Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Sabha Parva
दुर्योधन उवाच
दायं तु तस्मै विविधं शृणु मे गदतोऽनघयज्ञार्थं राजभिर्दत्तं महान्तं धनसंचयम् ॥१॥
मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम्ये ते कीचकवेणूनां छायां रम्यामुपासते ॥२॥
खशा एकाशनाज्योहाः प्रदरा दीर्घवेणवःपशुपाश्च कुणिन्दाश्च तङ्गणाः परतङ्गणाः ॥३॥
ते वै पिपीलिकं नाम वरदत्तं पिपीलिकैःजातरूपं द्रोणमेयमहार्षुः पुञ्जशो नृपाः ॥४॥
कृष्णाँल्ललामांश्चमराञ्शुक्लांश्चान्याञ्शशिप्रभान्हिमवत्पुष्पजं चैव स्वादु क्षौद्रं तथा बहु ॥५॥
उत्तरेभ्यः कुरुभ्यश्चाप्यपोढं माल्यमम्बुभिःउत्तरादपि कैलासादोषधीः सुमहाबलाः ॥६॥
पार्वतीया बलिं चान्यमाहृत्य प्रणताः स्थिताःअजातशत्रोर्नृपतेर्द्वारि तिष्ठन्ति वारिताः ॥७॥
ये परार्धे हिमवतः सूर्योदयगिरौ नृपाःवारिषेणसमुद्रान्ते लोहित्यमभितश्च येफलमूलाशना ये च किराताश्चर्मवाससः ॥८॥
चन्दनागुरुकाष्ठानां भारान्कालीयकस्य चचर्मरत्नसुवर्णानां गन्धानां चैव राशयः ॥९॥
कैरातिकानामयुतं दासीनां च विशां पतेआहृत्य रमणीयार्थान्दूरजान्मृगपक्षिणः ॥१०॥
निचितं पर्वतेभ्यश्च हिरण्यं भूरिवर्चसम्बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः ॥११॥
कायव्या दरदा दार्वाः शूरा वैयमकास्तथाऔदुम्बरा दुर्विभागाः पारदा बाह्लिकैः सह ॥१२॥
काश्मीराः कुन्दमानाश्च पौरका हंसकायनाःशिबित्रिगर्तयौधेया राजन्या मद्रकेकयाः ॥१३॥
अम्बष्ठाः कौकुरास्तार्क्ष्या वस्त्रपाः पह्लवैः सहवसातयः समौलेयाः सह क्षुद्रकमालवैः ॥१४॥
शौण्डिकाः कुक्कुराश्चैव शकाश्चैव विशां पतेअङ्गा वङ्गाश्च पुण्ड्राश्च शानवत्या गयास्तथा ॥१५॥
सुजातयः श्रेणिमन्तः श्रेयांसः शस्त्रपाणयःआहार्षुः क्षत्रिया वित्तं शतशोऽजातशत्रवे ॥१६॥
वङ्गाः कलिङ्गपतयस्ताम्रलिप्ताः सपुण्ड्रकाःदुकूलं कौशिकं चैव पत्रोर्णं प्रावरानपि ॥१७॥
तत्र स्म द्वारपालैस्ते प्रोच्यन्ते राजशासनात्कृतकाराः सुबलयस्ततो द्वारमवाप्स्यथ ॥१८॥
ईषादन्तान्हेमकक्षान्पद्मवर्णान्कुथावृतान्शैलाभान्नित्यमत्तांश्च अभितः काम्यकं सरः ॥१९॥
दत्त्वैकैको दशशतान्कुञ्जरान्कवचावृतान्क्षमावतः कुलीनांश्च द्वारेण प्राविशंस्ततः ॥२०॥
एते चान्ये च बहवो गणा दिग्भ्यः समागताःअन्यैश्चोपाहृतान्यत्र रत्नानीह महात्मभिः ॥२१॥
राजा चित्ररथो नाम गन्धर्वो वासवानुगःशतानि चत्वार्यददद्धयानां वातरंहसाम् ॥२२॥
