Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
लोमश उवाच
कस्यचित्त्वथ कालस्य सुराणामश्विनौ नृपकृताभिषेकां विवृतां सुकन्यां तामपश्यताम् ॥१॥
तां दृष्ट्वा दर्शनीयाङ्गीं देवराजसुतामिवऊचतुः समभिद्रुत्य नासत्यावश्विनाविदम् ॥२॥
कस्य त्वमसि वामोरु किं वने वै करोषि चइच्छाव भद्रे ज्ञातुं त्वां तत्त्वमाख्याहि शोभने ॥३॥
ततः सुकन्या संवीता तावुवाच सुरोत्तमौशर्यातितनयां वित्तं भार्यां च च्यवनस्य माम् ॥४॥
अथाश्विनौ प्रहस्यैतामब्रूतां पुनरेव तुकथं त्वमसि कल्याणि पित्रा दत्ता गताध्वने ॥५॥
भ्राजसे वनमध्ये त्वं विद्युत्सौदामिनी यथान देवेष्वपि तुल्यां हि त्वया पश्याव भामिनि ॥६॥
सर्वाभरणसंपन्ना परमाम्बरधारिणीशोभेथास्त्वनवद्याङ्गि न त्वेवं मलपङ्किनी ॥७॥
कस्मादेवंविधा भूत्वा जराजर्जरितं पतिम्त्वमुपास्से ह कल्याणि कामभोगबहिष्कृतम् ॥८॥
असमर्थं परित्राणे पोषणे च शुचिस्मितेसाधु च्यवनमुत्सृज्य वरयस्वैकमावयोःपत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः ॥९॥
एवमुक्ता सुकन्या तु सुरौ ताविदमब्रवीत्रताहं च्यवने पत्यौ मैवं मा पर्यशङ्किथाः ॥१०॥
तावब्रूतां पुनस्त्वेनामावां देवभिषग्वरौयुवानं रूपसंपन्नं करिष्यावः पतिं तव ॥११॥
ततस्तस्यावयोश्चैव पतिमेकतमं वृणुएतेन समयेनैनमामन्त्रय वरानने ॥१२॥
सा तयोर्वचनाद्राजन्नुपसंगम्य भार्गवम्उवाच वाक्यं यत्ताभ्यामुक्तं भृगुसुतं प्रति ॥१३॥
तच्छ्रुत्वा च्यवनो भार्यामुवाच क्रियतामितिभर्त्रा सा समनुज्ञाता क्रियतामित्यथाब्रवीत् ॥१४॥
श्रुत्वा तदश्विनौ वाक्यं तत्तस्याः क्रियतामितिऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः ॥१५॥
ततोऽम्भश्च्यवनः शीघ्रं रूपार्थी प्रविवेश हअश्विनावपि तद्राजन्सरः प्रविशतां प्रभो ॥१६॥
ततो मुहूर्तादुत्तीर्णाः सर्वे ते सरसस्ततःदिव्यरूपधराः सर्वे युवानो मृष्टकुण्डलाःतुल्यरूपधराश्चैव मनसः प्रीतिवर्धनाः ॥१७॥
तेऽब्रुवन्सहिताः सर्वे वृणीष्वान्यतमं शुभेअस्माकमीप्सितं भद्रे पतित्वे वरवर्णिनियत्र वाप्यभिकामासि तं वृणीष्व सुशोभने ॥१८॥
सा समीक्ष्य तु तान्सर्वांस्तुल्यरूपधरान्स्थितान्निश्चित्य मनसा बुद्ध्या देवी वव्रे स्वकं पतिम् ॥१९॥
लब्ध्वा तु च्यवनो भार्यां वयोरूपं च वाञ्छितम्हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः ॥२०॥
यथाहं रूपसंपन्नो वयसा च समन्वितःकृतो भवद्भ्यां वृद्धः सन्भार्यां च प्राप्तवानिमाम् ॥२१॥
तस्माद्युवां करिष्यामि प्रीत्याहं सोमपीथिनौमिषतो देवराजस्य सत्यमेतद्ब्रवीमि वाम् ॥२२॥
तच्छ्रुत्वा हृष्टमनसौ दिवं तौ प्रतिजग्मतुःच्यवनोऽपि सुकन्या च सुराविव विजह्रतुः ॥२३॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 123

0
Adhyaya 123Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0