Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Sabha Parva
दुर्योधन उवाच
एहि क्षत्तर्द्रौपदीमानयस्व; प्रियां भार्यां संमतां पाण्डवानाम्संमार्जतां वेश्म परैतु शीघ्र;मानन्दो नः सह दासीभिरस्तु ॥१॥
विदुर उवाच
दुर्विभाव्यं भवति त्वादृशेन; न मन्द संबुध्यसि पाशबद्धःप्रपाते त्वं लम्बमानो न वेत्सि; व्याघ्रान्मृगः कोपयसेऽतिबाल्यात् ॥२॥
आशीविषाः शिरसि ते पूर्णकोशा महाविषाःमा कोपिष्ठाः सुमन्दात्मन्मा गमस्त्वं यमक्षयम् ॥३॥
न हि दासीत्वमापन्ना कृष्णा भवति भारतअनीशेन हि राज्ञैषा पणे न्यस्तेति मे मतिः ॥४॥
अयं धत्ते वेणुरिवात्मघाती; फलं राजा धृतराष्ट्रस्य पुत्रःद्यूतं हि वैराय महाभयाय; पक्वो न बुध्यत्ययमन्तकाले ॥५॥
नारुंतुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीतययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम् ॥६॥
समुच्चरन्त्यतिवादा हि वक्त्रा;द्यैराहतः शोचति रात्र्यहानिपरस्य नामर्मसु ते पतन्ति; तान्पण्डितो नावसृजेत्परेषु ॥७॥
अजो हि शस्त्रमखनत्किलैकः; शस्त्रे विपन्ने पद्भिरपास्य भूमिम्निकृन्तनं स्वस्य कण्ठस्य घोरं; तद्वद्वैरं मा खनीः पाण्डुपुत्रैः ॥८॥
न किंचिदीड्यं प्रवदन्ति पापं; वनेचरं वा गृहमेधिनं वातपस्विनं संपरिपूर्णविद्यं; भषन्ति हैवं श्वनराः सदैव ॥९॥
द्वारं सुघोरं नरकस्य जिह्मं; न बुध्यसे धृतराष्ट्रस्य पुत्रत्वामन्वेतारो बहवः कुरूणां; द्यूतोदये सह दुःशासनेन ॥१०॥
मज्जन्त्यलाबूनि शिलाः प्लवन्ते; मुह्यन्ति नावोऽम्भसि शश्वदेवमूढो राजा धृतराष्ट्रस्य पुत्रो; न मे वाचः पथ्यरूपाः शृणोति ॥११॥
अन्तो नूनं भवितायं कुरूणां; सुदारुणः सर्वहरो विनाशःवाचः काव्याः सुहृदां पथ्यरूपा; न श्रूयन्ते वर्धते लोभ एव ॥१२॥
End of chapter ॥
1
Mahabharata · Sabha Parva

Adhyaya 59

0
Adhyaya 59Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0