Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
वैशंपायन उवाच
गच्छन्स तीर्थानि महानुभावः; पुण्यानि रम्याणि ददर्श राजासर्वाणि विप्रैरुपशोभितानि; क्वचित्क्वचिद्भारत सागरस्य ॥१॥
स वृत्तवांस्तेषु कृताभिषेकः; सहानुजः पार्थिवपुत्रपौत्रःसमुद्रगां पुण्यतमां प्रशस्तां; जगाम पारिक्षित पाण्डुपुत्रः ॥२॥
तत्रापि चाप्लुत्य महानुभावः; संतर्पयामास पितॄन्सुरांश्चद्विजातिमुख्येषु धनं विसृज्य; गोदावरीं सागरगामगच्छत् ॥३॥
ततो विपाप्मा द्रविडेषु राज;न्समुद्रमासाद्य च लोकपुण्यम्अगस्त्यतीर्थं च पवित्रपुण्यं; नारीतीर्थान्यथ वीरो ददर्श ॥४॥
तत्रार्जुनस्याग्र्यधनुर्धरस्य; निशम्य तत्कर्म परैरसह्यम्संपूज्यमानः परमर्षिसंघैः; परां मुदं पाण्डुसुतः स लेभे ॥५॥
स तेषु तीर्थेष्वभिषिक्तगात्रः; कृष्णासहायः सहितोऽनुजैश्चसंपूजयन्विक्रममर्जुनस्य; रेमे महीपालपतिः पृथिव्याम् ॥६॥
ततः सहस्राणि गवां प्रदाय; तीर्थेषु तेष्वम्बुधरोत्तमस्यहृष्टः सह भ्रातृभिरर्जुनस्य; संकीर्तयामास गवां प्रदानम् ॥७॥
स तानि तीर्थानि च सागरस्य; पुण्यानि चान्यानि बहूनि राजन्क्रमेण गच्छन्परिपूर्णकामः; शूर्पारकं पुण्यतमं ददर्श ॥८॥
तत्रोदधेः कंचिदतीत्य देशं; ख्यातं पृथिव्यां वनमाससादतप्तं सुरैर्यत्र तपः पुरस्ता;दिष्टं तथा पुण्यतमैर्नरेन्द्रैः ॥९॥
स तत्र तामग्र्यधनुर्धरस्य; वेदीं ददर्शायतपीनबाहुःऋचीकपुत्रस्य तपस्विसंघैः; समावृतां पुण्यकृदर्चनीयाम् ॥१०॥
ततो वसूनां वसुधाधिपः स; मरुद्गणानां च तथाश्विनोश्चवैवस्वतादित्यधनेश्वराणा;मिन्द्रस्य विष्णोः सवितुर्विभोश्च ॥११॥
भगस्य चन्द्रस्य दिवाकरस्य; पतेरपां साध्यगणस्य चैवधातुः पितॄणां च तथा महात्मा; रुद्रस्य राजन्सगणस्य चैव ॥१२॥
सरस्वत्याः सिद्धगणस्य चैव; पूष्णश्च ये चाप्यमरास्तथान्येपुण्यानि चाप्यायतनानि तेषां; ददर्श राजा सुमनोहराणि ॥१३॥
तेषूपवासान्विविधानुपोष्य; दत्त्वा च रत्नानि महाधनानितीर्थेषु सर्वेषु परिप्लुताङ्गः; पुनः स शूर्पारकमाजगाम ॥१४॥
स तेन तीर्थेन तु सागरस्य; पुनः प्रयातः सह सोदरीयैःद्विजैः पृथिव्यां प्रथितं महद्भि;स्तीर्थं प्रभासं समुपाजगाम ॥१५॥
तत्राभिषिक्तः पृथुलोहिताक्षः; सहानुजैर्देवगणान्पितॄंश्चसंतर्पयामास तथैव कृष्णा; ते चापि विप्राः सह लोमशेन ॥१६॥
स द्वादशाहं जलवायुभक्षः; कुर्वन्क्षपाहःसु तदाभिषेकम्समन्ततोऽग्नीनुपदीपयित्वा; तेपे तपो धर्मभृतां वरिष्ठः ॥१७॥
तमुग्रमास्थाय तपश्चरन्तं; शुश्राव रामश्च जनार्दनश्चतौ सर्ववृष्णिप्रवरौ ससैन्यौ; युधिष्ठिरं जग्मतुराजमीढम् ॥१८॥
ते वृष्णयः पाण्डुसुतान्समीक्ष्य; भूमौ शयानान्मलदिग्धगात्रान्अनर्हतीं द्रौपदीं चापि दृष्ट्वा; सुदुःखिताश्चुक्रुशुरार्तनादम् ॥१९॥
ततः स रामं च जनार्दनं च; कार्ष्णिं च साम्बं च शिनेश्च पौत्रम्अन्यांश्च वृष्णीनुपगम्य पूजां; चक्रे यथाधर्ममदीनसत्त्वः ॥२०॥
ते चापि सर्वान्प्रतिपूज्य पार्थां;स्तैः सत्कृताः पाण्डुसुतैस्तथैवयुधिष्ठिरं संपरिवार्य राज;न्नुपाविशन्देवगणा यथेन्द्रम् ॥२१॥
तेषां स सर्वं चरितं परेषां; वने च वासं परमप्रतीतःअस्त्रार्थमिन्द्रस्य गतं च पार्थं; कृष्णे शशंसामरराजपुत्रम् ॥२२॥
श्रुत्वा तु ते तस्य वचः प्रतीता;स्तांश्चापि दृष्ट्वा सुकृशानतीवनेत्रोद्भवं संमुमुचुर्दशार्हा; दुःखार्तिजं वारि महानुभावाः ॥२३॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 118

0
Adhyaya 118Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0