Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Sabha Parva
वैशंपायन उवाच
संपूज्याथाभ्यनुज्ञातो महर्षेर्वचनात्परम्प्रत्युवाचानुपूर्व्येण धर्मराजो युधिष्ठिरः ॥१॥
भगवन्न्याय्यमाहैतं यथावद्धर्मनिश्चयम्यथाशक्ति यथान्यायं क्रियतेऽयं विधिर्मया ॥२॥
राजभिर्यद्यथा कार्यं पुरा तत्तन्न संशयःयथान्यायोपनीतार्थं कृतं हेतुमदर्थवत् ॥३॥
वयं तु सत्पथं तेषां यातुमिच्छामहे प्रभोन तु शक्यं तथा गन्तुं यथा तैर्नियतात्मभिः ॥४॥
एवमुक्त्वा स धर्मात्मा वाक्यं तदभिपूज्य चमुहूर्तात्प्राप्तकालं च दृष्ट्वा लोकचरं मुनिम् ॥५॥
नारदं स्वस्थमासीनमुपासीनो युधिष्ठिरःअपृच्छत्पाण्डवस्तत्र राजमध्ये महामतिः ॥६॥
भवान्संचरते लोकान्सदा नानाविधान्बहून्ब्रह्मणा निर्मितान्पूर्वं प्रेक्षमाणो मनोजवः ॥७॥
ईदृशी भवता काचिद्दृष्टपूर्वा सभा क्वचित्इतो वा श्रेयसी ब्रह्मंस्तन्ममाचक्ष्व पृच्छतः ॥८॥
तच्छ्रुत्वा नारदस्तस्य धर्मराजस्य भाषितम्पाण्डवं प्रत्युवाचेदं स्मयन्मधुरया गिरा ॥९॥
मानुषेषु न मे तात दृष्टपूर्वा न च श्रुतासभा मणिमयी राजन्यथेयं तव भारत ॥१०॥
सभां तु पितृराजस्य वरुणस्य च धीमतःकथयिष्ये तथेन्द्रस्य कैलासनिलयस्य च ॥११॥
ब्रह्मणश्च सभां दिव्यां कथयिष्ये गतक्लमाम्यदि ते श्रवणे बुद्धिर्वर्तते भरतर्षभ ॥१२॥
नारदेनैवमुक्तस्तु धर्मराजो युधिष्ठिरःप्राञ्जलिर्भ्रातृभिः सार्धं तैश्च सर्वैर्नृपैर्वृतः ॥१३॥
नारदं प्रत्युवाचेदं धर्मराजो महामनाःसभाः कथय ताः सर्वाः श्रोतुमिच्छामहे वयम् ॥१४॥
किंद्रव्यास्ताः सभा ब्रह्मन्किंविस्ताराः किमायताःपितामहं च के तस्यां सभायां पर्युपासते ॥१५॥
वासवं देवराजं च यमं वैवस्वतं च केवरुणं च कुबेरं च सभायां पर्युपासते ॥१६॥
एतत्सर्वं यथातत्त्वं देवर्षे वदतस्तवश्रोतुमिच्छाम सहिताः परं कौतूहलं हि नः ॥१७॥
एवमुक्तः पाण्डवेन नारदः प्रत्युवाच तम्क्रमेण राजन्दिव्यास्ताः श्रूयन्तामिह नः सभाः ॥१८॥
End of chapter ॥
1
Mahabharata · Sabha Parva

Adhyaya 6

0
Adhyaya 6Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0