Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Sabha Parva
वैशंपायन उवाच
एवमुक्त्वा ततो भीष्मो विरराम महायशाःव्याजहारोत्तरं तत्र सहदेवोऽर्थवद्वचः ॥१॥
केशवं केशिहन्तारमप्रमेयपराक्रमम्पूज्यमानं मया यो वः कृष्णं न सहते नृपाः ॥२॥
सर्वेषां बलिनां मूर्ध्नि मयेदं निहितं पदम्एवमुक्ते मया सम्यगुत्तरं प्रब्रवीतु सः ॥३॥
मतिमन्तस्तु ये केचिदाचार्यं पितरं गुरुम्अर्च्यमर्चितमर्चार्हमनुजानन्तु ते नृपाः ॥४॥
ततो न व्याजहारैषां कश्चिद्बुद्धिमतां सताम्मानिनां बलिनां राज्ञां मध्ये संदर्शिते पदे ॥५॥
ततोऽपतत्पुष्पवृष्टिः सहदेवस्य मूर्धनिअदृश्यरूपा वाचश्चाप्यब्रुवन्साधु साध्विति ॥६॥
आविध्यदजिनं कृष्णं भविष्यद्भूतजल्पकःसर्वसंशयनिर्मोक्ता नारदः सर्वलोकवित् ॥७॥
तत्राहूतागताः सर्वे सुनीथप्रमुखा गणाःसंप्रादृश्यन्त संक्रुद्धा विवर्णवदनास्तथा ॥८॥
युधिष्ठिराभिषेकं च वासुदेवस्य चार्हणम्अब्रुवंस्तत्र राजानो निर्वेदादात्मनिश्चयात् ॥९॥
सुहृद्भिर्वार्यमाणानां तेषां हि वपुराबभौआमिषादपकृष्टानां सिंहानामिव गर्जताम् ॥१०॥
तं बलौघमपर्यन्तं राजसागरमक्षयम्कुर्वाणं समयं कृष्णो युद्धाय बुबुधे तदा ॥११॥
पूजयित्वा तु पूजार्हं ब्रह्मक्षत्रं विशेषतःसहदेवो नृणां देवः समापयत कर्म तत् ॥१२॥
तस्मिन्नभ्यर्चिते कृष्णे सुनीथः शत्रुकर्षणःअतिताम्रेक्षणः कोपादुवाच मनुजाधिपान् ॥१३॥
स्थितः सेनापतिर्वोऽहं मन्यध्वं किं नु सांप्रतम्युधि तिष्ठाम संनह्य समेतान्वृष्णिपाण्डवान् ॥१४॥
इति सर्वान्समुत्साह्य राज्ञस्तांश्चेदिपुंगवःयज्ञोपघाताय ततः सोऽमन्त्रयत राजभिः ॥१५॥
End of chapter ॥
1
Mahabharata · Sabha Parva

Adhyaya 36

0
Adhyaya 36Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0