवः केशिसूदनः ॥११॥
प्राकारः सर्ववृष्णीनामापत्स्वभयदोऽरिहाबलाधिकारे निक्षिप्य संहत्यानकदुन्दुभिम् ॥१२॥
उच्चावचमुपादाय धर्मराजाय माधवःधनौघं पुरुषव्याघ्रो बलेन महता वृतः ॥१३॥
तं धनौघमपर्यन्तं रत्नसागरमक्षयम्नादयन्रथघोषेण प्रविवेश पुरोत्तमम् ॥१४॥
असूर्यमिव सूर्येण निवातमिव वायुनाकृष्णेन समुपेतेन जहृषे भारतं पुरम् ॥१५॥
तं मुदाभिसमागम्य सत्कृत्य च यथाविधिसंपृष्ट्वा कुशलं चैव सुखासीनं युधिष्ठिरः ॥१६॥
धौम्यद्वैपायनमुखैरृत्विग्भिः पुरुषर्षभःभीमार्जुनयमैश्चापि सहितः कृष्णमब्रवीत् ॥१७॥
त्वत्कृते पृथिवी सर्वा मद्वशे कृष्ण वर्ततेधनं च बहु वार्ष्णेय त्वत्प्रसादादुपार्जितम् ॥१८॥
सोऽहमिच्छामि तत्सर्वं विधिवद्देवकीसुतउपयोक्तुं द्विजाग्र्येषु हव्यवाहे च माधव ॥१९॥
तदहं यष्टुमिच्छामि दाशार्ह सहितस्त्वयाअनुजैश्च महाबाहो तन्मानुज्ञातुमर्हसि ॥२०॥
स दीक्षापय गोविन्द त्वमात्मानं महाभुजत्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम् ॥२१॥
मां वाप्यभ्यनुजानीहि सहैभिरनुजैर्विभोअनुज्ञातस्त्वया कृष्ण प्राप्नुयां क्रतुमुत्तमम् ॥२२॥
तं कृष्णः प्रत्युवाचेदं बहूक्त्वा गुणविस्तरम्त्वमेव राजशार्दूल सम्राडर्हो महाक्रतुम्संप्राप्नुहि त्वया प्राप्ते कृतकृत्यास्ततो वयम् ॥२३॥
यजस्वाभीप्सितं यज्ञं मयि श्रेयस्यवस्थितेनियुङ्क्ष्व चापि मां कृत्ये सर्वं कर्तास्मि ते वचः ॥२४॥
युधिष्ठिर उवाच
सफलः कृष्ण संकल्पः सिद्धिश्च नियता ममयस्य मे त्वं हृषीकेश यथेप्सितमुपस्थितः ॥२५॥
वैशंपायन उवाच
अनुज्ञातस्तु कृष्णेन पाण्डवो भ्रातृभिः सहईहितुं राजसूयाय साधनान्युपचक्रमे ॥२६॥
तत आज्ञापयामास पाण्डवोऽरिनिबर्हणःसहदेवं युधां श्रेष्ठं मन्त्रिणश्चैव सर्वशः ॥२७॥
अस्मिन्क्रतौ यथोक्तानि यज्ञाङ्गानि द्विजातिभिःतथोपकरणं सर्वं मङ्गलानि च सर्वशः ॥२८॥
अधियज्ञांश्च संभारान्धौम्योक्तान्क्षिप्रमेव हिसमानयन्तु पुरुषा यथायोगं यथाक्रमम् ॥२९॥
इन्द्रसेनो विशोकश्च पूरुश्चार्जुनसारथिःअन्नाद्याहरणे युक्ताः सन्तु मत्प्रियकाम्यया ॥३०॥
सर्वकामाश्च कार्यन्तां रसगन्धसमन्विताःमनोहराः प्रीतिकरा द्विजानां कुरुसत्तम ॥३१॥
तद्वाक्यसमकालं तु कृतं सर्वमवेदयत्सहदेवो युधां श्रेष्ठो धर्मराजे महात्मनि ॥३२॥
ततो द्वैपायनो राजन्नृत्विजः समुपानयत्वेदानिव महाभागान्साक्षान्मूर्तिमतो द्विजान् ॥३३॥
