Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Sabha Parva
वैशंपायन उवाच
वनवासाय चक्रुस्ते मतिं पार्थाः पराजिताःअजिनान्युत्तरीयाणि जगृहुश्च यथाक्रमम् ॥१॥
अजिनैः संवृतान्दृष्ट्वा हृतराज्यानरिंदमान्प्रस्थितान्वनवासाय ततो दुःशासनोऽब्रवीत् ॥२॥
प्रवृत्तं धार्तराष्ट्रस्य चक्रं राज्ञो महात्मनःपराभूताः पाण्डुपुत्रा विपत्तिं परमां गताः ॥३॥
अद्य देवाः संप्रयाताः समैर्वर्त्मभिरस्थलैःगुणज्येष्ठास्तथा ज्येष्ठा भूयांसो यद्वयं परैः ॥४॥
नरकं पातिताः पार्था दीर्घकालमनन्तकम्सुखाच्च हीना राज्याच्च विनष्टाः शाश्वतीः समाः ॥५॥
बलेन मत्ता ये ते स्म धार्तराष्ट्रान्प्रहासिषुःते निर्जिता हृतधना वनमेष्यन्ति पाण्डवाः ॥६॥
चित्रान्संनाहानवमुञ्चन्तु चैषां; वासांसि दिव्यानि च भानुमन्तिनिवास्यन्तां रुरुचर्माणि सर्वे; यथा ग्लहं सौबलस्याभ्युपेताः ॥७॥
न सन्ति लोकेषु पुमांस ईदृशा; इत्येव ये भावितबुद्धयः सदाज्ञास्यन्ति तेऽऽत्मानमिमेऽद्य पाण्डवा; विपर्यये षण्ढतिला इवाफलाः ॥८॥
अयं हि वासोदय ईदृशानां; मनस्विनां कौरव मा भवेद्वःअदीक्षितानामजिनानि यद्व;द्बलीयसां पश्यत पाण्डवानाम् ॥९॥
महाप्राज्ञः सोमको यज्ञसेनः; कन्यां पाञ्चालीं पाण्डवेभ्यः प्रदायअकार्षीद्वै दुष्कृतं नेह सन्ति; क्लीबाः पार्थाः पतयो याज्ञसेन्याः ॥१०॥
सूक्ष्मान्प्रावारानजिनानि चोदिता;न्दृष्ट्वारण्ये निर्धनानप्रतिष्ठान्कां त्वं प्रीतिं लप्स्यसे याज्ञसेनि; पतिं वृणीष्व यमिहान्यमिच्छसि ॥११॥
एते हि सर्वे कुरवः समेताः; क्षान्ता दान्ताः सुद्रविणोपपन्नाःएषां वृणीष्वैकतमं पतित्वे; न त्वां तपेत्कालविपर्ययोऽयम् ॥१२॥
यथाफलाः षण्ढतिला यथा चर्ममया मृगाःतथैव पाण्डवाः सर्वे यथा काकयवा अपि ॥१३॥
किं पाण्डवांस्त्वं पतितानुपास्से; मोघः श्रमः षण्ढतिलानुपास्यएवं नृशंसः परुषाणि पार्था;नश्रावयद्धृतराष्ट्रस्य पुत्रः ॥१४॥
तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी; निर्भर्त्स्योच्चैस्तं निगृह्यैव रोषात्उवाचेदं सहसैवोपगम्य; सिंहो यथा हैमवतः शृगालम् ॥१५॥
भीमसेन उवाच
क्रूर पापजनैर्जुष्टमकृतार्थं प्रभाषसेगान्धारविद्यया हि त्वं राजमध्ये विकत्थसे ॥१६॥
यथा तुदसि मर्माणि वाक्शरैरिह नो भृशम्तथा स्मारयिता तेऽहं कृन्तन्मर्माणि संयुगे ॥१७॥
ये च त्वामनुवर्तन्ते कामलोभवशानुगाःगोप्तारः सानुबन्धांस्तान्नेष्यामि यमसादनम् ॥१८॥
वैशंपायन उवाच
एवं ब्रुवाणमजिनैर्विवासितं; दुःखाभिभूतं परिनृत्यति स्ममध्ये कुरूणां धर्मनिबद्धमार्गं; गौर्गौरिति स्माह्वयन्मुक्तलज्जः ॥१९॥
भीमसेन उवाच
नृशंसं परुषं क्रूरं शक्यं दुःशासन त्वयानिकृत्या हि धनं लब्ध्वा को विकत्थितुमर्हति ॥२०॥
मा ह स्म सुकृताँल्लोकान्गच्छेत्पार्थो वृकोदरःयदि वक्षसि भित्त्वा ते न पिबेच्छोणितं रणे ॥२१॥
धार्तराष्ट्रान्रणे हत्वा मिषतां सर्वधन्विनाम्शमं गन्तास्मि नचिरात्सत्यमेतद्ब्रवीमि वः ॥२२॥