तुम्बुरुस्तु प्रमुदितो गन्धर्वो वाजिनां शतम्आम्रपत्रसवर्णानामददद्धेममालिनाम् ॥२३॥
कृती तु राजा कौरव्य शूकराणां विशां पतेअददद्गजरत्नानां शतानि सुबहून्यपि ॥२४॥
विराटेन तु मत्स्येन बल्यर्थं हेममालिनाम्कुञ्जराणां सहस्रे द्वे मत्तानां समुपाहृते ॥२५॥
पांशुराष्ट्राद्वसुदानो राजा षड्विंशतिं गजान्अश्वानां च सहस्रे द्वे राजन्काञ्चनमालिनाम् ॥२६॥
जवसत्त्वोपपन्नानां वयःस्थानां नराधिपबलिं च कृत्स्नमादाय पाण्डवेभ्यो न्यवेदयत् ॥२७॥
यज्ञसेनेन दासीनां सहस्राणि चतुर्दशदासानामयुतं चैव सदाराणां विशां पते ॥२८॥
गजयुक्ता महाराज रथाः षड्विंशतिस्तथाराज्यं च कृत्स्नं पार्थेभ्यो यज्ञार्थं वै निवेदितम् ॥२९॥
समुद्रसारं वैडूर्यं मुक्ताः शङ्खांस्तथैव चशतशश्च कुथांस्तत्र सिंहलाः समुपाहरन् ॥३०॥
संवृता मणिचीरैस्तु श्यामास्ताम्रान्तलोचनाःतान्गृहीत्वा नरास्तत्र द्वारि तिष्ठन्ति वारिताः ॥३१॥
प्रीत्यर्थं ब्राह्मणाश्चैव क्षत्रियाश्च विनिर्जिताःउपाजह्रुर्विशश्चैव शूद्राः शुश्रूषवोऽपि चप्रीत्या च बहुमानाच्च अभ्यगच्छन्युधिष्ठिरम् ॥३२॥
सर्वे म्लेच्छाः सर्ववर्णा आदिमध्यान्तजास्तथानानादेशसमुत्थैश्च नानाजातिभिरागतैःपर्यस्त इव लोकोऽयं युधिष्ठिरनिवेशने ॥३३॥
उच्चावचानुपग्राहान्राजभिः प्रहितान्बहून्शत्रूणां पश्यतो दुःखान्मुमूर्षा मेऽद्य जायते ॥३४॥
भृत्यास्तु ये पाण्डवानां तांस्ते वक्ष्यामि भारतयेषामामं च पक्वं च संविधत्ते युधिष्ठिरः ॥३५॥
अयुतं त्रीणि पद्मानि गजारोहाः ससादिनःरथानामर्बुदं चापि पादाता बहवस्तथा ॥३६॥
प्रमीयमाणमारब्धं पच्यमानं तथैव चविसृज्यमानं चान्यत्र पुण्याहस्वन एव च ॥३७॥
नाभुक्तवन्तं नाहृष्टं नासुभिक्षं कथंचनअपश्यं सर्ववर्णानां युधिष्ठिरनिवेशने ॥३८॥
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनःत्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरःसुप्रीताः परितुष्टाश्च तेऽप्याशंसन्त्यरिक्षयम् ॥३९॥
दशान्यानि सहस्राणि यतीनामूर्ध्वरेतसाम्भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने ॥४०॥
भुक्ताभुक्तं कृताकृतं सर्वमाकुब्जवामनम्अभुञ्जाना याज्ञसेनी प्रत्यवैक्षद्विशां पते ॥४१॥
द्वौ करं न प्रयच्छेतां कुन्तीपुत्राय भारतवैवाहिकेन पाञ्चालाः सख्येनान्धकवृष्णयः ॥४२॥
End of chapter ॥
1
Mahabharata · Sabha Parva

Adhyaya 48

0
Adhyaya 48Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0