Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Sabha Parva
दुर्योधन उवाच
आर्यास्तु ये वै राजानः सत्यसंधा महाव्रताःपर्याप्तविद्या वक्तारो वेदान्तावभृथाप्लुताः ॥१॥
धृतिमन्तो ह्रीनिषेधा धर्मात्मानो यशस्विनःमूर्धाभिषिक्तास्ते चैनं राजानः पर्युपासते ॥२॥
दक्षिणार्थं समानीता राजभिः कांस्यदोहनाःआरण्या बहुसाहस्रा अपश्यं तत्र तत्र गाः ॥३॥
आजह्रुस्तत्र सत्कृत्य स्वयमुद्यम्य भारतअभिषेकार्थमव्यग्रा भाण्डमुच्चावचं नृपाः ॥४॥
बाह्लीको रथमाहार्षीज्जाम्बूनदपरिष्कृतम्सुदक्षिणस्तं युयुजे श्वेतैः काम्बोजजैर्हयैः ॥५॥
सुनीथोऽप्रतिमं तस्य अनुकर्षं महायशाःध्वजं चेदिपतिः क्षिप्रमहार्षीत्स्वयमुद्यतम् ॥६॥
दाक्षिणात्यः संनहनं स्रगुष्णीषे च मागधःवसुदानो महेष्वासो गजेन्द्रं षष्टिहायनम् ॥७॥
मत्स्यस्त्वक्षानवाबध्नादेकलव्य उपानहौआवन्त्यस्त्वभिषेकार्थमापो बहुविधास्तथा ॥८॥
चेकितान उपासङ्गं धनुः काश्य उपाहरत्असिं रुक्मत्सरुं शल्यः शैक्यं काञ्चनभूषणम् ॥९॥
अभ्यषिञ्चत्ततो धौम्यो व्यासश्च सुमहातपाःनारदं वै पुरस्कृत्य देवलं चासितं मुनिम् ॥१०॥
प्रीतिमन्त उपातिष्ठन्नभिषेकं महर्षयःजामदग्न्येन सहितास्तथान्ये वेदपारगाः ॥११॥
अभिजग्मुर्महात्मानं मन्त्रवद्भूरिदक्षिणम्महेन्द्रमिव देवेन्द्रं दिवि सप्तर्षयो यथा ॥१२॥
अधारयच्छत्रमस्य सात्यकिः सत्यविक्रमःधनंजयश्च व्यजने भीमसेनश्च पाण्डवः ॥१३॥
उपागृह्णाद्यमिन्द्राय पुराकल्पे प्रजापतिःतमस्मै शङ्खमाहार्षीद्वारुणं कलशोदधिः ॥१४॥
सिक्तं निष्कसहस्रेण सुकृतं विश्वकर्मणातेनाभिषिक्तः कृष्णेन तत्र मे कश्मलोऽभवत् ॥१५॥
गच्छन्ति पूर्वादपरं समुद्रं चापि दक्षिणम्उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः ॥१६॥
तत्र स्म दध्मुः शतशः शङ्खान्मङ्गल्यकारणात्प्राणदंस्ते समाध्मातास्तत्र रोमाणि मेऽहृषन् ॥१७॥
प्रणता भूमिपाश्चापि पेतुर्हीनाः स्वतेजसाधृष्टद्युम्नः पाण्डवाश्च सात्यकिः केशवोऽष्टमः ॥१८॥
सत्त्वस्थाः शौर्यसंपन्ना अन्योन्यप्रियकारिणःविसंज्ञान्भूमिपान्दृष्ट्वा मां च ते प्राहसंस्तदा ॥१९॥
ततः प्रहृष्टो बीभत्सुः प्रादाद्धेमविषाणिनाम्शतान्यनडुहां पञ्च द्विजमुख्येषु भारत ॥२०॥
नैवं शम्बरहन्ताभूद्यौवनाश्वो मनुर्न चन च राजा पृथुर्वैन्यो न चाप्यासीद्भगीरथः ॥२१॥
यथातिमात्रं कौन्तेयः श्रिया परमया युतःराजसूयमवाप्यैवं हरिश्चन्द्र इव प्रभुः ॥२२॥
एतां दृष्ट्वा श्रियं पार्थे हरिश्चन्द्रे यथा विभोकथं नु जीवितं श्रेयो मम पश्यसि भारत ॥२३॥
अन्धेनेव युगं नद्धं विपर्यस्तं नराधिपकनीयांसो विवर्धन्ते ज्येष्ठा हीयन्ति भारत ॥२४॥
एवं दृष्ट्वा नाभिविन्दामि शर्म; परीक्षमाणोऽपि कुरुप्रवीरतेनाहमेवं कृशतां गतश्च; विवर्णतां चैव सशोकतां च ॥२५॥
End of chapter ॥
1
Mahabharata · Sabha Parva

Adhyaya 49

0
Adhyaya 49Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0