Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Sabha Parva
दुर्योधन उवाच
यन्मया पाण्डवानां तु दृष्टं तच्छृणु भारतआहृतं भूमिपालैर्हि वसु मुख्यं ततस्ततः ॥१॥
न विन्दे दृढमात्मानं दृष्ट्वाहं तदरेर्धनम्फलतो भूमितो वापि प्रतिपद्यस्व भारत ॥२॥
ऐडांश्चैलान्वार्षदंशाञ्जातरूपपरिष्कृतान्प्रावाराजिनमुख्यांश्च काम्बोजः प्रददौ वसु ॥३॥
अश्वांस्तित्तिरिकल्माषांस्त्रिशतं शुकनासिकान्उष्ट्रवामीस्त्रिशतं च पुष्टाः पीलुशमीङ्गुदैः ॥४॥
गोवासना ब्राह्मणाश्च दासमीयाश्च सर्वशःप्रीत्यर्थं ते महाभागा धर्मराज्ञो महात्मनःत्रिखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः ॥५॥
कमण्डलूनुपादाय जातरूपमयाञ्शुभान्एवं बलिं प्रदायाथ प्रवेशं लेभिरे ततः ॥६॥
शतं दासीसहस्राणां कार्पासिकनिवासिनाम्श्यामास्तन्व्यो दीर्घकेश्यो हेमाभरणभूषिताःशूद्रा विप्रोत्तमार्हाणि राङ्कवान्यजिनानि च ॥७॥
बलिं च कृत्स्नमादाय भरुकच्छनिवासिनःउपनिन्युर्महाराज हयान्गान्धारदेशजान् ॥८॥
इन्द्रकृष्टैर्वर्तयन्ति धान्यैर्नदीमुखैश्च येसमुद्रनिष्कुटे जाताः परिसिन्धु च मानवाः ॥९॥
ते वैरामाः पारदाश्च वङ्गाश्च कितवैः सहविविधं बलिमादाय रत्नानि विविधानि च ॥१०॥
अजाविकं गोहिरण्यं खरोष्ट्रं फलजं मधुकम्बलान्विविधांश्चैव द्वारि तिष्ठन्ति वारिताः ॥११॥
प्राग्ज्योतिषाधिपः शूरो म्लेच्छानामधिपो बलीयवनैः सहितो राजा भगदत्तो महारथः ॥१२॥
आजानेयान्हयाञ्शीघ्रानादायानिलरंहसःबलिं च कृत्स्नमादाय द्वारि तिष्ठति वारितः ॥१३॥
अश्मसारमयं भाण्डं शुद्धदन्तत्सरूनसीन्प्राग्ज्योतिषोऽथ तद्दत्त्वा भगदत्तोऽव्रजत्तदा ॥१४॥
द्व्यक्षांस्त्र्यक्षाँल्ललाटाक्षान्नानादिग्भ्यः समागतान्औष्णीषाननिवासांश्च बाहुकान्पुरुषादकान् ॥१५॥
एकपादांश्च तत्राहमपश्यं द्वारि वारितान्बल्यर्थं ददतस्तस्मै हिरण्यं रजतं बहु ॥१६॥
इन्द्रगोपकवर्णाभाञ्शुकवर्णान्मनोजवान्तथैवेन्द्रायुधनिभान्संध्याभ्रसदृशानपि ॥१७॥
अनेकवर्णानारण्यान्गृहीत्वाश्वान्मनोजवान्जातरूपमनर्घ्यं च ददुस्तस्यैकपादकाः ॥१८॥
चीनान्हूणाञ्शकानोड्रान्पर्वतान्तरवासिनःवार्ष्णेयान्हारहूणांश्च कृष्णान्हैमवतांस्तथा ॥१९॥
न पारयाम्यभिगतान्विविधान्द्वारि वारितान्बल्यर्थं ददतस्तस्य नानारूपाननेकशः ॥२०॥
कृष्णग्रीवान्महाकायान्रासभाञ्शतपातिनःआहार्षुर्दशसाहस्रान्विनीतान्दिक्षु विश्रुतान् ॥२१॥
प्रमाणरागस्पर्शाढ्यं बाह्लीचीनसमुद्भवम्और्णं च राङ्कवं चैव कीटजं पट्टजं तथा ॥२२॥
कुट्टीकृतं तथैवान्यत्कमलाभं सहस्रशःश्लक्ष्णं वस्त्रमकार्पासमाविकं मृदु चाजिनम् ॥२३॥
निशितांश्चैव दीर्घासीनृष्टिशक्तिपरश्वधान्अपरान्तसमुद्भूतांस्तथैव परशूञ्शितान् ॥२४॥
रसान्गन्धांश्च विविधान्रत्नानि च सहस्रशःबलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः ॥२५॥
शकास्तुखाराः कङ्काश्च रोमशाः शृङ्गिणो नराःमहागमान्दूरगमान्गणितानर्बुदं हयान् ॥२६॥
कोटिशश्चैव बहुशः सुवर्णं पद्मसंमितम्बलिमादाय विविधं द्वारि तिष्ठन्ति वारिताः ॥२७॥
आसनानि महार्हाणि यानानि शयनानि चमणिकाञ्चनचित्राणि गजदन्तमयानि च ॥२८॥
रथांश्च विविधाकाराञ्जातरूपपरिष्कृतान्हयैर्विनीतैः संपन्नान्वैयाघ्रपरिवारणान् ॥२९॥
विचित्रांश्च परिस्तोमान्रत्नानि च सहस्रशःनाराचानर्धनाराचाञ्शस्त्राणि विविधानि च ॥३०॥
एतद्दत्त्वा महद्द्रव्यं पूर्वदेशाधिपो नृपःप्रविष्टो यज्ञसदनं पाण्डवस्य महात्मनः ॥३१॥
End of chapter ॥
1
Mahabharata · Sabha Parva

Adhyaya 47

0
Adhyaya 47Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0