स्वयं ब्रह्मत्वमकरोत्तस्य सत्यवतीसुतःधनंजयानामृषभः सुसामा सामगोऽभवत् ॥३४॥
याज्ञवल्क्यो बभूवाथ ब्रह्मिष्ठोऽध्वर्युसत्तमःपैलो होता वसोः पुत्रो धौम्येन सहितोऽभवत् ॥३५॥
एतेषां शिष्यवर्गाश्च पुत्राश्च भरतर्षभबभूवुर्होत्रगाः सर्वे वेदवेदाङ्गपारगाः ॥३६॥
ते वाचयित्वा पुण्याहमीहयित्वा च तं विधिम्शास्त्रोक्तं योजयामासुस्तद्देवयजनं महत् ॥३७॥
तत्र चक्रुरनुज्ञाताः शरणान्युत शिल्पिनःरत्नवन्ति विशालानि वेश्मानीव दिवौकसाम् ॥३८॥
तत आज्ञापयामास स राजा राजसत्तमःसहदेवं तदा सद्यो मन्त्रिणं कुरुसत्तमः ॥३९॥
आमन्त्रणार्थं दूतांस्त्वं प्रेषयस्वाशुगान्द्रुतम्उपश्रुत्य वचो राज्ञः स दूतान्प्राहिणोत्तदा ॥४०॥
आमन्त्रयध्वं राष्ट्रेषु ब्राह्मणान्भूमिपानपिविशश्च मान्याञ्शूद्रांश्च सर्वानानयतेति च ॥४१॥
ते सर्वान्पृथिवीपालान्पाण्डवेयस्य शासनात्आमन्त्रयां बभूवुश्च प्रेषयामास चापरान् ॥४२॥
ततस्ते तु यथाकालं कुन्तीपुत्रं युधिष्ठिरम्दीक्षयां चक्रिरे विप्रा राजसूयाय भारत ॥४३॥
दीक्षितः स तु धर्मात्मा धर्मराजो युधिष्ठिरःजगाम यज्ञायतनं वृतो विप्रैः सहस्रशः ॥४४॥
भ्रातृभिर्ज्ञातिभिश्चैव सुहृद्भिः सचिवैस्तथाक्षत्रियैश्च मनुष्येन्द्र नानादेशसमागतैःअमात्यैश्च नृपश्रेष्ठो धर्मो विग्रहवानिव ॥४५॥
आजग्मुर्ब्राह्मणास्तत्र विषयेभ्यस्ततस्ततःसर्वविद्यासु निष्णाता वेदवेदाङ्गपारगाः ॥४६॥
तेषामावसथांश्चक्रुर्धर्मराजस्य शासनात्बह्वन्नाञ्शयनैर्युक्तान्सगणानां पृथक्पृथक्सर्वर्तुगुणसंपन्नाञ्शिल्पिनोऽथ सहस्रशः ॥४७॥
तेषु ते न्यवसन्राजन्ब्राह्मणा भृशसत्कृताःकथयन्तः कथा बह्वीः पश्यन्तो नटनर्तकान् ॥४८॥
भुञ्जतां चैव विप्राणां वदतां च महास्वनःअनिशं श्रूयते स्मात्र मुदितानां महात्मनाम् ॥४९॥
दीयतां दीयतामेषां भुज्यतां भुज्यतामितिएवंप्रकाराः संजल्पाः श्रूयन्ते स्मात्र नित्यशः ॥५०॥
गवां शतसहस्राणि शयनानां च भारतरुक्मस्य योषितां चैव धर्मराजः पृथग्ददौ ॥५१॥
प्रावर्ततैवं यज्ञः स पाण्डवस्य महात्मनःपृथिव्यामेकवीरस्य शक्रस्येव त्रिविष्टपे ॥५२॥
ततो युधिष्ठिरो राजा प्रेषयामास पाण्डवम्नकुलं हास्तिनपुरं भीष्माय भरतर्षभ ॥५३॥
द्रोणाय धृतराष्ट्राय विदुराय कृपाय चभ्रातॄणां चैव सर्वेषां येऽनुरक्ता युधिष्ठिरे ॥५४॥
End of chapter ॥
1
Mahabharata · Sabha Parva

Adhyaya 30

0
Adhyaya 30Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0