Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
अर्जुन उवाच
ततो मामभिविश्वस्तं संरूढशरविक्षतम्देवराजोऽनुगृह्येदं काले वचनमब्रवीत् ॥१॥
दिव्यान्यस्त्राणि सर्वाणि त्वयि तिष्ठन्ति भारतन त्वाभिभवितुं शक्तो मानुषो भुवि कश्चन ॥२॥
भीष्मो द्रोणः कृपः कर्णः शकुनिः सह राजभिःसंग्रामस्थस्य ते पुत्र कलां नार्हन्ति षोडशीम् ॥३॥
इदं च मे तनुत्राणं प्रायच्छन्मघवान्प्रभुःअभेद्यं कवचं दिव्यं स्रजं चैव हिरण्मयीम् ॥४॥
देवदत्तं च मे शङ्खं देवः प्रादान्महारवम्दिव्यं चेदं किरीटं मे स्वयमिन्द्रो युयोज ह ॥५॥
ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि चप्रादाच्छक्रो ममैतानि रुचिराणि बृहन्ति च ॥६॥
एवं संपूजितस्तत्र सुखमस्म्युषितो नृपइन्द्रस्य भवने पुण्ये गन्धर्वशिशुभिः सह ॥७॥
ततो मामब्रवीच्छक्रः प्रीतिमानमरैः सहसमयोऽर्जुन गन्तुं ते भ्रातरो हि स्मरन्ति ते ॥८॥
एवमिन्द्रस्य भवने पञ्च वर्षाणि भारतउषितानि मया राजन्स्मरता द्यूतजं कलिम् ॥९॥
ततो भवन्तमद्राक्षं भ्रातृभिः परिवारितम्गन्धमादनमासाद्य पर्वतस्यास्य मूर्धनि ॥१०॥
युधिष्ठिर उवाच
दिष्ट्या धनंजयास्त्राणि त्वया प्राप्तानि भारतदिष्ट्या चाराधितो राजा देवानामीश्वरः प्रभुः ॥११॥
दिष्ट्या च भगवान्स्थाणुर्देव्या सह परंतपसाक्षाद्दृष्टः सुयुद्धेन तोषितश्च त्वयानघ ॥१२॥
दिष्ट्या च लोकपालैस्त्वं समेतो भरतर्षभदिष्ट्या वर्धामहे सर्वे दिष्ट्यासि पुनरागतः ॥१३॥
अद्य कृत्स्नामिमां देवीं विजितां पुरमालिनीम्मन्ये च धृतराष्ट्रस्य पुत्रानपि वशीकृतान् ॥१४॥
तानि त्विच्छामि ते द्रष्टुं दिव्यान्यस्त्राणि भारतयैस्तथा वीर्यवन्तस्ते निवातकवचा हता ॥१५॥
अर्जुन उवाच
श्वः प्रभाते भवान्द्रष्टा दिव्यान्यस्त्राणि सर्वशःनिवातकवचा घोरा यैर्मया विनिपातिताः ॥१६॥
वैशंपायन उवाच
एवमागमनं तत्र कथयित्वा धनंजयःभ्रातृभिः सहितः सर्वै रजनीं तामुवास ह ॥१७॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 171

0
Adhyaya 171Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0