Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
युधिष्ठिर उवाच
मान्धाता राजशार्दूलस्त्रिषु लोकेषु विश्रुतःकथं जातो महाब्रह्मन्यौवनाश्वो नृपोत्तमःकथं चैतां परां काष्ठां प्राप्तवानमितद्युतिः ॥१॥
यस्य लोकास्त्रयो वश्या विष्णोरिव महात्मनःएतदिच्छाम्यहं श्रोतुं चरितं तस्य धीमतः ॥२॥
यथा मान्धातृशब्दश्च तस्य शक्रसमद्युतेःजन्म चाप्रतिवीर्यस्य कुशलो ह्यसि भाषितुम् ॥३॥
लोमश उवाच
शृणुष्वावहितो राजन्राज्ञस्तस्य महात्मनःयथा मान्धातृशब्दो वै लोकेषु परिगीयते ॥४॥
इक्ष्वाकुवंशप्रभवो युवनाश्वो महीपतिःसोऽयजत्पृथिवीपाल क्रतुभिर्भूरिदक्षिणैः ॥५॥
अश्वमेधसहस्रं च प्राप्य धर्मभृतां वरःअन्यैश्च क्रतुभिर्मुख्यैर्विविधैराप्तदक्षिणैः ॥६॥
अनपत्यस्तु राजर्षिः स महात्मा दृढव्रतःमन्त्रिष्वाधाय तद्राज्यं वननित्यो बभूव ह ॥७॥
शास्त्रदृष्टेन विधिना संयोज्यात्मानमात्मनापिपासाशुष्कहृदयः प्रविवेशाश्रमं भृगोः ॥८॥
तामेव रात्रिं राजेन्द्र महात्मा भृगुनन्दनःइष्टिं चकार सौद्युम्नेर्महर्षिः पुत्रकारणात् ॥९॥
संभृतो मन्त्रपूतेन वारिणा कलशो महान्तत्रातिष्ठत राजेन्द्र पूर्वमेव समाहितःयत्प्राश्य प्रसवेत्तस्य पत्नी शक्रसमं सुतम् ॥१०॥
तं न्यस्य वेद्यां कलशं सुषुपुस्ते महर्षयःरात्रिजागरणश्रान्ताः सौद्युम्निः समतीत्य तान् ॥११॥
शुष्ककण्ठः पिपासार्तः पानीयार्थी भृशं नृपःतं प्रविश्याश्रमं श्रान्तः पानीयं सोऽभ्ययाचत ॥१२॥
तस्य श्रान्तस्य शुष्केण कण्ठेन क्रोशतस्तदानाश्रौषीत्कश्चन तदा शकुनेरिव वाशितम् ॥१३॥
ततस्तं कलशं दृष्ट्वा जलपूर्णं स पार्थिवःअभ्यद्रवत वेगेन पीत्वा चाम्भो व्यवासृजत् ॥१४॥
स पीत्वा शीतलं तोयं पिपासार्तो महीपतिःनिर्वाणमगमद्धीमान्सुसुखी चाभवत्तदा ॥१५॥
ततस्ते प्रत्यबुध्यन्त ऋषयः सनराधिपाःनिस्तोयं तं च कलशं ददृशुः सर्व एव ते ॥१६॥
कस्य कर्मेदमिति च पर्यपृच्छन्समागताःयुवनाश्वो मयेत्येव सत्यं समभिपद्यत ॥१७॥
न युक्तमिति तं प्राह भगवान्भार्गवस्तदासुतार्थं स्थापिता ह्यापस्तपसा चैव संभृताः ॥१८॥
मया ह्यत्राहितं ब्रह्म तप आस्थाय दारुणम्पुत्रार्थं तव राजर्षे महाबलपराक्रम ॥१९॥
महाबलो महावीर्यस्तपोबलसमन्वितःयः शक्रमपि वीर्येण गमयेद्यमसादनम् ॥२०॥
अनेन विधिना राजन्मयैतदुपपादितम्अब्भक्षणं त्वया राजन्नयुक्तं कृतमद्य वै ॥२१॥
न त्वद्य शक्यमस्माभिरेतत्कर्तुमतोऽन्यथानूनं दैवकृतं ह्येतद्यदेवं कृतवानसि ॥२२॥