वैशंपायन उवाच
तस्य राजा सिंहगतेः सखेलं; दुर्योधनो भीमसेनस्य हर्षात्गतिं स्वगत्यानुचकार मन्दो; निर्गच्छतां पाण्डवानां सभायाः ॥२३॥
नैतावता कृतमित्यब्रवीत्तं; वृकोदरः संनिवृत्तार्धकायःशीघ्रं हि त्वा निहतं सानुबन्धं; संस्मार्याहं प्रतिवक्ष्यामि मूढ ॥२४॥
एतत्समीक्ष्यात्मनि चावमानं; नियम्य मन्युं बलवान्स मानीराजानुगः संसदि कौरवाणां; विनिष्क्रमन्वाक्यमुवाच भीमः ॥२५॥
अहं दुर्योधनं हन्ता कर्णं हन्ता धनंजयःशकुनिं चाक्षकितवं सहदेवो हनिष्यति ॥२६॥
इदं च भूयो वक्ष्यामि सभामध्ये बृहद्वचःसत्यं देवाः करिष्यन्ति यन्नो युद्धं भविष्यति ॥२७॥
सुयोधनमिमं पापं हन्तास्मि गदया युधिशिरः पादेन चास्याहमधिष्ठास्यामि भूतले ॥२८॥
वाक्यशूरस्य चैवास्य परुषस्य दुरात्मनःदुःशासनस्य रुधिरं पातास्मि मृगराडिव ॥२९॥
अर्जुन उवाच
नैव वाचा व्यवसितं भीम विज्ञायते सताम्इतश्चतुर्दशे वर्षे द्रष्टारो यद्भविष्यति ॥३०॥
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनःदुःशासनचतुर्थानां भूमिः पास्यति शोणितम् ॥३१॥
असूयितारं वक्तारं प्रस्रष्टारं दुरात्मनाम्भीमसेन नियोगात्ते हन्ताहं कर्णमाहवे ॥३२॥
अर्जुनः प्रतिजानीते भीमस्य प्रियकाम्ययाकर्णं कर्णानुगांश्चैव रणे हन्तास्मि पत्रिभिः ॥३३॥
ये चान्ये प्रतियोत्स्यन्ति बुद्धिमोहेन मां नृपाःतांश्च सर्वाञ्शितैर्बाणैर्नेतास्मि यमसादनम् ॥३४॥
चलेद्धि हिमवान्स्थानान्निष्प्रभः स्याद्दिवाकरःशैत्यं सोमात्प्रणश्येत मत्सत्यं विचलेद्यदि ॥३५॥
न प्रदास्यति चेद्राज्यमितो वर्षे चतुर्दशेदुर्योधनो हि सत्कृत्य सत्यमेतद्भविष्यति ॥३६॥
वैशंपायन उवाच
इत्युक्तवति पार्थे तु श्रीमान्माद्रवतीसुतःप्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान् ॥३७॥
सौबलस्य वधं प्रेप्सुरिदं वचनमब्रवीत्क्रोधसंरक्तनयनो निःश्वसन्निव पन्नगः ॥३८॥
अक्षान्यान्मन्यसे मूढ गान्धाराणां यशोहरनैतेऽक्षा निशिता बाणास्त्वयैते समरे वृताः ॥३९॥
यथा चैवोक्तवान्भीमस्त्वामुद्दिश्य सबान्धवम्कर्ताहं कर्मणस्तस्य कुरु कार्याणि सर्वशः ॥४०॥
हन्तास्मि तरसा युद्धे त्वां विक्रम्य सबान्धवम्यदि स्थास्यसि संग्रामे क्षत्रधर्मेण सौबल ॥४१॥
सहदेववचः श्रुत्वा नकुलोऽपि विशां पतेदर्शनीयतमो नॄणामिदं वचनमब्रवीत् ॥४२॥
सुतेयं यज्ञसेनस्य द्यूतेऽस्मिन्धृतराष्ट्रजैःयैर्वाचः श्राविता रूक्षाः स्थितैर्दुर्योधनप्रिये ॥४३॥
तान्धार्तराष्ट्रान्दुर्वृत्तान्मुमूर्षून्कालचोदितान्दर्शयिष्यामि भूयिष्ठमहं वैवस्वतक्षयम् ॥४४॥
निदेशाद्धर्मराजस्य द्रौपद्याः पदवीं चरन्निर्धार्तराष्ट्रां पृथिवीं कर्तास्मि नचिरादिव ॥४५॥
एवं ते पुरुषव्याघ्राः सर्वे व्यायतबाहवःप्रतिज्ञा बहुलाः कृत्वा धृतराष्ट्रमुपागमन् ॥४६॥
End of chapter ॥
1
Mahabharata · Sabha Parva

Adhyaya 68

0
Adhyaya 68Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0