Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Sabha Parva
विदुर उवाच
द्यूतं मूलं कलहस्यानुपाति; मिथोभेदाय महते वा रणाययदास्थितोऽयं धृतराष्ट्रस्य पुत्रो; दुर्योधनः सृजते वैरमुग्रम् ॥१॥
प्रातिपीयाः शांतनवा भैमसेनाः सबाह्लिकाःदुर्योधनापराधेन कृच्छ्रं प्राप्स्यन्ति सर्वशः ॥२॥
दुर्योधनो मदेनैव क्षेमं राष्ट्रादपोहतिविषाणं गौरिव मदात्स्वयमारुजते बलात् ॥३॥
यश्चित्तमन्वेति परस्य राज;न्वीरः कविः स्वामतिपत्य दृष्टिम्नावं समुद्र इव बालनेत्रा;मारुह्य घोरे व्यसने निमज्जेत् ॥४॥
दुर्योधनो ग्लहते पाण्डवेन; प्रियायसे त्वं जयतीति तच्चअतिनर्माज्जायते संप्रहारो; यतो विनाशः समुपैति पुंसाम् ॥५॥
आकर्षस्तेऽवाक्फलः कुप्रणीतो; हृदि प्रौढो मन्त्रपदः समाधिःयुधिष्ठिरेण सफलः संस्तवोऽस्तु; साम्नः सुरिक्तोऽरिमतेः सुधन्वा ॥६॥
प्रातिपीयाः शांतनवाश्च राज;न्काव्यां वाचं शृणुत मात्यगाद्वःवैश्वानरं प्रज्वलितं सुघोर;मयुद्धेन प्रशमयतोत्पतन्तम् ॥७॥
यदा मन्युं पाण्डवोऽजातशत्रु;र्न संयच्छेदक्षमयाभिभूतःवृकोदरः सव्यसाची यमौ च; कोऽत्र द्वीपः स्यात्तुमुले वस्तदानीम् ॥८॥
महाराज प्रभवस्त्वं धनानां; पुरा द्यूतान्मनसा यावदिच्छेःबहु वित्तं पाण्डवांश्चेज्जयेस्त्वं; किं तेन स्याद्वसु विन्देह पार्थान् ॥९॥
जानीमहे देवितं सौबलस्य; वेद द्यूते निकृतिं पार्वतीयःयतः प्राप्तः शकुनिस्तत्र यातु; मायायोधी भारत पार्वतीयः ॥१०॥
End of chapter ॥
1
Mahabharata · Sabha Parva

Adhyaya 56

0
Adhyaya 56Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0