पिपासितेन याः पीता विधिमन्त्रपुरस्कृताःआपस्त्वया महाराज मत्तपोवीर्यसंभृताःताभ्यस्त्वमात्मना पुत्रमेवंवीर्यं जनिष्यसि ॥२३॥
विधास्यामो वयं तत्र तवेष्टिं परमाद्भुताम्यथा शक्रसमं पुत्रं जनयिष्यसि वीर्यवान् ॥२४॥
ततो वर्षशते पूर्णे तस्य राज्ञो महात्मनःवामं पार्श्वं विनिर्भिद्य सुतः सूर्य इवापरः ॥२५॥
निश्चक्राम महातेजा न च तं मृत्युराविशत्युवनाश्वं नरपतिं तदद्भुतमिवाभवत् ॥२६॥
ततः शक्रो महातेजास्तं दिदृक्षुरुपागमत्प्रदेशिनीं ततोऽस्यास्ये शक्रः समभिसंदधे ॥२७॥
मामयं धास्यतीत्येवं परिभाष्टः स वज्रिणामान्धातेति च नामास्य चक्रुः सेन्द्रा दिवौकसः ॥२८॥
प्रदेशिनीं शक्रदत्तामास्वाद्य स शिशुस्तदाअवर्धत महीपाल किष्कूणां च त्रयोदश ॥२९॥
वेदास्तं सधनुर्वेदा दिव्यान्यस्त्राणि चेश्वरम्उपतस्थुर्महाराज ध्यातमात्राणि सर्वशः ॥३०॥
धनुराजगवं नाम शराः शृङ्गोद्भवाश्च येअभेद्यं कवचं चैव सद्यस्तमुपसंश्रयन् ॥३१॥
सोऽभिषिक्तो मघवता स्वयं शक्रेण भारतधर्मेण व्यजयल्लोकांस्त्रीन्विष्णुरिव विक्रमैः ॥३२॥
तस्याप्रतिहतं चक्रं प्रावर्तत महात्मनःरत्नानि चैव राजर्षिं स्वयमेवोपतस्थिरे ॥३३॥
तस्येयं वसुसंपूर्णा वसुधा वसुधाधिपतेनेष्टं विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः ॥३४॥
चितचैत्यो महातेजा धर्मं प्राप्य च पुष्कलम्शक्रस्यार्धासनं राजँल्लब्धवानमितद्युतिः ॥३५॥
एकाह्ना पृथिवी तेन धर्मनित्येन धीमतानिर्जिता शासनादेव सरत्नाकरपत्तना ॥३६॥
तस्य चित्यैर्महाराज क्रतूनां दक्षिणावताम्चतुरन्ता मही व्याप्ता नासीत्किंचिदनावृतम् ॥३७॥
तेन पद्मसहस्राणि गवां दश महात्मनाब्राह्मणेभ्यो महाराज दत्तानीति प्रचक्षते ॥३८॥
तेन द्वादशवार्षिक्यामनावृष्ट्यां महात्मनावृष्टं सस्यविवृद्ध्यर्थं मिषतो वज्रपाणिनः ॥३९॥
तेन सोमकुलोत्पन्नो गान्धाराधिपतिर्महान्गर्जन्निव महामेघः प्रमथ्य निहतः शरैः ॥४०॥
प्रजाश्चतुर्विधास्तेन जिता राजन्महात्मनातेनात्मतपसा लोकाः स्थापिताश्चापि तेजसा ॥४१॥
तस्यैतद्देवयजनं स्थानमादित्यवर्चसःपश्य पुण्यतमे देशे कुरुक्षेत्रस्य मध्यतः ॥४२॥
एतत्ते सर्वमाख्यातं मान्धातुश्चरितं महत्जन्म चाग्र्यं महीपाल यन्मां त्वं परिपृच्छसि ॥४३॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 126

0
Adhyaya 126Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0